Book Title: Panchtantram
Author(s): Vishnu Sharma
Publisher: Vishvanandikar Jain Sangh Ahmedabad
View full book text
________________
258
Book V. THE FRUITS OF RASHNESS;
Frame-story: Barber who killed the monks.
प्रातस तव गृहं समागमिष्यामि । तत् त्वयाहं शिरसि लगुडप्रहारेण हन्तव्यः । येन कनकमयो क्षयो भवामि । इति। __ अथ प्रातः संप्रबुद्धः स तं स्वप्नं चिन्तयंस तिष्ठति । अहो । स्वप्नो ऽयं सत्यो ऽसत्यो ? वा भविष्यति । इति न ज्ञायते । नूनं मिथ्यानेन भाव्यम् । यत्कारणात् । अहम् अहर्निशम एव वित्तम् एव केवलं चिन्तयामि । उक्तं च । यतः ।
व्याधितेन सशोकेन । चिन्ताग्रस्तेन जन्तना।
कामातेनाथ मत्तेन । दृष्टः स्वप्नः फलोज्झितः ॥८॥ एतस्मिन्न अन्तरे तद्भार्यायाः कश्चिन् नापि यावन नखप्रक्षालनकर्म समाचरति । तावत् क्षपणकः सहसा प्रादुर्भूतः । अथ माणि- ७ भद्रस तं समालोक्य प्रहृष्टमना आसन्नकाष्ठदण्डेन शिरस्य अताडयत् । सोऽपि सुवर्णमयो भूत्वा तत्क्षणाद् एव भूमौ निपपात।
अथ स वणिक् तं गृहमध्ये संस्थाप्य नापितं संतोष्य प्रोवाच । भद्र । न कस्यचिद् 12 आख्येयो ऽयम् अस्मद्गृहवृत्तान्तः । नापितो ऽपि तद्वचनम् अङ्गीकृत्य गृहं गत्वा व्यचिन्तयत् । नूनं सर्वेऽप्य एते नरकाः शिरसि काष्ठदण्डहताः काञ्चनमया भवन्ति । तद अहम् अपि प्रातस तान् प्रभूतान आमन्त्र्य लगुडैर् हन्मि । येन प्रभूतं हाटकं भवति । 15 इति । एवं तस्य चिन्तयतस तद दिनं निशा च कथम् अपि व्यतिचक्राम ।
अथ प्रभाते समुत्थाय क्षपणकविहारं गत्वोत्तरासङ्गं विधाय जिनस्य प्रदक्षिणावयं दत्त्वा जानुभ्याम् अवनीं गत्वा वतद्वारविन्यस्तोत्तरीयपल्लवः कृताञ्जलिस तारस्वरेणेमं 1s स्लोकम् अपठत् ।
ते जयन्ति जिना येषां। केवलज्ञानशालिनाम।
मनोभवाभिधे बीजे । मानसेनोपरायितम् ॥९॥ अन्यच् च। सा जिह्वा या जिनं स्तौति । तच् चित्तं यत् तदर्पितम्।
ताव एव केवलौ श्लाघ्यो । यो तत्पूजाकरी करी ॥१०॥ इति । एवम् अन्यद् अपि बहुधा संस्तुत्य ततः प्रधानचपणकम आसाद्य क्षितितलनिहित- 24 जानुचरणः । नमो ऽस्तु । वन्दे । इत्य उक्त्वा लब्धधर्मवृद्ध्याशीर्वादः मुकुमारिकाभिग्रहलब्धव्रतादेशः सप्रश्रयम् इदम् आह । भगवन् । अद्य विहरणक्रिया समस्तमुनिस हितेनास्मगृहे कर्तव्या । इति । स आह । भोः श्रावक । धर्मज्ञो ऽपि किम् एवं वदसि । किं वयं 27 ब्राह्मणाः । यद् आमन्त्रणं करोषि । यतो वयं सदैव तत्कालचर्यया भ्रमन्तो भक्तिभाज श्रावकम् अवलोक्य तस्य गृहे गच्छामः । तद् गम्यताम् । न भूयोऽप्य एवं वाच्यम्। तच कृत्वा नापितः प्राह । भगवन् । वेय् अहम् । एतत् करिष्यामि। परं भवतः प्रभूतश्रावका 30 अर्हणां कुर्वन्ति । अस्माभिस तु पुनः पुस्तकाच्छादनयोग्यपटिकर्पटानि प्रगुणीकृतानि सन्ति । पुस्तकानां च लेखनाय लेखकानां च वित्तं प्रदत्तम् आस्ते । तत् सर्वथा कालोचितं कर्तव्यम् । इति । एवम उक्त्वा स्वगृहं प्रति प्रस्थितः ।
33
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324