________________
Book III. THE WAR OF THE CROWS AND THE OWLS. 226
Frame-story: War of crows and owls. मेघवर्ण आह । नूनं सद्यःफलानि नीतिशास्त्राणि । यत् त्वयानुकूल्येनानुप्रविश्यारिमर्दनः सपरिजनो निःशेषितः । स्थिरजीव्य आह।
तीक्ष्णोपायप्राप्तिगम्यो ऽपि यो ऽर्थस तस्याप्य आदी संश्रयः साधु युक्तः। उत्तुङ्गायः सारभूतो वनानां नानभ्यर्च च्छिद्यते पादपेन्द्रः ॥ २२३ ॥
sali 6 अथवा । स्वामिन् । किं तेनाभिहितेन । यद् अनन्तरकाले क्रियारहितम् असुखसाध्यं वा भवति । साधु चेदम उच्यते।
अनिश्चितैर् अध्यवसायभीरुभिः पदे पदे दोषशतानि दर्शिभिः । फलैर् विसंवादम उपागता गिरः प्रयान्ति लोके परिहास्थवस्तुताम् ॥ २२४॥
Vamsa 12 न च लघुष्व् अपि कर्तव्येषु धीमद्भिर् अनादरः कार्यः । यतः ।
*शक्ष्यामि कर्तुम् इदम अल्पम् अयत्नसाध्यम अनादरः क इति कृत्यम् *उपेक्षमाणाः। केचित् प्रमत्तमनसः परितापदुःखम्
आपत्प्रसङ्गसुलभं पुरुषाः प्रयान्ति ॥ २२५॥ तद् अब जितारेर् मद्विभोर् यथापूर्व निद्रालाभो भविष्यति । उच्यते चेतत् ।
निःसर्प बद्धसर्प वा । भवने सुप्यते सुखम् ।
दृष्टनष्टभुजंगे तु । निद्रा दुःखेन लभ्यते ॥ २२६ ॥ तथा च। विस्तीर्णव्यवसायसाध्यमहतां स्निग्धैः प्रयुक्ताशिषां
कार्याणां नयसाहसोन्नतिमताम् इच्छापदारोहिणाम। मानोत्सेकपराक्रमव्यसनिनः पारं न यावद् गताः
सामर्षे हृदये ऽवकाशविषया तावत् कथं निर्वृतिः ॥ २२७ ॥ ardi at तद् अवसितकार्यारम्भस्य विश्राम्यतीव मे हृदयम् । तद् इदम् अधुना निहतकण्टकं राज्यं प्रजापालनतत्परो भूत्वा पुत्रपौत्रादिक्रमेणाचलच्छवासनश्रीश् चिरं भुज । अपि च।।
प्रजा न रञ्जयेद् यस तु । राजा रक्षादिभिर गुणैः ।
अजागलस्तनस्येव । तस्य राज्यं निरर्थकम् ॥ २२८ ॥ किंच। गुणेषु रागो व्यसनेष्व अनादरो
रतिः सुनीतेषु च यस्य भूपतेः । चिरं स भुङ्गे चलचामरांशुकां सितातपत्राभरणां नृपश्रियम् ॥ २२९ ॥
vamsa न च त्वया। प्राप्तराज्योऽहम् । इति मत्वा श्रीमदनात्मा व्यंसयितव्यः । यत्कारणम् । 33
vase
21
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org