Book Title: Panchtantram
Author(s): Vishnu Sharma
Publisher: Vishvanandikar Jain Sangh Ahmedabad

View full book text
Previous | Next

Page 233
________________ Book III. THE WAR OF THE CROWS AND THE OWLS. Frame story: War of crows and owls. अथासौ तद्वचनम् आकर्ण्य सपरिजन एकैकां ज्वलन्तीं वनकाष्ठिकां चञ्च्चयेण गृहीत्वा गुहाद्वारं प्राप्य स्थिरजीविकुलाये प्राक्षिपत् । ततः सर्वे ते दिवान्धा रक्तातवाक्यानि स्मरन्तः कुम्भीपाकन्यायम् आपन्नाः । एवं शत्रून् निःशेषतां नीत्वा भूयोऽपि मेघवर्णस् तद् एव न्यग्रोधपादपदुर्ग जगाम । ततः सिंहासनस्थो भूत्वा सभामध्ये प्रमुदितमनाः स्थिरजीविनम् अपृच्छत् । तात । कथं त्वया शत्रुमध्ये गतेन कालो यापितः । यतः । 6 वरम् अग्नौ प्रदीप्ते *तु । प्रपातः पुण्यकर्मणाम् । न चरिजनसंसर्गे । मुहूर्तम् अपि सेवितः ॥ २०१ ॥ तद् आकर्ण्य स्थिरजीव्य् आह । भद्र । उपनतभयैर् यो यो मार्गो हितार्थकरो भवेत् स स निपुणया बुद्ध्या सेव्यो महान् कृपणो ऽपि वा । करिकरनिभौ ज्याघाताङ्को महास्त्रविशारदौ रचितवलयैः स्त्रीवद् बद्दौ करौ हि किरीटिना ॥ २०२ ॥ शक्तेनापि सदा नरेन्द्र विदुषा कालान्तरापेक्षिणा वास्तव्यं खलु वाक्यवज्रविषमे क्षुद्रे ऽपि पापे जने । दवव्यग्रकरेण धूममलिनेनायासयुक्तेन च भीमेनातिबलेन * मत्स्यभवने किं नोषितं सूदवत् ॥ २०३ ॥ यद् वा तद् वा विषमपतितं साधु वा गर्हितं वा कालापेक्षी हृदयनिहितं बुद्धिमान् कर्म कुर्यात् । किं गाण्डीवस्फुरदुरु गुणास्फालनक्रूरपाणिर् नासी लीलानटनविलसन्मेखलः सव्यसाची ॥ २०४ ॥ सिद्धिं प्रार्थयता जनेन विदुषा तेजो निगृह्य स्वकं सत्त्वोत्साहवतापि दैवविधिषु स्थेयं समीक्ष्य क्रमम् । देवेन्द्रद्रविणेश्वरान्तकसमैर अप्य् अर्चितो भ्रातृभिः किं क्लिष्टं सुचिरं चिदण्डम् अवहच् छ्रीमान न धर्मात्मजः ॥ २७५ ॥ रूपाभिजनसंपन्नी * कुन्तीपुत्रौ बलान्विती । गोकर्म संख्या व्यापारे विराटप्रेष्यतां गती ॥ २०६ ॥ रूपेणाप्रतिमेन यौवनगुणैर् वंशे शुभे जातया कान्त्या श्रीर् इव याच सापि विदशां कालक्रमाद् आगता । सैरन्ध्रीति गर्वितं युवतिभिः साक्षेपम् आज्ञप्तया Sardu द्रौपद्या ननु मत्स्यराजभवने घृष्टं न किं चन्दनम् ॥ २०७ ॥ मेघवर्ण आह । तात । असिधाराव्रतम् इव मन्ये यद् अरिणा सह संवासः । सो ऽब्रवीत् । एवम् एतत् । परं न तादृग मूर्खसमागमः कापि मया दृष्टः । न न महाप्राज्ञम् Jain Education International For Private & Personal Use Only hari Sardu 220 sürdü 9 12 15 18 manda 21 24 27 30 www.jainelibrary.org

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324