Book Title: Nandanvan Kalpataru 2009 10 SrNo 23 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 4
________________ 0000 प्रास्ताविकम् संसारस्य सनातनो नियमोऽस्ति परावर्तनशीलता । जगतीह युगे युगे जीवनव्यवस्था समाजव्यवस्था च परावर्तमाना भवति । पुरा यदाचीर्णं भवेत् तदेव पश्चादनाचीर्णं भवति । एवमेव विपर्यस्तमपि भवति । यथाऽद्यत्वे यः कश्चन भूषाप्रकारः (fashion) प्रसिद्ध आदृतश्च स्यात् स एव कालान्तरेऽयुक्त अनादृतश्च भवति । एवं यः प्रकार इदानीं सर्वथाऽव्यवहृतो विरुद्धश्च स्यात् स एव भाविनि काले जनैः सम्मानितोऽपि भवति । ईदृशं चक्रं जगति सर्वत्र परिभ्राम्यत्येव । ज्ञानविषयेऽप्येवमेव जातम् । पूर्वं किल सर्वमपि ज्ञानं शास्त्राणि आगमाश्च श्रुतपरम्परयैव रक्ष्यते स्म । पुस्तकपरिग्रहणं तु पापाय भवतीति मन्यते स्म जीवहिंसाकारणत्वात् । तदनु कालप्रभावेण जनानां स्मृतौ क्षीयमाणायां सर्वथाऽनाचीर्णमपि पुस्तकलेखनं तत्परिग्रहश्चाऽऽदृतं जातम् । तदा किल तालपत्रेषु शास्त्राणि लिख्यन्ते स्म । ततः कागदपत्रलेखनयुगः समागतः । किन्तु लेखनेन किलाऽऽधिक्येनाऽपि द्वित्राः प्रतय एव प्राप्यन्ते स्म । ततश्च बहूनामुपकारार्थं तत् उपयोगि नैव भवेत् इति विचारधारया समारब्धो मुद्रणयुगः । तेन च बहूनामुपकारो भवति स्म । अथ च तत्राऽपि मुद्राङ्कने काल- धनादीनामधिकं व्ययं भवन्तं विलोक्य प्रवृत्तः सङ्गणकसाहाय्येन मुद्रणस्य युगः । इदानीं चैतत् सर्वमप्यतिक्रम्य सर्वत्र जगति ज्ञानस्य प्रचार- प्रसारार्थं नूतनैवैका व्यवस्थाऽऽविष्कृताऽस्ति तन्त्रज्ञातृभिर्यस्या उपयोग जगतो यस्मिन् कस्मिंश्चिदपि कोणे स्थितो जनः कर्तुं शक्नोति । सा हि व्यवस्थाऽस्ति अन्तर्जालपुट ( Internet) व्यवस्था । प्रायशो जनाः स्वबोधवृद्ध्यर्थं तस्योपयोगमभीक्ष्णं कुर्वन्तितराम् । ज्ञानक्षेत्रे कस्यचिदपि वर्चस्वं निरस्तमस्त्यनया । यद्यपि व्यवस्थाया अस्या दुष्फलानि सन्त्येव, तथाऽपि सु-फलानामाधिक्यादेषाऽऽदरणीयाऽऽकारणीया चाऽप्यस्ति । Jain Education International - एतस्या व्यवस्थाया एवाऽऽदरणेनेदानीं नन्दनवनकल्पतरुरपि नूतने युगे प्रविष्टोऽस्तीत्येष नोऽतीवाऽऽनन्दस्य विषयः । अस्य प्रथमत आरभ्य सर्वा अपि शाखा अन्यान्यपि च पुस्तकानि जालपुटे संस्कृतप्रेमिणां कृते स्थापितानि सन्ति । इतः परमपि प्रकाश्यमानाः शाखास्तत्र स्थापयिष्यन्ते । अतः सर्वेऽपि संस्कृतज्ञाः संस्कृतप्रेमिणश्चाऽस्योपयोगं कुर्वन्तु - इति विज्ञप्ति: । जालपुटसङ्केतस्त्वेवमस्ति 1. www.jainlibrary.org, 2. jainelibrary.org, 3. jainelibrary.com, 4. jainaelibrary.com, 5. jainaelibrary.org भाद्रपद शुक्लपूर्णिम स्तम्भतीर्थम् 3 000000000000 For Private & Personal Use Only कीर्तित्रयी www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 126