Book Title: Panchtantram
Author(s): Vishnu Sharma
Publisher: Vishvanandikar Jain Sangh Ahmedabad

View full book text
Previous | Next

Page 249
________________ Book IV. THE LOSS OF ONE'S GETTINGS; Frame-story. Tale i: Frog's revenge overleaps itself. Tale il Ass without heart and ears. ततः शीघ्रम् आगम्यताम् । अपरं च । तेन त्वां प्रति विरूपाचरणार्थे जन्मसुकृतम् अन्तरे धृतम् । तन् निःशङ्केन मनसा समागम्यताम् ' इति । तच् छ्रुत्वा गङ्गदत्त आह । बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति । आख्याहि भद्रे प्रियदर्शनस्य न गङ्गदत्तः पुनर् एति कूपम् ॥ २८ ॥ एवम् उक्त्वा तां विसर्जयाम आस ॥ Jain Education International upa 236 For Private & Personal Use Only 8 तत् । भो दुष्ट जलचर । अहम् अपि गङ्गदत्त इव त्वगृहे न कथंचिद् अप्य् १ आयास्यामि । तच् छ्रुत्वा मकर आह । भो मित्र । नैतद् युज्यते कर्तुम् । सर्वथैव मे कृतघ्नतादोषम् अपनय गृहागमनेन । अन्यथा तवोपरि प्रायोपवेशनं करिष्यामि । वानर आह । मूढ । किम् अहं लम्बकर्णो नाम * दृष्टापायो ऽपि स्वयम् एव तत्रैव गत्वात्मानं 12 व्यापादयिष्यामि । मकर आह । को ऽसौ लम्बकर्णो नाम । कथं * दृष्टापायो मृतः । तन् मे निवेद्यताम् । इति । वानर आह । 6 ॥ कथा २ ॥ अस्ति कस्मिंश्चिद् वनोद्देशे करालकेसरो नाम सिंहः । तस्य च धूसरको नाम शृगालः सदानुयायी परिचारको ऽस्ति । अथ कदाचित् सिंहस्य हस्तिना सह युध्यमानस्य शरीरे गुरुतरप्रहाराः 18 संजाताः । तैः पदम् अपि चलितुं न शक्नोति । तस्य * * चाचलनाट् धूसरकः शुत्क्षामकण्ठो दौर्बल्यं गतो ऽन्यस्मिन्न् अहनि तम् अवोचत् । स्वामिन् ' बुभुक्षया पीडितो ऽहं पदात् पदम् अपि चलितुं न शक्नोमि । तत् कथं ते शुश्रूषां करोमि । सिंह आह । भो धूसरक' अन्वेषय किंचित् सत्त्वम् । येनेमाम् अवस्थां गतो ऽपि व्यापादयामि । तच् छ्रुत्वा शृगालो ऽन्वेषणं कुर्वन् किंचित् 24 21 15 www.jainelibrary.org

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324