Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 8
________________ चतुर्थावृत्तिप्रस्तावना। 30000 नामलिङ्गानुशासनीयानेकव्याख्यास्वप्रेसरत्वेन वरीवर्ति रामाश्रम्यपरपर्यायेयं व्याख्यासुधाख्या व्याख्या। अस्याः पूर्वसंस्करणं विद्वल्ललामायमानैर्जयपुरसंस्कृतपाठशालामुख्याध्यापकैर्दाधिमथकुलावतंसैः पण्डितवरशिवदत्तशर्मभिरसाधारणायासादनेकविद्वद्भ्योऽनेकविधटीकापुस्तकसंपादनयोजनेनेतरविद्वकर्तृकपुनःसंस्करणनिरपेक्षं शोधनमकारीति निर्विचिकित्सं पूर्वावृत्तिमुद्रितपुस्तकादवगम्यत एव । एतावतास्यान्येन पुनःसंस्करणकरणं पिष्टपेषणायितं स्यादिति न कल्पनीयं संख्यावद्भिः। प्रतिमुद्रणावृत्ति पूर्वावशेषदोषापाकरणकं संस्करणमावश्यकमेव । तदपि प्राथमिकशोधकद्वारैवापेक्षितमिति निर्विवादम् । तथापि पुनरङ्कनकालेऽनवसरतया शोधकस्य च दविष्ठत्वेन कालातिक्रमभिया चास्या द्वितीयावृत्तेः शोधनाय श्रीमद्भिः तुकाराम जावजीश्रेष्ठिभिनियुक्तोऽस्मि । उररीकृत्य च सादरं तन्निदेशं केवलं पूर्वतनसंस्कारकालीनमानुषशेमुषीनैसर्गिकदृगादिदोषकारणकानामुपरि निर्दिष्टपण्डितवरैः शोधनपत्रकेषूद्घाटितानामनुद्घाटितानां च मदृष्टिसरणिमापतितानां स्खलितानां यावद्बुद्धिबलं मार्जनमकारि । विशेषतश्चामरस्थस्य कस्यचिद्वस्तुनो यथासंभवं नाम्नां नानोर्नामश्च व्याख्यावसरेऽमुकस्य वस्तुन इमानीमे इदं वा नामेति व्यवस्था व्याख्यासुधायां कुत्रचनासीद्वहुत्र च नासीत्सापि व्युत्पित्सूनामनायासतोऽवगमाय तत्र तत्रेमानीयन्त्यमुकस्य वस्तुनो नामानीति स्थूलाक्षरविन्यासेन कृता ॥ __ अभ्यर्थये च नामनाममत्रापि स्खलितं क्षमध्वमिति करुणावरुणालयेभ्यो विद्वद्भ्योऽहं सविनयं .. पणशीकरोपाह्वलक्ष्मणशर्मसूनुः वासुदेवशर्मा। ४६ पृष्ठव्याख्यासुधाटिप्पणीशेषपूर्तिः___सा दृष्टेन्दुः सिनीवाली" इति मूलं 'सा अमावास्या दृष्टेन्दुः चतुर्दशीयोगात् दृष्टचन्द्रा चेत् सिनीवालीपदवाच्या भवति' इत्येवं फलितार्थकत्वेन व्याख्यातुर्व्याख्यासुधाकारस्याशयस्तु 'तिथिक्षये सिनीवाली तिथिवृद्धौ कुहूः स्मृता ।' इति प्रचेतोवाक्यानुसारेण अमावास्याक्षयदिने सूर्योदयतःप्राक् चन्द्रोदयकाले अमावास्याया असत्वाचतुर्दश्या एव सत्त्वेन तद्दिन एवागत्या अमावास्याकार्यस्यापि करणीयत्वेनामात्वव्यवहारश्चतुर्दशीदिन एवेत्येवं बोधनीयः ॥ परं त्विदं न सार्वदिकम् । व्यर्कचन्द्रस्य (चन्द्रसूर्योभयान्तरस्य) द्वादशभ्योऽशेभ्योऽनधिकत्वे चन्द्रादर्शनस्य अनल्पत्वे चन्द्रदर्शनस्य नियमनं 'दोन्दवः १२' इति वाक्येन यद्यपि तिथ्याद्यानयनेऽनुपयुक्ततया शरसंस्काररहितस्यैव कृतमिति प्रतीयते तथापि शृङ्गोन्नतिचन्द्रदर्शनशौक्ल्यमानानयनप्रकरणे शरसंस्कारस्यापि दानात् चन्द्रदर्शने शरसंस्कारदानस्यात्यावश्यकत्वमिति व्यक्तीकृतम् ॥ तथा चोपपश्चाशकस्य चन्द्रशरस्योत्तरदिक्कत्वे अमावास्याप्रथमतुर्यांशेऽपि शुक्लप्रतिपच्चरमतुर्याशेऽपि चन्द्रदर्शनं भवत्येव । एवं चन्द्रशरस्य दक्षिणदिक्कत्वे कृष्णचतुर्दशीचरमतुर्याशे शुक्लद्वितीयाप्रथमतुर्यांशेऽपि चन्द्रदर्शनं नैव भवति । दक्षिणोत्तरशरतारतम्यमेवात्र प्रधानं बीजमिति व्यञ्जयितुमेव 'अमाक्षये सिनीवाली' इत्यनुक्त्वा 'सा दृष्टेन्दुः सिनीवाली' इत्येवोक्तं सर्वविदा कोषकारेणेति निवेदयति टिप्पणीकर्ता दाधिमथः॥

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 548