SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ जगत्येवं महात्मानः प्रभूता अधुना जिताः । रत्नहेमगुणान् भव्यान् राजन्ते भद्रतायुताः ॥ ७ ॥ इतश्च - यद्गुणगरिमाऽऽकृष्टश्चन्द्रोऽपि किङ्करायते । श्री चन्द्रशेखरः साधु - समूहे शेखरायते ॥ ८ ॥ (अनुष्टुप्) सूरिप्रेमाऽऽप्तप्रेमा मे दीक्षागुरुविराजते । भवान्धु - पतिते रज्जु - रनन्तसुकृताऽऽकरः ॥ ९ ॥ (अनुष्टुप्त्रयम्) स जिनशासनभासनचन्द्रमाः विरचितद्विशताधिकवाङ्मयः । विविधतीर्थसुरक्षणदक्षकः युवसु शासनरसप्रतिबोधकः ॥ १० ॥ (द्रुतविलम्बितम्) प्राणेभ्योऽपि प्रियं सर्वकल्याणं जिनशासनम् प्रतिरोम गतं चास्य पानीयमीनयोरिव ॥ ११ ॥ वाणीवेणु यदा यस्य वाद्यते जैनभोगिषु भोगी हि जायते योगी मृता अपि स्युरुद्यताः ॥ १२ ॥ , धर्मसंस्कृतिराष्ट्रेषु श्रद्धागौरवान्विताः । बालप्रौढयुवानश्च येनाऽमिता विनिर्मिताः ॥ १३ ॥ शासनोत्कर्षणप्रह्व - युवप्रबोधकादिकः । लब्धव्याख्यानलब्धित्वाद् बिरुदः संप्रयुज्यते ॥ १४ ॥ चन्द्रे शीतलतैवास्ति सूर्ये च दीप्ततैव हि ।। अस्मिस्तु द्वयमेवेति चन्द्रार्कतोऽतिशेरते ॥ १५ ॥ भवात्पापमयादीतो यो भीतवर्षदोऽपि सन् । अशिल्पी शिष्यशिल्पी च वात्सल्यवाचनादितः ॥ १६ ॥ (अनुष्टुप्पटकम्) कारुण्यं हदि दुःखिजन्तुविषयं चाङ्गाङ्गितां सङ्गतं गाम्भीर्यं जलराशिवत्सरलता प्रत्यात्मदेशं ततम् । मत्वाऽऽत्मानमनाश्रयं दिशि दिशि व्याप्तं यशो यद्गतं मध्यस्थे जिनपक्षपातिनि गुरौ के के गुणा नाऽऽश्रिताः ॥ १७ ॥ __ (शार्दूलविक्रीडितम्) ૫૯૮
SR No.005716
Book TitleNyaya Sangraha
Original Sutra AuthorN/A
AuthorRatnavallabhvijay
PublisherOmkarsuri Aradhana Bhavan
Publication Year2001
Total Pages688
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy