Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 15
________________ स्वर्गवर्गः १] कं सुखं यस्येति वा । अनयोः पक्षयोः 'शंसिदुहिगुहिभ्यो वा ( वा० ३।१।१०९ ) इति काशिकाकारवचनाद्गुहेः क्यप् । तत्र दुहि-योहणं निर्मूलमिति भट्टोजिदीक्षिताः । तन्मते ण्यति संज्ञापूर्वकत्वान्न गुणः ॥ ( ८ ) ॥*॥ असेधीदिति सिद्धः । 'षिधु हिंसासंराज्यो:' ( दि० प० से० ) । 'गत्यर्थाकर्मक- ' (३।४।७२ ) इति कर्तरि क्तः । सिद्धिरस्यास्तीति वा । अर्शआयच् (५।२।१२७) । (‘सिद्धो व्यासादिके देवयोनौ निष्पनमुक्तयोः। नित्ये प्रसिद्धे') ॥ (९) ॥*॥ भूतिरस्यास्ति । अर्शआयच् (५।२।१२७)। भूतः । ( 'भूतं क्ष्मादौ पिशाचादौ जन्तौ क्लीबं त्रिषूचिते । प्राप्ते वित्ते समे सत्ये देवयोन्यन्तरेषु ना' । भवति इष्टं प्राप्नोति । 'भू प्राप्तौ' ( चु० आ० से ० ) । ‘गत्यर्थाकर्मक-' ( ३।४।७२ ) इति क्तः - इति मुकुटः । तन्न । प्राप्त्यर्थस्यागत्यर्थाकर्मकत्वात् · वर्तमानविग्रहायोगाच्च ॥ (१०) ॥*॥ अमी विद्याधरादयो दश देवा योनिरेषां ते देवयोनयः । देवांशका इत्यर्थः । यत्तु— 'देवानामिव योनिरुत्पत्तिकारणमविभाव्यमेषाम्' इति मुकुटो व्याख्यत् । तन्न । व्यधिकरणबहुव्रीहिप्रसङ्गात् । श्लोकोपक्रमस्थग्रन्थ विरोधाच I दश 'देवयोनयः' ॥ असुर दैत्य दैतेय - दनुजेन्द्रारि- दानवाः । शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः ॥ १२ ॥ | व्याख्यासुधाख्यव्याख्यासमेतः । असुरा इति ॥ अस्यन्ति क्षिपन्ति देवान् असुराः । 'असु क्षेपणे' ( दि० प० से ० ) । 'असेरुरन्' ( उ० १/४२ ) इत्युरन् । सुरविरुद्धत्वाद्वा । 'नज्' (२२२२६ ) इति तत्पुरुषः । प्रज्ञाद्यणि (५।४।३८) 'आसुराश्च' । असुषु रमन्ते वा । 'अन्येभ्योऽपि-' ( वा० ३।२।१०१ ) इति डः । ( असुरः सूर्यदैत्ययोः । असुरा रजनीवास्योः ' ) ॥ (१) ॥*॥ दितेरपत्यानि । ‘दित्यदित्या-’ (४।१।८५ ) इति ण्यः । 'दैत्योसुरे मुरायां तु दैत्या चण्डौषधावपि ' ) ॥ ( २ ) ॥ ॥ बीषन्तात् । 'स्त्रीभ्यो ढक्' ( ४।१।१२० ) ॥ (३) ॥ ॥ दनोर्दनौ वा जाताः । ' सप्तम्यां जनेर्ड : ', ' पञ्चम्यामजातौ' ( ३२ ९७, ९८ ) (४) ॥*॥ इन्द्रस्यारयः ॥ ( ५ ) ॥* ॥ दनोरपत्यानि ॥ (६) ॥*॥ शुक्रस्य शिष्याः ॥ ( ७ ) ॥*॥ दितेः सुताः ॥ (८) ॥*॥ पूर्वे च ते देवाश्च । 'पूर्वापरप्रथम - ( २।१।५८ ) इत्यादिना समासः । यद्वा - पूर्वं देवाः । अन्यायाद्धि देवत्वाद्भष्टाः । ‘सुप्सुपा' ( २।१।४ ) इति समासः । पूर्वे देवा येभ्यो वा । 'अनेकमन्यपदार्थे' (२।२।२४ ) इति बहुव्रीहिः ॥ (९) ॥*॥ सुरान् द्विषन्ति । 'द्विष अप्रीतौ' ( ० उ० अ० ) 'सत्सूद्विष - ( ३।२।६१ ) इति क्विप् ॥ ( १० ) ॥५॥ यद्यपि पातालवासित्वेन पातालवर्गे वक्तुं युक्ताः, तथापि देवविरोधित्वेन बुद्ध्युपारोहादिहैवोक्ताः । दश नामानि 'असुराणाम् ॥ | | १ - वासी तोपकरणम् । सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः । समन्तभद्रो भगवान्मारजिल्लोक जिजिनः ॥ १३ ॥ षडभिज्ञो दशबलोऽद्वयवादी विनायकः । मुनीन्द्रः श्रीघनः शास्ता मुनिः सर्वज्ञ इत्यादि ॥ सर्वं जानाति । 'ज्ञा . अवबोधने' ( क्रया० प० अ० ) । 'आतोऽनुपसर्गे कः' ( ३।२।३ ) यद्वासर्वे ज्ञा यस्य । खात्मनः सर्वस्यापरोक्षत्वात् । 'यः साक्षादपरोक्षात्' इति श्रुतेः । यद्वा, सर्वे ज्ञा यस्मात् । 'यथाः विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एत आत्मानो व्युच्चरन्ति' इति श्रुतेः । यद्वा - सर्वे ज्ञा येन । 'तस्य भासा सर्वमिदं विभाति' इति श्रुतेः । 'सर्वज्ञस्तु जिनेन्द्रे स्यात्सुगते शंकरेऽपि च ' ) ॥ (१) ॥*॥ शोभनं गतं ज्ञानमस्य ॥ ( २ ) ॥* ॥ प्रशस्ता बुद्धिरस्य । अर्शआद्यच् (५।२।१२७ ) । यद्वा-बुध्यते । 'मति - बुद्धि-' ( ३।२।१८८ ) इति तः ॥*॥ 'इगुपध-' ( ३|१| १३५ ) इति के 'बुधः' अपि । 'सर्वज्ञः सुगतो बुधः' इति व्याडिः ॥ (३) ॥॥ धर्मेण राजते । पचाद्यच् ( ३।१।१३४ ) । धर्मस्य राजेति वा । 'राजाहः सखिभ्यष्टच्' (४|४|११ ) । ( 'धर्मराजो यमे बुद्धे युधिष्ठिरनृपे पुमान्')॥ (४) ॥*॥ तथा सत्यं गतं ज्ञानं यस्य ॥ ( ५ ) ॥ ॥ समन्तं भद्रमस्य सः । समन्ताद्भद्रमस्येति तु व्यधिकरणत्वादनुचितम् ॥ ( ६ ) ॥*॥ भगं माहात्म्यमस्यास्ति । मतुप् ( ५।२।९४ ) ॥ (७) ॥*॥ मारं कामं जयति । 'सत्सूद्विष - ' ( ३।२।६१ ) इति क्विप ॥ (८) ॥*॥ लोकं जयति ॥ ( ९ ) ॥* ॥ जयति जिनः । 'इषिजिदी डुष्यविभ्यो नक्' ( उ० ३।२ ) 'जिनाति' इति स्वामिमुकुटौ । तन्न । 'अङ्गस्य' 'हल:' ( ६ |४|१, २ ) इति दीर्घप्रसङ्गात् । ( 'जिनोऽर्हति च बुद्धे च पुंसि स्याज्जित्वरे त्रिषु ॥ (१०) ॥*॥ दिव्यं चक्षुः श्रोत्रम्, परचित्तज्ञानम्, पूर्वनिवासानुस्मृतिः, आत्मज्ञानम्, वियद्गमनम् कायव्यूहसिद्धिश्चेति षट् अभितो ज्ञायमानानि यस्य सः । षट्सु दानशीलक्षान्तिवीर्यध्यानप्रज्ञासु अभिज्ञा आद्यं ज्ञानमस्येति वा ॥ (११) ॥*॥ दश बलान्यस्य । यदाहुः - 'दानं शीलं क्षमा वीर्यं ध्यानप्रज्ञाबलानि च । उपायः प्रणिधिर्ज्ञानं दश बुद्धबलानि वै' इति ॥ ( १२ ) ॥ ॥ अद्वयमद्वैतं वदत्यवश्यम् । आवश्यके ( ३।३।१७० ) णिनिः ॥ (१३) ॥*॥ विनयत्यनुशास्ति । ' णीञ् प्रापणे' ( भ्वा० उ० अ० ) । ण्वुल् ( ३। १।१३३ ) ( 'विनायकस्तु हेरम्बे तायें विघ्ने जिने गुरौ (१४) ॥ ॥ मुनिषु इन्द्र: ॥ ( १५ ) ॥*॥ श्रिया घनः पूर्णः । क्षुनादित्वात् ( ८।४।३९ ) न णत्वम् ॥ (१६) ॥ १ – बृहदारण्यकोपनिषत्सु 'यत्' इति श्रूयते व्याख्यायते च शंकरभगवत्पादैः - 'यत् ब्रह्म साक्षादव्यवहितं केनचित् द्रटुरपरोक्षादगौणम्' इति ।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 548