Book Title: Panchtantram
Author(s): Vishnu Sharma
Publisher: Vishvanandikar Jain Sangh Ahmedabad

View full book text
Previous | Next

Page 239
________________ Book III. THE WAR OF THE CROWS AND THE OWLS. 226 Frame-story: War of crows and owls. मेघवर्ण आह । नूनं सद्यःफलानि नीतिशास्त्राणि । यत् त्वयानुकूल्येनानुप्रविश्यारिमर्दनः सपरिजनो निःशेषितः । स्थिरजीव्य आह। तीक्ष्णोपायप्राप्तिगम्यो ऽपि यो ऽर्थस तस्याप्य आदी संश्रयः साधु युक्तः। उत्तुङ्गायः सारभूतो वनानां नानभ्यर्च च्छिद्यते पादपेन्द्रः ॥ २२३ ॥ sali 6 अथवा । स्वामिन् । किं तेनाभिहितेन । यद् अनन्तरकाले क्रियारहितम् असुखसाध्यं वा भवति । साधु चेदम उच्यते। अनिश्चितैर् अध्यवसायभीरुभिः पदे पदे दोषशतानि दर्शिभिः । फलैर् विसंवादम उपागता गिरः प्रयान्ति लोके परिहास्थवस्तुताम् ॥ २२४॥ Vamsa 12 न च लघुष्व् अपि कर्तव्येषु धीमद्भिर् अनादरः कार्यः । यतः । *शक्ष्यामि कर्तुम् इदम अल्पम् अयत्नसाध्यम अनादरः क इति कृत्यम् *उपेक्षमाणाः। केचित् प्रमत्तमनसः परितापदुःखम् आपत्प्रसङ्गसुलभं पुरुषाः प्रयान्ति ॥ २२५॥ तद् अब जितारेर् मद्विभोर् यथापूर्व निद्रालाभो भविष्यति । उच्यते चेतत् । निःसर्प बद्धसर्प वा । भवने सुप्यते सुखम् । दृष्टनष्टभुजंगे तु । निद्रा दुःखेन लभ्यते ॥ २२६ ॥ तथा च। विस्तीर्णव्यवसायसाध्यमहतां स्निग्धैः प्रयुक्ताशिषां कार्याणां नयसाहसोन्नतिमताम् इच्छापदारोहिणाम। मानोत्सेकपराक्रमव्यसनिनः पारं न यावद् गताः सामर्षे हृदये ऽवकाशविषया तावत् कथं निर्वृतिः ॥ २२७ ॥ ardi at तद् अवसितकार्यारम्भस्य विश्राम्यतीव मे हृदयम् । तद् इदम् अधुना निहतकण्टकं राज्यं प्रजापालनतत्परो भूत्वा पुत्रपौत्रादिक्रमेणाचलच्छवासनश्रीश् चिरं भुज । अपि च।। प्रजा न रञ्जयेद् यस तु । राजा रक्षादिभिर गुणैः । अजागलस्तनस्येव । तस्य राज्यं निरर्थकम् ॥ २२८ ॥ किंच। गुणेषु रागो व्यसनेष्व अनादरो रतिः सुनीतेषु च यस्य भूपतेः । चिरं स भुङ्गे चलचामरांशुकां सितातपत्राभरणां नृपश्रियम् ॥ २२९ ॥ vamsa न च त्वया। प्राप्तराज्योऽहम् । इति मत्वा श्रीमदनात्मा व्यंसयितव्यः । यत्कारणम् । 33 vase 21 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324