________________
225
THE WAR OF THE CROWS AND THE OWLS. Book III. Tale xvi: Frogs ride a serpent.
Frame-story.
तच् छ्रुत्वा सुतराम आविग्नहृदयः । किम् अनेनाभिहितम् । इति तम् अपृच्छत् । भद्र । किं त्वयाभिहितम् इदं विरुद्धवचः । अथासाव् आकारप्रच्छादनार्थम् । न किंचित् । इत्य् अब्रवीत् । तथैव : कृतकवचनव्यामोहितचितो जलपादस् तस्य दुष्टाभिसंधिं नावबुध्यते । किं बहुना । तथा तेन ते सर्वे ऽपि भक्षिताः । यथा बीजमावम् अपि नावशिष्टम् ॥
अतो ऽहं ब्रवीमि । स्कन्धेनापि वहेच छत्रुम् । इति । तथा। राजन् । यथा मन्दविषेण बुद्धिबलेन मण्डूका निहताः । तथा मयापि सर्वे वैरिणः । इति । साधु चेदम उच्यते ।
वने प्रज्वलितो वहिर् । दहन मूलानि रक्षति ।
समूलोन्मूलनं कुर्याद् । वार्योघो मृदुशीतलः ॥ २१७॥ मेघवर्णो ऽब्रवीत् । एवम् एतत् । अपि च।
महत्त्वम एतन महतां । नयालंकारधारिणाम्।
न मुञ्चन्ति यद् आरबं । कच्छ्रे ऽपि व्यसनोदये ॥ २१८ ॥ सो ऽब्रवीत् । एवम् एतत् । उक्तं च ।
ऋणशेषम् अपिशेषं । शत्रुशेषं तथैव च।
व्याधिशेषं च निःशेष । कृत्वा प्रावो न सीदति ॥२१९॥ देव । भाग्यवांस त्वम् एवासि । यस्यारब्धं सर्वम् अपि संसिध्यति । तन न केवलं शौर्य कृत्यं साधयति । किं तु प्रज्ञया यत् क्रियते । तद् एव विजयाय भवति । उक्तं च।
शस्त्रैर् हता न हि हता रिपवो भवन्ति प्रज्ञाहतास तु रिपवः सुहता भवन्ति । शस्त्रं निहन्ति पुरुषस्य शरीरम् एकं
प्रजा कुलं च विभवं च यशश च हन्ति ॥ २२० ॥ तद एवं प्रचापुरुषकाराभ्यां युक्तस्यायनेन कार्यसिद्धयः संभवन्ति । यतः ।
प्रसरति मतिः कार्यारम्भ दृढीभवति मृतिः स्वयम् उपनमन्त्य अर्था मन्त्रो न मच्छति विसवम् । स्फुरति सफलस् तर्कश चित्तं समुन्नतिम् अग्नुते भवति च रतिः स्वाध्ये कृत्ये नरस्य भविष्यतः ॥२१॥
hari 27 तथा मयत्यागशौर्यसंपन्ने पुरुषे राज्यम् । इति । उक्तं च।
त्यागिमि शूरे विदुषि च । संसर्मरुचिर बनो गुणी भवति । . गुणवति धन धनाच धीः । श्रीमत्य आजा ततो राज्यम् ॥ २२२॥
ar 30 Gg
vasa
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org