Book Title: Namalinganusasan Amarkosa Author(s): Bhanuji Dikshit, Shivdatt Pandit Publisher: Satya Bhamabai Pandurang View full book textPage 5
________________ भूमिका। श्रीगणेशाय नमः । धर्मार्थकाममोक्षाख्यपुरुषार्थचतुष्टयनिष्पत्तिर्हि सर्वाभीप्सिता। सा च श्रुतिस्मृतिपुराणेतिहासादितत्तच्छास्त्रार्थज्ञानाधीना। तत्तदर्थज्ञानं च तत्तदवान्तरवाक्यार्थज्ञानाधीनम् । तत्तद्वाक्यार्थज्ञानं च तचपदार्थज्ञानाधीनम् । तत्तत्पदार्थज्ञानं च तत्तत्पदशक्तिग्रहाधीनम् । तत्तत्पदशक्तिग्रहे च 'शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याव्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सांनिध्यतः सिद्धपदस्य वृद्धाः ॥' - - इति शिष्टोक्तिदर्शिते शक्तिग्रहोपायेषु कोषस्यैव मुख्यकारणत्वम् । व्याकरणस्य यौगिकशब्दशक्तिमाहकत्वेऽपि रूढयोगरूढयोः शक्तिग्राहकत्वाभावात् । उपमानादीनां स्वतःशक्तिग्राहकत्वाभावात् ॥ कोषेषु च केवलनामानुशासनभूतानां केवललिङ्गानुशासनभूतानां च लाघवेनोपकारकत्वाभावेन नामलिङ्गोभयानुशासनत्वेनामरसिंहविरचितस्यास्यैव कोषस्य सर्वोपकारकत्वम् । 'अयममरसिंहः किंजातीयः कदा कुत्रत्यं महीमण्डलं मण्डयांचकार' इति न निश्चितम् । परंतु देवसामान्यनामान्युक्त्वा देवविशेषनामप्रारम्भे बुद्धनाम्नां लेखनेन बौद्धत्वमस्यावसीयते ॥ . केचित्तु 'धन्वन्तरिः क्षपणकोऽमरसिंहशङ्क वेतालभट्टधटखर्परकालिदासाः । ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य ॥' इति वैक्रमनवरत्नख्यापकश्लोकतो विक्रमसमकालिकत्वममरसिंहस्य वदन्ति ॥ परे तु 'इन्द्रश्चन्द्रः काशकृत्स्नापिशली शाकटायनः । पाणिन्यमरजैनेन्द्रा जयन्त्यष्टौ च शाब्दिकाः ॥' इति पद्यानुरोधेन पाणिनि-समन्तभद्रयोरन्तरालभवत्वं ब्रुवते ॥ अत्रेदं बोध्यम्-इदं न क्रमबोधकम् , पाणिनिमहाभाष्यप्रवृत्तिसमकालनिष्पत्तिकचान्द्रव्याकरणकर्तृचन्द्राचार्यस्य पाणिनितः प्राग्लेखनात् ॥ अस्य वैयाकरणत्वं तु ___ 'अमरसिंहो हि पापीयान्सर्वं भाष्यमचूचुरत् ।' इति पद्यात्सकलभाष्यतत्त्वज्ञत्वस्य प्रतीतेः प्रतीतमेव ॥ इत्थं भङ्यन्तरेणोक्तिस्तु बौद्धत्वेन सकलवैदिकविरुद्धत्वात् ॥ अस्य सर्वोपकारकत्वादेव बहुभिरस्य व्याख्याः कृताः । तासु मद्दष्टास्तु१-अमरकोशोद्घाटनम् भट्टक्षीरस्वाम्युत्प्रेक्षितम् ॥ तत्र च श्रीभोज-राजशेखर-भट्टि-माघ-प्रभृतीनां नामानि सन्ति । २-पदचन्द्रिका रायमुकुटेन १३५३ शकाब्दे निर्मिता ॥ तत्रत्यग्रन्थादीनां नामानि डॉक्टर. श्रीयुतभाण्डारकरैः प्रकाशितानि ।।Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 548