________________
किं. मया विबुधस्यापि गुणा वाचामगोचराः । स्तुतो भक्त्यैव हस्ताभ्यां सोमाऽऽदित्सोः शिशोरिव ॥ १८ ॥ यत्प्रसादेन ग्रन्थस्य प्रारब्धा रचना मया पूर्णा क्लिष्टाऽप्यक्लेशेन तद्गुरवे नमोनमः ॥ १९ ॥ ध्येयान् स्तव्यान् प्रणम्यांश्चाऽऽश्रेयान् गुरूत्तमानिमान् । ध्यात्वा स्तुत्वा प्रणम्य स्यात् सफलं जन्म दुर्लभम् ॥ २० ॥
(अनुष्टुप्त्रयम्) इतश्च मया - श्री सूरीश्वर - हेमचन्द्र - विहितां शब्दानुशास्ति श्रितं न्यायानामथ संग्रहं तदखिलां चाऽऽश्रित्य वृत्ति हिताम् । न्यासे हंसकृते च गुर्जरगिरा भावानुवादो मुदा । गुर्वाऽऽज्ञानुगतेन यो विरचितो निःश्रेयसे जायताम् ॥ २१ ॥
(शार्दूलविक्रीडितम्)
अपि च .
वल्लभेन हि रत्नानां व्याकरणाऽऽश्रिता कृता । परामर्शाऽभिधा वृत्तिः संजायतां मुदे सताम् ॥ २२ ॥
(अनुष्टुप्) स्खलनमिह यदस्ति स्यान्ममैवाऽबुधस्य सरसमिह यदस्ति ग्रन्थकृत्संबुधस्य । स्खलनमथ सहन्तु ज्ञापयन्तु प्रबुद्धाः सरसमपि विदन्तो रूपसिद्धौ प्रवृद्धाः ॥ २३ ॥
(मालिनी) सन्नेत्राम्बरभूतकायकलिते (२०५६) वै विक्रमाब्दे सिते वैशाखे दशमीतिथौ शनिदिने श्रीवीर - कैवल्यके । श्रीमद्दक्षिणगुजरे जनपदे धारागिरि - ग्रामतः । ग्रन्थश्चैष तपोवने समभवद् नन्द्यात्सदा चन्द्रवत् ॥ २४ ॥
(शार्दूलविक्रीडितम्) ।। इति शम् ।।
= ५८८