________________
स्वर्गवर्गः १]
वियोजनसंपर्चनयो:' इति चुरादौ पाठदर्शनाद्धस्वविधानस्या - नुपयोगात् । कुञ्जरवदिति दृष्टान्तोऽप्ययुक्तः । तत्र हखवि धानाभावात् ॥ (१३) ॥*॥ कमलमासनं यस्य ॥ (१४) ॥ ॥ सृजति । तृच् (३।१।१३३ ) । 'सृजिदृशो : ' - ( ६।१।५८ ) इत्यम् ॥ ( १५ ) ॥*॥ प्रजानां पतिः । 'प्रजापतिर्ना दक्षादौ महीपाले विधातरि' । ( ' प्रजापतिर्ब्रह्मराज्ञोर्जामातरि दिवाकरे । वह्नौ त्वष्टरि दक्षादौ ) ॥ ( १६ ) ॥ ॥ विदधाति । ‘बिधाञो वेध च’ (उ०४।२२५) इति वेधादेशो ऽसिप्रत्ययश्च । मुकुटस्तु—असुन्-इत्याह । तन्न । ( ६।१।१९७ ) आद्युदात्तत्वापत्तेः। ‘मिथुनेऽसिः’ (उ०४।२२३) इत्युपक्रमाच्च । ( 'वेधाः पुंसि हृषीकेशे बुधे च परमेष्ठिनि ' ) ॥ ( १७ ) ॥ ॥ विशेषेण दधाति । विरन्योपसर्गनिरृत्त्यर्थः । ( ' विधाता द्रुहिणे काये' ) ॥ (१८) ॥*॥ विश्वं सृजति । 'क्विप्' ( ३।२।७६) 'क्विन्प्रत्य - यस्य -' (८।२।६२) इति कुत्वं तु न । 'रज्जुसृड्भ्याम्' इति (७।२।११४) भाष्यप्रयोगात् । यद्वा, सृजियज्योः पदान्ते षत्वविधेः कुत्वापवादत्वात् । यत्तु मुकुटेनोक्तम् — 'क्विन्प्रत्यय' इति तद्गुणसंविज्ञानपक्षे क्विन्नन्तस्य कुत्वम्, 'न क्किबन्तस्य-' इति । तन्न । प्रत्ययग्रहणवैयर्थ्यात् दृक् स्पृगित्याद्य - सिद्धिप्रसङ्गाच्च, तत्पक्षस्यात्राग्रहणात् । यद्यपि - 'अतद्गुणसंविज्ञानपक्षे तु क्विन उपलक्षणत्वात्तदभावे क्किबन्तस्यापि कु`त्वम्' इत्युक्तम् । तदप्यस्मदुक्तप्रकारद्वयेन प्रत्युक्तम् ॥ ( १९ ) ॥*॥ विधत्ते इति विधिः । ‘उपसर्गे घोः कि:' ( ३३३३९२) बाहुलकात् (३।३।११३) कर्तरि । यद्वा, - 'विध विधाने' (तु० प० से०) । इन् ‘इगुपधात्कित्’ (उ० ४।१२० ) इति कित्त्वान्न गुणः। (‘विधिर्ब्रह्मविधानयोः । विधिर्वाक्ये च दैवे च प्रकारे कालकल्पयोः ' ) ॥ ( २० ) ॥*॥ विंशतिः 'ब्रह्मणः ' ॥ विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः । दामोदरो हृषीकेशः केशवो माधवः स्वभूः ॥ १८॥ दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः । पीताम्बरो ऽच्युतः शार्ङ्ग विष्वक्सेनो जनार्दनः १९ उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः । पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः ॥ २० ॥ देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः । वनमाली बलिध्वंसी कंसारातिरधोक्षजः ॥ २१ ॥ विश्वंभरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः ।
व्याख्यासुधाख्यव्याख्यासमेतः ।
९
विष्णुरूर्ध्वकर्मा नरायणः' इति शब्दार्णवः । 'वासुन - रायण - पुनर्वसु- विश्वरूपाः' इति त्रिकाण्डशेषश्च । नरस्यापत्यम् ‘नडादिभ्यः फक्' ( ४।१।९९ ) इति वा । संज्ञापूर्वकत्वाद्वृद्ध्यभावो वा । नराज्जाताः नारा औपः तत्त्वानि वा अयनं (यस्य ) नारम् अयते जानाति वा, आययति प्रवर्तयति वा 'अय गतौ' ( वा० आ० से०) णिजन्तोऽपि । ' कृत्यल्युट:-' ( ३।३।११३) इति ल्युट् । ( ' नारायणस्तु केशवे नारायणी शतावर्युमा श्रीः) ॥ ( २ ) ॥ ॥ कृष्णो वर्णोऽस्यास्तीति 'कृषेर्वर्णे' ( उ० ३।४) इति नगन्तात् 'गुणवचनेभ्यो मतुपो लुक् ' ( वा० ५। २ । ९४ ) इति लुक् । कर्षत्यनिति वा बाहुलकाद्वर्णं विनापि कृषेः 'कृष विलेखने' (भ्वा० प० अ०) नक् । ( 'कृष्णः सत्यवतीपुत्रे वायसे केशवेऽर्जुने । कृष्णा स्याद्रौपदी नीली पिप्पलीद्राक्षयोरपि । मेचके वाच्यलिङ्गः स्याक्कीबे मरिचलोहयोः ' ) ॥ ( ३ ) ॥*॥ विकुण्ठाया अपत्यम् । शिवादित्वात् ( ४।१।११२ ) अण् । विगता कुण्ठा नाशोऽस्य, विकुण्ठं ज्ञानं स्थानं वास्ति स्वरूपत्वेनाश्रयत्वेन वास्य । ज्योत्स्नादित्वात् ( वा० ५।२।१०३ ) अण् । यद्वा - विकु - ण्ठानां जीवानामयं नियन्ता ज्ञानदो वा । ‘तस्येदम्' (४|३।१२० ) इति, 'शेषे' (४/२/९२ ) इति वाण् । वि यस्मात् । प्रज्ञाद्यण् (५।४।३८) वा । ( 'वैकुण्ठ वास विष्णौ ' ) ॥४॥ ॥ विष्टरे श्रूयते । असुन् (उ० ४।१८९)। बिष्टरो वृक्षः । 'पलाशी विष्टरः स्थिरः' इति त्रिकाण्डशेषः । तस्थात्राश्वत्थोऽभिमतः । ‘अश्वत्थः सर्ववृक्षाणाम्’ इत्युक्तेः । विष्टरो दर्भमुष्टिरिव श्रवसी कर्णावस्येति वा ॥. (५) ॥*॥ दाम उदरे यस्य । सप्तम्यन्तस्य वैयधिकरण्येऽपि समासः । ‘सप्तमीविशेषणे बहुव्रीहौ' ( २/२/३५ ) इति लिङ्गात् । गमकत्वादिति मुकुटोक्को हेतुस्त्वप्रयोजकः ॥ (६) ॥*॥ हृषीकाणामिन्द्रियाणामीशः ॥ (७) ॥*॥ प्रशस्ताः केशाः सन्त्यस्य । कश्च ईशश्च केशौ पुत्रपौत्रौ स्तोऽस्य । 'केशाद्वः - ' ( ५।२।१०९) इति वः । केशव वा । 'वा गतौ' (अ० प० अ० ) । ' आतः - ( ३१२१३ ) इति कः । 'शंभोः पितामहो ब्रह्मपिता शक्राद्यधीश्वरः' इति पाद्मोक्तेः । (यत्तु ) -- हन्त्यर्थाद्वधेः केशिनं हैतवान् । 'अन्ये • भ्योऽपि दृश्यते' ( वा० ३।२।१०१ ) इति डः । पृषोदरादित्वात् ( ६।३।१०९ ) केशिशब्दस्येकारस्याकारे नलोपे च
विष्णुरित्यादि ॥ वेवेष्टि । 'विष्ऌ व्याप्तौ' (जु० उ० अ०) । 'विषेः किच्च' ( उ० ३।३९) इति नुः ॥ (१) ॥*॥ नराणां समूहो नारम् । ‘तस्य समूह : ' (४/२/३७ ) इत्यण् । तदनं यस्य । 'पूर्वपदात्- ' ( ८१४१३) इति णत्वम् ॥ ॥ नरा अयनं यस्येति विग्रहे ' नरायणः' अपि । 'पृषोदरादित्वात्' (६।३।१०९) इति मुकुटस्तु चिन्त्यः । 'अथ नारायणो |
अमर० २
१ - 'आपो वै नरसूनवः' इति मनूक्तेः इति मुकुटः ॥ २'राज्जातानि तत्त्वानि' इति मन्त्रवर्णादिति मुकुटः ॥ ३- मुकु टस्तु 'कृषिरुत्कृष्टवचनो नश्च निर्वृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते' इति त्वौपनिषदाः । उत्कृष्टा निर्वृतिरस्मादिति व्युत्पत्तिरित्यप्याह ॥ ४ – 'यस्मात्त्वयैष दुष्टात्मा हतः केशी जनार्दन । तस्मात्केशवनामा त्वं लोके ख्यातो भविष्यसि' इति हरिवंशोक्तेः इति मुकुटः ॥