Book Title: Panchtantram
Author(s): Vishnu Sharma
Publisher: Vishvanandikar Jain Sangh Ahmedabad
View full book text
________________
Book V. THE FRUITS OF RASHNESS ;
Tale iil: Lion-makers.
Tale ii: Four treasure-seekers.
आगच्छतु महानुभावः । अस्मदुपार्जितस्य वित्तस्य संविभागी
भवतु ।
तथानुष्ठिते तैर मार्गम् अतिक्रामद्भिर् अटव्यां मृतसिंहास्थीनि दृष्टानि । ततश चैकेनाभिहितम् । अहो ' पूर्वाधीतविद्यायाः प्रत्ययः क्रियते । किंचिद् एतन मृतसत्त्वं तिष्ठति । तत् सदभ्यस्त विद्याप्रभावेण प्रत्युज्जीवयामः । ततश चैकेनाभिहितम् । अहम् अस्थिसंचयं कर्तुं जानामि । द्वितीयेनाभिहितम् । चर्ममांसरुधिरं प्रयच्छामि । तृतीयेनाभिहितम् । अहं सजीवनं करोमि । (तत एकेनास्थिसंचयः कृतः । द्वितीयेन चर्ममांसरुधिरैः संयो-, जितः । तृतीयो यावज् जीवितव्यं योजयति लग्नः । तावत् स { बुद्धिमता निषिद्धः । उक्तश च । एष सिंहः । यद्य् एनं सजीवं करिष्यसि । तत् सर्वान् अय् अस्मान् व्यापादयिष्यति । इति । 12 ततस् तेनाभिहितम् । धिग् मूर्ख नाहं विद्यां विफलतां { नेष्यामि ततश च तेनाभिहितम् । तर्हि । क्षणं प्रतीक्षस्व यावद् अहम् एनं समीपतरुम् आरोहामि । तथानुष्ठिते यावत् 15 सजीवः कृतः । तावत् त्रयो ऽपि ते तेनोत्थाय व्यापादिताः । स च बुद्धिमान् सिंहे स्थानान्तरगते वृक्षाद् अवतीर्य गृहं गतः ॥
1
1
Jain Education International
शतबुद्धिः शिरःस्थो ऽयं । लम्बते च सहस्रधीः । एकबुर् अहं भद्रे । क्रीडामि विमले जले ॥३४॥
सुवर्णसिद्ध आह । कथम् एतत् । चक्रधरः कथयति ।
268
1
अतो ऽहं ब्रवीमि । वरं बुद्धिर् न सा विद्या । इति । 18 तच्छ्रुत्वा चक्रधरः प्राह । अहो । अकारणम् एतत् यतो दैवहता बहुबुद्धयो ऽपि विनश्यन्ति । स्वल्पधियो ऽपि विधिरक्षिता अभिनन्दन्ति । उक्तं च ।
For Private & Personal Use Only
3
21
24
www.jainelibrary.org
Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324