Book Title: Panchtantram
Author(s): Vishnu Sharma
Publisher: Vishvanandikar Jain Sangh Ahmedabad
View full book text
________________
THE WAR OF THE CROWS AND THE OWLS. Tale xiii: Mouse maiden will wed a mouse.
Jain Education International
Book III.
॥ कथा १३ ॥
अस्ति विषम॑शिलातर्टस्खलितनु॑निर्घोष॑त्र॒वर्णसंत्रस्त॑मत्स्य॑ परिवर्तन संजनित॑सित॑फेन॑शबलतरङ्गाया गङ्गायास् तटे जप॑नियमंत- : पःस्वाध्यायॊपवास॑याग॑क्रिया॑नु॒ष्ठान॑प॒राय॒णैः परिपूतं परिमितं जलं - जिघृक्षुभिः कन्दमूलफल॑* शैवाला॑भ्यवहार॑ क॒र्द्धित॑शरीरैर् वल्कल॑कृ॒त॑कौपीन॑मात्र॑प्रच्छादनैस् तपस्विभिर् आकीर्णम् आश्रम - • पदम् । तच याज्ञवल्क्यो नाम कुलपतिः । तस्य जाहूव्यां स्नात्वोपस्प्रष्टुम् आरब्धस्य करतले श्येनमुखात् परिभ्रष्टा मूषिकी पतिता । तां दृष्ट्वा न्यग्रोधपत्रे ऽवस्थाप्य पुनः स्नात्वोपस्पृश्य च प्रायश्चि- ० तादिक्रियां कृत्वा च तां मूषिकीं स्वतपोबलेन कन्यकां कृत्वा समादाय स्वाश्रमम् आशिवाय अनपत्यां च जायाम् आह । भद्रे ' गृह्यताम् ' इयं तव दुहितोत्पन्ना प्रयत्नेन संवर्धनीया । 12 इति । ततस् तया संवर्धिता लालिता च । यावद् द्वादशवर्षा संजज्ञे । अथ विवाहयोग्यां दृष्ट्वा भर्तारम् एवम् ऊचे । भो भर्तः । किम् इदं नावबुध्यसे । यथास्याः स्वदुहितुर् विवाहसम - यातिक्रमो भवति । असाव् आह । प्रिये ' साधूक्तम् । उक्तं च । स्त्रियः पूर्वं सुरैर् भुक्ताः ' सोमगन्धर्ववह्निभिः । भुञ्जते मानुषाः पश्चात् । तस्माद् दोषो न विद्यते ॥ १७१ ॥ सोमस तासां ददौ शौचं । गन्धर्वाः शिक्षितां गिरम् । पावकः सर्वमेध्यत्वं । तस्मान् निष्कल्मषाः स्त्रियः ॥ १६२ ॥ असंप्राप्तरजा गौरी ' प्राप्ते रजसि रोहिणी । अव्यञ्जना भवेत् कन्या । कुचहीना च ननिका ॥ १७३ ॥
15
For Private & Personal Use Only
213
18
21
www.jainelibrary.org
Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324