________________
८
अमरकोषः ।
॥* ॥ शास्तीति शास्ता । 'तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटी' (उ० २९४ ) इति तृन् तृज्वा । पितृवच्छास्तृशब्दः । नप्त्रादिग्रहणस्य ( ६ | ४|११ ) नियमार्थ - त्वात् । चान्द्रे शासेः किचि शिष्टिरित्यत्र 'शास्ता' इति प्रत्युदाहरणेऽनौणादिकतृच एव रत्नमतिना दर्शितत्वाद्बुद्ध - वाचिनोऽपि दीर्घः - इति सुभूतिः । तन्न । तृचस्तस्येट्स - ङ्गात् । अनौणादिकतृच एवेत्यत्र प्रमाणाभावाच्च । ( ' शास्ता समन्तभद्रे ना शासके पुनरन्यवत्' ) ॥ ( १७ ) ॥ ॥ मन्यते मुनिः । ‘मनेरुच्च’ (उ० ४।१२३ ) इतीन् । ( 'मुनिर्वाचंयमे - ऽर्हति । प्रियालागस्तिपालाशे' ) ॥ ( १८ ) ॥*॥ अष्टादश 'बुद्धस्य' ॥
शाक्यमुनिस्तु यः ॥ १४॥ . स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः । गौतमश्चार्कबन्धुश्च मायादेवी सुतश्च सः ॥ १५ ॥
शाक्येत्यादि ॥ (यः) । शकोऽभिजनोऽस्य । 'शण्डिकादिभ्यो ञ्यः' (४।३।९२)। यद्वा 'शाकवृक्षप्रतिच्छन्नं वासं यस्माच्च चक्रिरे । तस्मादिक्ष्वाकुवंश्यास्ते शाक्या इति भुवि स्मृताः' इत्यागमात् शाके भवाः शाक्याः । दिगादित्वाद्यत् (४।३।५४) प्रत्ययः । तद्वंशावतीर्णो मुनिः । शाक्यश्चासौ मुनिश्चति ॥ (१) ॥*॥ ( स ) । शाक्यः सिंह इव । उपमितं व्याघ्रा—— (२।१।५६ ) इति समासः ॥॥ भीमवत् ‘शाक्यः’ अपि ॥ (२) ॥*॥ सर्वार्थेषु सिद्धो निष्पन्नः । ‘सिद्धशुष्क—' (२।१।४१) इति समासः । सर्वोऽर्थः सिद्धो ऽस्येति वा ॥*॥ ‘लिद्धार्थः’ अपि । 'सिद्धार्थो बुद्धसर्षपौ' इति शाश्वतः ॥ (३) ॥*॥ शुद्ध औदनोऽस्येति । शकन्ध्वादिः ( वा० ६।१।९४ ) । शुद्धोदनस्यापत्यम् । 'अत इज़' (४ | १९५) ॥ (४) ॥*॥ गोतमस्यायं शिष्यः । ' तस्येदम्' (४।३।१२० ) इत्यण् 'तगोत्रावतारात्' इति खामी । ('गौतमो गणभृद्भेदे शाक्यसिंहर्षिभेदयोः । गौतम्युमायां रोचन्याम्' ) ॥ (५) ॥*॥ अर्कस्य बन्धुः । सूर्यवंशजत्वात् ॥ (६) ॥*॥ माया चासौ देवी च । तस्याः सुतः ॥ ( ७ ) ॥*॥ यद्यपि वेदविरुद्धार्थानुष्ठातृत्वाजिनशाक्यौ नरकवर्गे वक्तुमुचितौ । तथापि देवविरोधित्वेन बुद्ध्युपारोहादत्रैवोक्तौ । सप्त 'शाक्यस्य' ॥
ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः । हिरण्यगर्भो लोकेशः स्वयंभूञ्चतुराननः ॥ १६॥ धाता योनिर्दुहिणो विरिञ्चिः कमलासनः । स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृविधिः ॥१७॥
१ - कचित्पुस्तके इत उत्तरम् 'सर्वज्ञो वीतरागोऽर्हन्केवली तीर्थंकृज्जिनः । जिनदेवतानामानि षट् । इत्यधिकम् ॥
[ प्रथमं काण्डम्
ब्रह्मेत्यादि ॥ बृंहति वर्धयति प्रजा इति ब्रह्मा । 'बृहि वृद्धौ' (भ्वा० प० से ० ) । अन्तर्भावितण्यर्थः । 'गृहेर्नोऽच' ( उ० ४।१४६ ) इति मनिन् । धातोर्नस्यादादेशः । बृंहति वर्धत इति वा । यत्तु - व्योमादित्व ( उ० ४।१५१ ) कल्पनमस्य मुकुटेन कृतम्, तत्तूक्तसूत्रास्मरणमूलकम् । ( 'ब्रह्म तत्त्वतपोवेदे न द्वयोः पुंसि वेधसि । ऋत्विग्योगभिदोर्वित्रे चाध्यात्मज्ञानयोस्तथा ' ) ॥ (१) ॥॥ आत्मनो विष्णोः सकाशात्, आत्मना स्वयमेव वा भवति । 'भुवः संज्ञान्तरयो:' ( ३।२।१७९ ) इति क्विप् । ( ('आत्मभूर्ना कामे ' ) ॥ ( २ ) ॥*॥ सुरेषु ज्येष्ठः ॥ (३) ॥*॥ परमे व्योमनि, चिदाकाशे, ब्रह्मपदे, वा तिष्ठति । 'परमे स्थः कित्' ( उ० ४।१० ) इतीनिः । ' तत्पुरुषे कृति - ' ( ६।३।१४ ) इत्यलुक्, 'स्थास्थिनस्थूणाम् ' ( वा० ८।३।९७ ) इति षत्वम् ॥ (४) ॥*॥ लोकपितॄणां मरीच्यादीनामर्यमादीनां वा पिता पितामहः । 'पितृव्यमातुल' (४/२/३६ ) इति साधुः । ('पितामहः पद्मयोनौ जनके जनकस्य च') ॥ (५) ॥*॥ हिरण्यं हिरण्मयमण्डं तस्य गर्भ इव । 'तदण्डमभवद्धैमं सहलोकानामीशः ॥ (७) ॥*॥ स्वयमेव भवति । ‘भुवः-’ स्रांशुसमप्रभम्' इति मनूक्तेः । तद्वा गर्भेऽस्य ॥ ( ६ ) ॥#॥
(
३।२।१७९ ) इति किप् ॥ (८) ॥*॥ चत्वार्याननान्यस्य ॥ (९) ॥*॥ दधाति । 'डुधाञ् धारणपोषणयो:' ( जु० उ० अ० ) । तृच् ( ३।१।१३३) । ( 'धाता वेधसि पालके' ) ॥ (१०) ॥*॥ अब्जं योनिरस्य ॥ ( ११ ) ॥ ॥ दु दुष्टेभ्यः । 'द्रुह जिघांसायाम् ' ( दि० प० से० ) - 'दुहक्षिभ्यामिनन्' (उ० २।५० ) इतीनन्–इति मुकुटः । तन्न । 'प्रदक्षिभ्याम्' इति तत्र पाठात् । 'द्रविणं दक्षिणा' इत्युदाहरणात् । अतः 'बहुलमन्यत्रापि' ( उ० २।४९ ) इतीनच् । बाहुलकाद्गुणाभावः ॥*॥ ' दुघणाः' अपि । ' ब्रह्मात्मभूः याद्दु पितामहः' इति भागुरेः । ' करणेऽयोविद्रुघणश्च तू ( ८|४|३ ) इति णत्वम् । द्रुः संसारवृक्षो हन्यतेऽनेनेद्रुषु' ( ३।३।८२) इति हन्तेः करणेऽप् घनादेशश्च । पूर्वपदात्यर्थः । ( 'दुघणो मुद्गरेऽपि स्याद्रुहिणे च परश्वधे') ॥(१२) ॥*॥ विरचयतीति विरिञ्चिः । 'रच प्रतियत्ने' (चु० उ० से०) । स्वार्थण्यन्तात् 'अच इ:' ( उ० ४।१३९) । पृषोदरादित्वात् ( ६।३।१०९ ) अकारस्येत्वं नुमागमश्च । ( केचिदित्वाभावे 'विरञ्चिः' अपि । 'चिरं विरञ्चिनं चिरं विरञ्चिः' इत्यादौ प्रयोगदर्शनात् ) ॥*॥ पचाद्यचि ( ३।१।१३४ ) 'विरिञ्चः' अपि । ('विरिञ्च द्रुहिणः शिजो विरिञ्चिदुघणो मतः ' ) इति शब्दार्णवात् । यत्तु — 'रिच वियोजनसंयमनयोः ' चुरादिः । ‘अच इः' (उ० ४।१३९ ) । पृषोदरादित्वात् ( ६ | ३|१०९ ) नुम् कुञ्जरवदुपधाहस्वत्वं च - इति मुकुटः । तन्न । 'च
१- अयं पाठः सर्वत्र नोपलभ्यते ॥ ३ – उक्तप्रयोगे परसवर्णस्य ( ८|४|५३) नित्यत्वेन विलोमस्यासाधुत्वान्न सर्वसंमतत्वम् ॥