Book Title: Panchtantram
Author(s): Vishnu Sharma
Publisher: Vishvanandikar Jain Sangh Ahmedabad

View full book text
Previous | Next

Page 276
________________ 263 OR, THE BARBER WHO KILLED THE MONKS. Book v. Tale li: Four treasure-seekers. तथा। गोष्ठिककर्मनियुक्तः । श्रेष्ठी चिन्तयति चेतसा हृष्टः । __ वसुधा वसुसंपूर्णा । प्राप्ता हि मया किम् अन्येन ॥२३॥irs अपरम्। पण्यानां गान्धिकं पण्यं । किम अन्यैः काञ्चनादिकैः । गृह्यते हि यद् एकेन । तत् सहस्रेण दीयते ॥२४॥ देशान्तरभाण्डानयनं वितवताम एवार्हति । उक्तं च । येषां स्याद् विपुलं वित्तं । श्रयन्ते ये ऽपि दूरतः । ते ऽथैर् अर्थान निबधन्ति । गजैर् इव महागजान ॥२५॥ " द्विगुणं त्रिगुणं वितं । क्रयविक्रयकोविदाः । प्राप्नुवन्य उद्यमाल लोके । दूरदेशान्तरं गताः ॥२६॥ किं च। सुभीताः परदेशेभ्यो । बहालस्याः प्रमादिनः । स्वदेशे निधनं यान्ति । काकाः कापुरुषा मृगाः ॥२७॥ इति । एवं संप्रधार्य देशान्तरगमनं च निश्चित्य गृहं सुहृज्जनं च 11 परित्यज्य चत्वारो ऽपि प्रस्थिताः । अथवा साध्व् इदम उच्यते ।। सत्यं परित्यजति मुञ्चति बन्धुवर्ग शीघ्रं विहाय जननीम् अपि जन्मभूमिम। संत्यज्य गच्छति विदेशम् अनिष्टलोकं विताकुलीकृतमतिः पुरुषः किम अन्यत् ॥२८॥ एवं च क्रमेणावन्तिविषयं प्राप्ताः । तत्र च सिमाजले स्नात्वा 21 श्रीमहाकालदेवं च प्रणम्य यावद् अयतो गच्छन्ति । तावद् भैरवानन्दो नाम योगीन्द्रः संमुखो बभूव । तं च ब्राह्मणोचितविधिना संभाय ते सर्वे तेनैव सह तदीयं मठायतनं जग्मुः। अथ । 13 Vasa Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324