________________
Tale ii: Four treasure.seekers.
OR, THE BARBER WHO KILLED THE MONKS. Book v. 277
: Tale viii: Ape's revenge. । अतो ऽहं ब्रवीमि । अनागतवती चिन्ताम् । इति । सुवर्णसिद्ध आह । एवम् एतत् । यतः ।
यो लौल्यान कुरुते कर्म । नैवानर्थम अपेक्षते । विडम्बनाम अवाप्नोति । स यथा चन्द्रभूपतिः ॥५४॥ चक्रधर आह । कथम् एतत् । सो ऽब्रवीत् ।
॥ कथा ॥ अस्ति कस्मिंश्चिन नगरे चन्द्रो नाम भूपतिः । तत्पुत्रक्रीडार्थ वानरयूथं तिष्ठति । तन नित्यम् एवानेकभोजनभक्ष्यादिभिः पुष्टिं नीयते । तस्यैव कुमारस्य क्रीडार्थ मेषयूथम अस्ति । तन्मध्याद् एको जिहालौल्याद् अहर्निशं महानसे प्रविश्य यत् किंचित पश्यति । तत् सर्व भक्षयति । तं च सूपकारा यत् किंचित काष्ठादिकम् अये पश्यन्ति । तेन ताडयन्ति । सो ऽपि वानरयूथ- 12 है पस् तद् दृष्ट्वा व्यचिन्तयत् । अहो । मेषसूपकारयोः कलहो ऽयं वानराणां क्षयाय भविष्यति । यतः स्वादलम्पटो ऽयं मेषः । महाकोपाश च सूपकारा यथास्थानासन्नेन वस्तुना 15 प्रहरन्ति । तदु यदि वस्त्वन्तराभावात कदाचिद् उल्मुकेन ताडयिष्यन्ति । तद् अर्णा प्रस्तरो ऽयं मेषः स्वल्पेनापि प्रज्वलियति । तद् दह्यमानः पुनर् अश्वकुट्यां समीपवर्तिन्यां प्रवेक्ष्यति । सापि 18 तृणप्राचुर्याज ज्वलिष्यति । इति । ततो ऽश्वा *वहिदाहम अवाप्स्यन्ति । शालिहोत्रे पुनर् एतद् उक्तम् । यद् वानरवसयाश्वानां १ वहिदाहदोषः प्रशाम्यति । तन नूनम् अस्माकम् उपस्थितो 21 मृत्युः । इति । एवं निश्चित्य सर्वान वानरान आय प्रोवाच ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org