________________
स्वर्गवर्गः १]
कं सुखं यस्येति वा । अनयोः पक्षयोः 'शंसिदुहिगुहिभ्यो वा ( वा० ३।१।१०९ ) इति काशिकाकारवचनाद्गुहेः क्यप् । तत्र दुहि-योहणं निर्मूलमिति भट्टोजिदीक्षिताः । तन्मते ण्यति संज्ञापूर्वकत्वान्न गुणः ॥ ( ८ ) ॥*॥ असेधीदिति सिद्धः । 'षिधु हिंसासंराज्यो:' ( दि० प० से० ) । 'गत्यर्थाकर्मक- ' (३।४।७२ ) इति कर्तरि क्तः । सिद्धिरस्यास्तीति वा । अर्शआयच् (५।२।१२७) । (‘सिद्धो व्यासादिके देवयोनौ निष्पनमुक्तयोः। नित्ये प्रसिद्धे') ॥ (९) ॥*॥ भूतिरस्यास्ति । अर्शआयच् (५।२।१२७)। भूतः । ( 'भूतं क्ष्मादौ पिशाचादौ जन्तौ क्लीबं त्रिषूचिते । प्राप्ते वित्ते समे सत्ये देवयोन्यन्तरेषु ना' । भवति इष्टं प्राप्नोति । 'भू प्राप्तौ' ( चु० आ० से ० ) । ‘गत्यर्थाकर्मक-' ( ३।४।७२ ) इति क्तः - इति मुकुटः । तन्न । प्राप्त्यर्थस्यागत्यर्थाकर्मकत्वात् · वर्तमानविग्रहायोगाच्च ॥ (१०) ॥*॥ अमी विद्याधरादयो दश देवा योनिरेषां ते देवयोनयः । देवांशका इत्यर्थः । यत्तु— 'देवानामिव योनिरुत्पत्तिकारणमविभाव्यमेषाम्' इति मुकुटो व्याख्यत् । तन्न । व्यधिकरणबहुव्रीहिप्रसङ्गात् । श्लोकोपक्रमस्थग्रन्थ विरोधाच I दश 'देवयोनयः' ॥ असुर दैत्य दैतेय - दनुजेन्द्रारि- दानवाः । शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः ॥ १२ ॥
|
व्याख्यासुधाख्यव्याख्यासमेतः ।
असुरा इति ॥ अस्यन्ति क्षिपन्ति देवान् असुराः । 'असु क्षेपणे' ( दि० प० से ० ) । 'असेरुरन्' ( उ० १/४२ ) इत्युरन् । सुरविरुद्धत्वाद्वा । 'नज्' (२२२२६ ) इति तत्पुरुषः । प्रज्ञाद्यणि (५।४।३८) 'आसुराश्च' । असुषु रमन्ते वा । 'अन्येभ्योऽपि-' ( वा० ३।२।१०१ ) इति डः । ( असुरः सूर्यदैत्ययोः । असुरा रजनीवास्योः ' ) ॥ (१) ॥*॥ दितेरपत्यानि । ‘दित्यदित्या-’ (४।१।८५ ) इति ण्यः । 'दैत्योसुरे मुरायां तु दैत्या चण्डौषधावपि ' ) ॥ ( २ ) ॥ ॥ बीषन्तात् । 'स्त्रीभ्यो ढक्' ( ४।१।१२० ) ॥ (३) ॥ ॥ दनोर्दनौ वा जाताः । ' सप्तम्यां जनेर्ड : ', ' पञ्चम्यामजातौ' ( ३२ ९७, ९८ ) (४) ॥*॥ इन्द्रस्यारयः ॥ ( ५ ) ॥* ॥ दनोरपत्यानि ॥ (६) ॥*॥ शुक्रस्य शिष्याः ॥ ( ७ ) ॥*॥ दितेः सुताः ॥ (८) ॥*॥ पूर्वे च ते देवाश्च । 'पूर्वापरप्रथम - ( २।१।५८ ) इत्यादिना समासः । यद्वा - पूर्वं देवाः । अन्यायाद्धि देवत्वाद्भष्टाः । ‘सुप्सुपा' ( २।१।४ ) इति समासः । पूर्वे देवा येभ्यो वा । 'अनेकमन्यपदार्थे' (२।२।२४ ) इति बहुव्रीहिः ॥ (९) ॥*॥ सुरान् द्विषन्ति । 'द्विष अप्रीतौ' ( ० उ० अ० ) 'सत्सूद्विष - ( ३।२।६१ ) इति क्विप् ॥ ( १० ) ॥५॥ यद्यपि पातालवासित्वेन पातालवर्गे वक्तुं युक्ताः, तथापि देवविरोधित्वेन बुद्ध्युपारोहादिहैवोक्ताः । दश नामानि 'असुराणाम् ॥
|
|
१ - वासी तोपकरणम् ।
सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः । समन्तभद्रो भगवान्मारजिल्लोक जिजिनः ॥ १३ ॥ षडभिज्ञो दशबलोऽद्वयवादी विनायकः । मुनीन्द्रः श्रीघनः शास्ता मुनिः
सर्वज्ञ इत्यादि ॥ सर्वं जानाति । 'ज्ञा . अवबोधने' ( क्रया० प० अ० ) । 'आतोऽनुपसर्गे कः' ( ३।२।३ ) यद्वासर्वे ज्ञा यस्य । खात्मनः सर्वस्यापरोक्षत्वात् । 'यः साक्षादपरोक्षात्' इति श्रुतेः । यद्वा, सर्वे ज्ञा यस्मात् । 'यथाः विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एत आत्मानो व्युच्चरन्ति' इति श्रुतेः । यद्वा - सर्वे ज्ञा येन । 'तस्य भासा सर्वमिदं विभाति' इति श्रुतेः । 'सर्वज्ञस्तु जिनेन्द्रे स्यात्सुगते शंकरेऽपि च ' ) ॥ (१) ॥*॥ शोभनं गतं ज्ञानमस्य ॥ ( २ ) ॥* ॥ प्रशस्ता बुद्धिरस्य । अर्शआद्यच् (५।२।१२७ ) । यद्वा-बुध्यते । 'मति - बुद्धि-' ( ३।२।१८८ ) इति तः ॥*॥ 'इगुपध-' ( ३|१| १३५ ) इति के 'बुधः' अपि । 'सर्वज्ञः सुगतो बुधः' इति व्याडिः ॥ (३) ॥॥ धर्मेण राजते । पचाद्यच् ( ३।१।१३४ ) । धर्मस्य राजेति वा । 'राजाहः सखिभ्यष्टच्' (४|४|११ ) । ( 'धर्मराजो यमे बुद्धे युधिष्ठिरनृपे पुमान्')॥ (४) ॥*॥ तथा सत्यं गतं ज्ञानं यस्य ॥ ( ५ ) ॥ ॥ समन्तं भद्रमस्य सः । समन्ताद्भद्रमस्येति तु व्यधिकरणत्वादनुचितम् ॥ ( ६ ) ॥*॥ भगं माहात्म्यमस्यास्ति । मतुप् ( ५।२।९४ ) ॥ (७) ॥*॥ मारं कामं जयति । 'सत्सूद्विष - ' ( ३।२।६१ ) इति क्विप ॥ (८) ॥*॥ लोकं जयति ॥ ( ९ ) ॥* ॥ जयति जिनः । 'इषिजिदी डुष्यविभ्यो नक्' ( उ० ३।२ ) 'जिनाति' इति स्वामिमुकुटौ । तन्न । 'अङ्गस्य' 'हल:' ( ६ |४|१, २ ) इति दीर्घप्रसङ्गात् । ( 'जिनोऽर्हति च बुद्धे च पुंसि स्याज्जित्वरे त्रिषु ॥ (१०) ॥*॥ दिव्यं चक्षुः श्रोत्रम्, परचित्तज्ञानम्, पूर्वनिवासानुस्मृतिः, आत्मज्ञानम्, वियद्गमनम् कायव्यूहसिद्धिश्चेति षट् अभितो ज्ञायमानानि यस्य सः । षट्सु दानशीलक्षान्तिवीर्यध्यानप्रज्ञासु अभिज्ञा आद्यं ज्ञानमस्येति वा ॥ (११) ॥*॥ दश बलान्यस्य । यदाहुः - 'दानं शीलं क्षमा वीर्यं ध्यानप्रज्ञाबलानि च । उपायः प्रणिधिर्ज्ञानं दश बुद्धबलानि वै' इति ॥ ( १२ ) ॥ ॥ अद्वयमद्वैतं वदत्यवश्यम् । आवश्यके ( ३।३।१७० ) णिनिः ॥ (१३) ॥*॥ विनयत्यनुशास्ति । ' णीञ् प्रापणे' ( भ्वा० उ० अ० ) । ण्वुल् ( ३। १।१३३ ) ( 'विनायकस्तु हेरम्बे तायें विघ्ने जिने गुरौ
(१४) ॥ ॥ मुनिषु इन्द्र: ॥ ( १५ ) ॥*॥ श्रिया घनः पूर्णः । क्षुनादित्वात् ( ८।४।३९ ) न णत्वम् ॥ (१६)
॥
१ – बृहदारण्यकोपनिषत्सु 'यत्' इति श्रूयते व्याख्यायते च शंकरभगवत्पादैः - 'यत् ब्रह्म साक्षादव्यवहितं केनचित् द्रटुरपरोक्षादगौणम्' इति ।