________________
६
अमरकोषः ।
)
बर्हिरग्निर्मुखं येषां ते ॥ (२०) ॥ ॥ क्रतून् क्रतुषु वा भुञ्जते । 'भुज पालनाभ्यवहारयोः' (रु० आ० अ० ) क्विप् ( ३।२।७६ ) ॥ (२१) ॥*॥ गीरेव निग्रहानुग्रहसमर्था बाणोऽस्त्रं येषाम् ॥*॥ दन्तोष्ठ्यपाठे गिरं वन्वते स्तुतिप्रियत्वात् । 'वनु याचने' ( त० आ० से० ) 'कर्मण्यण्' ( ३।२1१ ) । 'पूर्वपदात् -' ( ८४।३) इति णत्वम् ॥ (२२) ॥*॥ दानवानामरयः ॥ ( २३ ॥*॥ प्रशस्तं वृन्दं येषाम् । 'शृङ्गवृन्दाभ्यामारकन् ' ( ५/२११२० वा० ) । ( 'वृन्दारकः सुरे पुंसि मनोज्ञश्रेष्ठयोस्त्रिषु') ॥ (२४) ॥*॥ 'देव' शब्दात् खार्थे तल् ( ५।४।२७) । ततः खार्थे प्रज्ञाद्यण् ( ५।४।३८ ) । विशेषविधेः पुंस्त्वम् । रूपभेदात्क्लीबत्वम् ॥ (२५) ॥*॥ देवताः ॥ ( २६ ) ॥ स्त्रियाम् । रूपभेदादेव स्त्रीत्वे सिद्धे बहुवचनान्तपुंलिङ्गशङ्कावारणार्थं 'स्त्रियाम्' इति-मुकुटः । तन्न । रूपभेदेनैव वारणाद्विसर्गे विना पुंलिङ्गकोटेरनुत्थानात् । अन्यथा 'पद्मा गदा' इत्यादौ तस्या अनिवा - रणात् । अतो 'देवपर्यायाः पुंसि' इति वक्ष्यति । तद्बाधनार्थमिदम् । षड्विंशतिः 'देवानाम्' ॥
आदित्य- विश्व - वसवस्तुषिताभाखरानिलाः । महाराजिक - साध्याश्च रुद्राश्च गणदेवताः ॥ १० ॥
आदित्यादयः प्रत्येकं गणदेवताः समुदायचारिण्यो देवताः । एकत्वं तु समुदायवृत्तानामवयववृत्तेरप्यभ्युपगमात् । ' आदित्या द्वादश प्रोक्ता विश्वेदेवा दश स्मृताः । वसवश्चाष्ट संख्याताः षट्त्रिंशत्तुषिता मताः । आभाखराश्चतुःषष्टिर्वाताः पञ्चाशदूनकाः । महाराजिकनामानो द्वे शते विंशतिस्तथा । साध्या द्वादश विख्याता रुद्राचैकादश स्मृताः ॥' ॥१॥ ॥ विशन्ति कर्मखिति विश्वे। ‘विश प्रवेशने ' ( तु० प० अ० ) । 'अषि-ल-क-कट-विशिभ्यः क्कन् ' ( उ० १।१५१ ) । सर्वनामसंज्ञोऽयम् । आधुनिकसंज्ञास्वेव सर्वनामत्वपर्युदासात् । मुकुटस्तु—सर्वेषां विश्वे(षां) देवानां नाम इति कृत्वा सर्वनामसंज्ञः— इत्याह । तन्न । 'एक' शब्दस्य बहुषु संकेतितस्य संज्ञात्वौचित्यात् । यथा प्राचीनवर्हिषः पुत्रेषु संकेतितस्य ‘प्रचेतः’शब्दस्य । ‘यथा पूर्वजवृत्तिः पूर्व-शब्दः' इति तदीयदृष्टान्तोऽपि चिन्त्यः । पूर्वजवृत्तेः 'पूर्व' शब्दस्य व्यवस्थायां सत्त्वात्संज्ञात्वोक्तिसंभवाभावात् ( 'विश्वा त्वतिविषायां स्त्री जगति स्यान्नपुंसकम् । न ना शुण्ठ्यां पुंसि देवप्रभेदेष्वखिले त्रिषु' ) ॥ ( २ ) ॥*॥ वसन्तीति वसवः । ' वस निवासे' 'शृ-स्त्र - स्त्रि हि त्रप्यसि - वसि हनि - क्लिदि-बन्धि-मनिभ्यश्च' ( उ० १।१० ) इति उः । ‘विश्वस्य वसुराटो:' ( ६ | ३|१२८ ) इति दीर्घो न । असंज्ञात्वात् । ( 'वसुस्त्वमौ देवभेदे नृपे रुचौ । योक्त्रे शुष्के वसु खादौ रत्ने वृद्ध्यौषधे धने' ) ॥ (३) ॥*॥ तुष्यन्ति । 'तुष तुष्ट' । 'रुचिकुटिरुषिभ्यः कितच्' ( उ०
[ प्रथमं काण्डम्
(
४।१८६ ) इति बाहुलकात् कितच् । यद्वा, -तोषणं तुट् । संपदादिः ( वा० ३ | ३ | १०८ ) । ततः 'तारकादित्वादितच्' (५/२/३६ ) ॥ (४) ॥*॥ आ समन्ताद्भासनशीलाः । ' भासृ दीप्तौ' (भ्वा० आ० से० ) । 'स्थेशभासपिसकसो वरच्' (३।२।१७५) ॥ (५) ॥॥ अनन्त्यनेन । 'अन प्राणने ' ( आ० प० से० ) 'सलिकल्यनिमहिभण्डिमण्डिशण्डिपिण्डितुण्डिकुकीभूभ्य इलच्' (उ० ११५४) 'अनिलो वसुवातयोः ' ॥ ( ६ ) ॥*॥ महती राजिः पङ्क्तिर्येषाम् । 'शेषाद्विभाषा' (५।४।१५४ ) इति कप् ॥*॥ 'माहाराजिक' इति पाठे महाराजो देवता येषाम् । 'महाराजप्रोष्ठपदाट्ठञ् (४/२/३५ ) इति ठञ् । यद्यपि — सूक्तहविर्भागिन एव देवतात्वम्, तथापि ‘आग्नेयो वै ब्राह्मणः’ इतिवदुपचारो बोध्यः ॥ ( ७ ) ॥*॥ साध्यं सिद्धिः । ‘साध संसिद्धौ ' ( वा० प० अ० ) । 'ऋहलोर्ण्यत् ' ( ३।१।१२४ ) इति भावे ण्यत् । साऽस्त्येषाम् । अर्शआयच् ( ५।२।१२७ ) । 'साध्यो योगान्तरे सुरे । गणदेवविशेषे च साधनीये च वाच्यवत्' ॥ (८) ॥*॥ रोदयन्त्यसुरान् । 'रुदिर् अश्रुविमो - चने' (अ० प० से० ) ॥ 'रोदेर्णिलुकू च' ( उ० २३२२ ) इति रक् णेश्च लुक् ॥ ( ९ ) ॥ नव 'गणदेवानाम्' ॥ विद्याधरोऽप्सरो-यक्ष- रक्षो - गन्धर्व - किंनराः । पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥११॥
१- सूत्रं 'रुचिवचिकुचिकुटिभ्यः कितच' इत्येवमुणादिषूपलभ्यते ।
विद्येति ॥ 'विद्याधरोऽप्सरो -' इति पाठः । भिन्नलिङ्गत्वादग्रेऽनभिधानादसमासः । विद्याया गुटिकाञ्जनादिविषयिण्या धरो धारकः । यत्तु — 'विद्यां धरति' इति मुकुट आह । तन्न । पचाद्यचः ( ३।१।१३४ ) अपवादत्वादणः ( ३।२1१ ) प्रसङ्गात् ॥ (१) ॥ * ॥ अद्भ्यः सरन्ति । 'सररसुन्' ( उ० ४।२३७ ) ॥ ( २ ) ॥ ॥ यक्ष्यते पूज्यते 'यक्ष पूजायाम् ' ( चु० आ० से० ) । 'अकर्तरि च कारके संज्ञायाम्' ( ३।३।१९ ) इति कर्मणि घञ् । 'यक्षो गुह्यकमात्रे च गुह्य|काधीश्वरेऽपि च' । इः कामः, तस्येवाक्षिणी अस्येति वा, इरक्षिषु यस्येति वा । 'बहुव्रीहौ सक्थ्यक्ष्णोः - ( ५।४।४३ ) इति षच् ॥ (३) ॥*॥ रक्ष्यन्त्येभ्यो रक्षांसि । 'रक्ष पालने ' ( भ्वा० प० से ० ) । 'सर्वधातुभ्योऽसुन्' (उ० ४।१८९) ॥ (४) ॥*॥ गन्धं सौरभमवैति गन्धर्वः । 'अर्व गतौ' ( भ्वा० प० से० ) । 'कर्मण्यण्' ( ३।२1१ ) शकन्ध्वादिः ( वा० ६।१।९४ ) ॥ ( ५ ) ॥ ॥ अश्वमुखत्वात्कुत्सिता नराः । ‘किं क्षेपे' (२|१|६४ ) इति समासः ॥ ( ५ ) ॥ ॥ पिशितमश्नाति । 'अश भोजने' ( क्या० प० से० ) । 'कर्मण्यण् ' ( ३।२।१ ) ( पृषोदरादिः ' ( ६ | ३|१०९ ) । मध्यतालव्यः ॥ ( ७ ) ॥*॥ गूहति निधिं रक्षति । 'गुहू संवरणे' (भ्वा० उ० से० ) । 'ण्वुल् ' ( ३।१।१३३ ) । पृषोदरादित्वाद्यः । तथा च व्याडि ः— 'निधिं रक्षन्ति ये यक्षास्ते स्युर्गुह्यकसंज्ञकाः' इति । यद्वा-गुह्यं कुत्सितं कायति । 'कै शब्दे' ( भ्वा० प० अ० ) ‘आतोऽनुपसर्गे कः' ( ३।२।३) गुह्यं गोपनीयं