Book Title: Nyaya Sangraha
Author(s): Ratnavallabhvijay
Publisher: Omkarsuri Aradhana Bhavan

Previous | Next

Page 647
________________ किं. मया विबुधस्यापि गुणा वाचामगोचराः । स्तुतो भक्त्यैव हस्ताभ्यां सोमाऽऽदित्सोः शिशोरिव ॥ १८ ॥ यत्प्रसादेन ग्रन्थस्य प्रारब्धा रचना मया पूर्णा क्लिष्टाऽप्यक्लेशेन तद्गुरवे नमोनमः ॥ १९ ॥ ध्येयान् स्तव्यान् प्रणम्यांश्चाऽऽश्रेयान् गुरूत्तमानिमान् । ध्यात्वा स्तुत्वा प्रणम्य स्यात् सफलं जन्म दुर्लभम् ॥ २० ॥ (अनुष्टुप्त्रयम्) इतश्च मया - श्री सूरीश्वर - हेमचन्द्र - विहितां शब्दानुशास्ति श्रितं न्यायानामथ संग्रहं तदखिलां चाऽऽश्रित्य वृत्ति हिताम् । न्यासे हंसकृते च गुर्जरगिरा भावानुवादो मुदा । गुर्वाऽऽज्ञानुगतेन यो विरचितो निःश्रेयसे जायताम् ॥ २१ ॥ (शार्दूलविक्रीडितम्) अपि च . वल्लभेन हि रत्नानां व्याकरणाऽऽश्रिता कृता । परामर्शाऽभिधा वृत्तिः संजायतां मुदे सताम् ॥ २२ ॥ (अनुष्टुप्) स्खलनमिह यदस्ति स्यान्ममैवाऽबुधस्य सरसमिह यदस्ति ग्रन्थकृत्संबुधस्य । स्खलनमथ सहन्तु ज्ञापयन्तु प्रबुद्धाः सरसमपि विदन्तो रूपसिद्धौ प्रवृद्धाः ॥ २३ ॥ (मालिनी) सन्नेत्राम्बरभूतकायकलिते (२०५६) वै विक्रमाब्दे सिते वैशाखे दशमीतिथौ शनिदिने श्रीवीर - कैवल्यके । श्रीमद्दक्षिणगुजरे जनपदे धारागिरि - ग्रामतः । ग्रन्थश्चैष तपोवने समभवद् नन्द्यात्सदा चन्द्रवत् ॥ २४ ॥ (शार्दूलविक्रीडितम्) ।। इति शम् ।। = ५८८

Loading...

Page Navigation
1 ... 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688