SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ ( गुर्वावली श्रीमद्वीरजिनस्य शासननभेऽभूवन् महासाधकाः आचार्या अथ वाचका मुनिगणा अन्ये च भानूत्तमाः । साधूनां च समन्वयोऽनभिहतः सत्यामपि व्यापदि न्यायाम्भोनिधिसर्वमान्यविजयाऽऽनन्दाभिधोऽजायत ॥ १ ॥ (शार्दूलविक्रीडितम्) तत्पट्टे सरसि ह्यभूच्च कमलः सूरिः शुचिः पङ्कजः वैराग्ये वरवीर - वीरविजयोपाध्याय आत्माऽऽलयः ।। शिष्यस्तस्य च दानसूरिरभितः सिद्धान्तवेदी ततः । प्रेमाख्या मधुरा धुरो रसजितां सूरीश्वरा धीधनाः ॥ २ ॥ (शार्दूलविक्रीडितम्) दीक्षादाने कुबेराश्च व्रतेषु स्फटिकोपमाः । न्यक्षं शास्त्रं स्ववृत्तेन ब्रह्मचर्ये तु कोपमा ॥ ३ ॥ (अनुष्टप्) जिनवचोधरणे धरणी वरा मुनिगणे गुणग्राहणतत्पराः । भववियोग - सुयोगनिमज्जन - त्रिशतसंख्यमुनिव्रजपालकाः ॥ ४ ॥ (द्रुतविलम्बितम्) प्रेम - पीयूषपानेन प्रपुष्टाऽखिलसाधवः । संख्यातीतोपकारा ये किं विदेह - समागताः ॥ ५ ॥ (अनुष्टुप्) तस्यान्वये भुवनभानुरपास्तभानुः ज्ञानादिरश्मिनिकरण गुणेषु मग्नः । सिद्धान्तघोषकरणाद् जयघोषसूरिः विभ्राजते सुगणपः सुयशाः स भूरिः ॥ ६ ॥ (वसन्ततिलका) ૫૯૭
SR No.005716
Book TitleNyaya Sangraha
Original Sutra AuthorN/A
AuthorRatnavallabhvijay
PublisherOmkarsuri Aradhana Bhavan
Publication Year2001
Total Pages688
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy