Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 16
________________ ८ अमरकोषः । ॥* ॥ शास्तीति शास्ता । 'तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटी' (उ० २९४ ) इति तृन् तृज्वा । पितृवच्छास्तृशब्दः । नप्त्रादिग्रहणस्य ( ६ | ४|११ ) नियमार्थ - त्वात् । चान्द्रे शासेः किचि शिष्टिरित्यत्र 'शास्ता' इति प्रत्युदाहरणेऽनौणादिकतृच एव रत्नमतिना दर्शितत्वाद्बुद्ध - वाचिनोऽपि दीर्घः - इति सुभूतिः । तन्न । तृचस्तस्येट्स - ङ्गात् । अनौणादिकतृच एवेत्यत्र प्रमाणाभावाच्च । ( ' शास्ता समन्तभद्रे ना शासके पुनरन्यवत्' ) ॥ ( १७ ) ॥ ॥ मन्यते मुनिः । ‘मनेरुच्च’ (उ० ४।१२३ ) इतीन् । ( 'मुनिर्वाचंयमे - ऽर्हति । प्रियालागस्तिपालाशे' ) ॥ ( १८ ) ॥*॥ अष्टादश 'बुद्धस्य' ॥ शाक्यमुनिस्तु यः ॥ १४॥ . स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः । गौतमश्चार्कबन्धुश्च मायादेवी सुतश्च सः ॥ १५ ॥ शाक्येत्यादि ॥ (यः) । शकोऽभिजनोऽस्य । 'शण्डिकादिभ्यो ञ्यः' (४।३।९२)। यद्वा 'शाकवृक्षप्रतिच्छन्नं वासं यस्माच्च चक्रिरे । तस्मादिक्ष्वाकुवंश्यास्ते शाक्या इति भुवि स्मृताः' इत्यागमात् शाके भवाः शाक्याः । दिगादित्वाद्यत् (४।३।५४) प्रत्ययः । तद्वंशावतीर्णो मुनिः । शाक्यश्चासौ मुनिश्चति ॥ (१) ॥*॥ ( स ) । शाक्यः सिंह इव । उपमितं व्याघ्रा—— (२।१।५६ ) इति समासः ॥॥ भीमवत् ‘शाक्यः’ अपि ॥ (२) ॥*॥ सर्वार्थेषु सिद्धो निष्पन्नः । ‘सिद्धशुष्क—' (२।१।४१) इति समासः । सर्वोऽर्थः सिद्धो ऽस्येति वा ॥*॥ ‘लिद्धार्थः’ अपि । 'सिद्धार्थो बुद्धसर्षपौ' इति शाश्वतः ॥ (३) ॥*॥ शुद्ध औदनोऽस्येति । शकन्ध्वादिः ( वा० ६।१।९४ ) । शुद्धोदनस्यापत्यम् । 'अत इज़' (४ | १९५) ॥ (४) ॥*॥ गोतमस्यायं शिष्यः । ' तस्येदम्' (४।३।१२० ) इत्यण् 'तगोत्रावतारात्' इति खामी । ('गौतमो गणभृद्भेदे शाक्यसिंहर्षिभेदयोः । गौतम्युमायां रोचन्याम्' ) ॥ (५) ॥*॥ अर्कस्य बन्धुः । सूर्यवंशजत्वात् ॥ (६) ॥*॥ माया चासौ देवी च । तस्याः सुतः ॥ ( ७ ) ॥*॥ यद्यपि वेदविरुद्धार्थानुष्ठातृत्वाजिनशाक्यौ नरकवर्गे वक्तुमुचितौ । तथापि देवविरोधित्वेन बुद्ध्युपारोहादत्रैवोक्तौ । सप्त 'शाक्यस्य' ॥ ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः । हिरण्यगर्भो लोकेशः स्वयंभूञ्चतुराननः ॥ १६॥ धाता योनिर्दुहिणो विरिञ्चिः कमलासनः । स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृविधिः ॥१७॥ १ - कचित्पुस्तके इत उत्तरम् 'सर्वज्ञो वीतरागोऽर्हन्केवली तीर्थंकृज्जिनः । जिनदेवतानामानि षट् । इत्यधिकम् ॥ [ प्रथमं काण्डम् ब्रह्मेत्यादि ॥ बृंहति वर्धयति प्रजा इति ब्रह्मा । 'बृहि वृद्धौ' (भ्वा० प० से ० ) । अन्तर्भावितण्यर्थः । 'गृहेर्नोऽच' ( उ० ४।१४६ ) इति मनिन् । धातोर्नस्यादादेशः । बृंहति वर्धत इति वा । यत्तु - व्योमादित्व ( उ० ४।१५१ ) कल्पनमस्य मुकुटेन कृतम्, तत्तूक्तसूत्रास्मरणमूलकम् । ( 'ब्रह्म तत्त्वतपोवेदे न द्वयोः पुंसि वेधसि । ऋत्विग्योगभिदोर्वित्रे चाध्यात्मज्ञानयोस्तथा ' ) ॥ (१) ॥॥ आत्मनो विष्णोः सकाशात्, आत्मना स्वयमेव वा भवति । 'भुवः संज्ञान्तरयो:' ( ३।२।१७९ ) इति क्विप् । ( ('आत्मभूर्ना कामे ' ) ॥ ( २ ) ॥*॥ सुरेषु ज्येष्ठः ॥ (३) ॥*॥ परमे व्योमनि, चिदाकाशे, ब्रह्मपदे, वा तिष्ठति । 'परमे स्थः कित्' ( उ० ४।१० ) इतीनिः । ' तत्पुरुषे कृति - ' ( ६।३।१४ ) इत्यलुक्, 'स्थास्थिनस्थूणाम् ' ( वा० ८।३।९७ ) इति षत्वम् ॥ (४) ॥*॥ लोकपितॄणां मरीच्यादीनामर्यमादीनां वा पिता पितामहः । 'पितृव्यमातुल' (४/२/३६ ) इति साधुः । ('पितामहः पद्मयोनौ जनके जनकस्य च') ॥ (५) ॥*॥ हिरण्यं हिरण्मयमण्डं तस्य गर्भ इव । 'तदण्डमभवद्धैमं सहलोकानामीशः ॥ (७) ॥*॥ स्वयमेव भवति । ‘भुवः-’ स्रांशुसमप्रभम्' इति मनूक्तेः । तद्वा गर्भेऽस्य ॥ ( ६ ) ॥#॥ ( ३।२।१७९ ) इति किप् ॥ (८) ॥*॥ चत्वार्याननान्यस्य ॥ (९) ॥*॥ दधाति । 'डुधाञ् धारणपोषणयो:' ( जु० उ० अ० ) । तृच् ( ३।१।१३३) । ( 'धाता वेधसि पालके' ) ॥ (१०) ॥*॥ अब्जं योनिरस्य ॥ ( ११ ) ॥ ॥ दु दुष्टेभ्यः । 'द्रुह जिघांसायाम् ' ( दि० प० से० ) - 'दुहक्षिभ्यामिनन्' (उ० २।५० ) इतीनन्–इति मुकुटः । तन्न । 'प्रदक्षिभ्याम्' इति तत्र पाठात् । 'द्रविणं दक्षिणा' इत्युदाहरणात् । अतः 'बहुलमन्यत्रापि' ( उ० २।४९ ) इतीनच् । बाहुलकाद्गुणाभावः ॥*॥ ' दुघणाः' अपि । ' ब्रह्मात्मभूः याद्दु पितामहः' इति भागुरेः । ' करणेऽयोविद्रुघणश्च तू ( ८|४|३ ) इति णत्वम् । द्रुः संसारवृक्षो हन्यतेऽनेनेद्रुषु' ( ३।३।८२) इति हन्तेः करणेऽप् घनादेशश्च । पूर्वपदात्यर्थः । ( 'दुघणो मुद्गरेऽपि स्याद्रुहिणे च परश्वधे') ॥(१२) ॥*॥ विरचयतीति विरिञ्चिः । 'रच प्रतियत्ने' (चु० उ० से०) । स्वार्थण्यन्तात् 'अच इ:' ( उ० ४।१३९) । पृषोदरादित्वात् ( ६।३।१०९ ) अकारस्येत्वं नुमागमश्च । ( केचिदित्वाभावे 'विरञ्चिः' अपि । 'चिरं विरञ्चिनं चिरं विरञ्चिः' इत्यादौ प्रयोगदर्शनात् ) ॥*॥ पचाद्यचि ( ३।१।१३४ ) 'विरिञ्चः' अपि । ('विरिञ्च द्रुहिणः शिजो विरिञ्चिदुघणो मतः ' ) इति शब्दार्णवात् । यत्तु — 'रिच वियोजनसंयमनयोः ' चुरादिः । ‘अच इः' (उ० ४।१३९ ) । पृषोदरादित्वात् ( ६ | ३|१०९ ) नुम् कुञ्जरवदुपधाहस्वत्वं च - इति मुकुटः । तन्न । 'च १- अयं पाठः सर्वत्र नोपलभ्यते ॥ ३ – उक्तप्रयोगे परसवर्णस्य ( ८|४|५३) नित्यत्वेन विलोमस्यासाधुत्वान्न सर्वसंमतत्वम् ॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 548