Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
नानार्थवर्ग : ३ ]
ओकः सद्माश्रयचौकाः
।
उच्यति समवैत्यत्र। ‘उच समवाये' ( दि० प० से० ) असुन् ( उ० ४।१८९)। न्यङ्कादिः ( ७|३|५३ ) । 'ओक उचः के' (७|३|६४ ) इति निपातनाददन्तोऽपि । 'ओका आश्रयमात्रे च मन्दिरे च नपुंसकम् ' ( इति मेदिनी ) ॥ पयः क्षीरं पयोऽम्बु च । पीयते । 'पीड् पाने' ( दि० आ० अ० ) । पयते वा ‘पय गतौ’ (भ्वा० आ० से०) । वा असुन् ( उ० ४।१८९ ) ॥ ओजो दीप्तौ बले
।
अतिशयित ऊरुर्वरो वा । 'द्विवचन - ' ( ५।३।५७ ) इतीयउब्जति, अनेन वा । 'उब्ज आर्जवे' ( तु० प० से० ) । सुनि 'प्रियस्थिर - ' ( ६।४।१५७ ) इत्यूरोर्वरादेशः 'वरीयान् ‘उब्जेर्जले बलोपश्च’ (उ० ४।१९२ ) इत्यसुन् । 'ओजोनोजः | योगभिच्छ्रेष्ठवरिष्ठेष्वतियूनि च' (इति मेदिनी ) ॥ समः पादो - ' ' ओजो दीप्ताच्वष्टम्भे प्रकाशबलयोरपि' ( इति मेदिनी ) । पृषोदरादित्वं मुकुटोक्तं चिन्त्यम् ॥
स्रोत इन्द्रिये निम्नगारये ॥२३३॥ स्रवति । 'स्रु गतौ' (भ्वा० प० अ० ) । (खुरीभ्यां तुद च' (उ० ४।२०२) इत्यसुन् । 'स्रोतोऽम्बुवेग इन्द्रिये' (इति मेदिनी ) ॥
तेजः प्रभावे दीप्तौ च बले शुक्रेऽपि
तेजयति, तेज्यतेऽनेन वा । 'तिज निशाने' ( भ्वा० आ० से० ) । असुन ( उ० ४।१८९ ) । 'तेजो धानि पराक्रमे । ( ' प्रभावरेतसोश्च' ) इति विश्वः । 'तेजो दीप्तौ प्रभावे च स्यात्पराक्रमरेतसोः' ( इति मेदिनी ) । चादसहने । 'अधिक्षेपावमानादेः प्रत्युक्तस्य परेण यत् । प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतम्' इति भरतः ॥
अतस्त्रिषु ।
व्याख्यासुधाख्यव्याख्यासमेतः ।
वक्ष्यमाणाः सान्तास्त्रिलिङ्गाः ॥ विद्वान् विश्व
वेत्ति । 'विद ज्ञाने' ( अ० प० से० ) । 'विदेः शतुर्वसुः " (७।१।३६) वा। 'विद्वानात्मविदि प्राज्ञे पण्डिते चाभिधेय - वत्' इति विश्वः । विदन् = पण्डितः ॥
बभत्सो हिंस्रोऽपि
बीभत्सते, बीभत्स्यते, अनेन वा । 'बध बन्धने' (भ्वा० आ० से० ) । ‘मान्वध-' ( ३।१।६ ) इति सन्नभ्यासदीर्घश्व । पचाद्यच् (३।१।१३४) । घञ् ( ३।३।१९ ) । घः ( ३।३।११८) वा। ‘बीभत्सो विकृते पार्थे क्रूरे पापघृणात्मनोः' इत्यजयः ॥ अतिशये त्वमी ॥२३४॥
वक्ष्यमाणाश्चत्वारः ॥
वृद्धप्रशस्ययोर्ज्यायान्
४३९
१ - विषमसंख्यावाची स्वोजोऽदन्तोऽपि - इति स्वामि-मुकुटपीयूषेषु व्यक्तम् । तत्रोदाहरणमिदम् ।
इतीयसुनि 'ज्य च' (५।३।६१ ) इति 'वृद्धस्य च' (५।३।६२) इति वृद्धप्रशस्ययोर्थ्यादेशः । ' ज्यादादीयसः' ( ६।४।१६० ) इत्यात्त्वम् । 'ज्यायान्वृद्धे प्रशस्ये च' ( इति हैमः ) ॥ कनीयांस्तु युवाल्पयोः ।
अतिशयितो युवाऽल्पो वा । 'युवापयोः कनन्यतरस्याम्' ( ५|३|६४ ) इतीयसुनि कन्नादेशः । ' कनीयानतियूनि स्यादत्यल्पानुजयोस्त्रिषु' ( इति मेदिनी ) ॥ वरीयांस्तूरुवरयोः
साधीयान् साधुवाढयोः ॥ २३५॥ अतिशयितः साधुर्बाडो वा । ईयसुनि 'अन्तिकबाढ्योः -' इति बाढशब्दस्य साधादेशः ॥
इति सान्ताः ॥
दलेsपि बर्हम्
दले= पत्रे । बर्हति । 'बृह वृद्धी' (भ्वा० प० से ० ) । पचाद्यच् ( ३।१।१३४) । वर्त्यते वा । 'वर्ह हिंसायाम् (भ्वा० आ० से० ) । घञ् ( ३।३।१९ ) । 'बर्ह पिच्छे दलेऽस्त्रियाम्' ( इति मेदिनी ) ॥
निर्बन्धोपरागादयो ग्रहाः ।
ग्रहणम् । गृह्णाति वा । 'ग्रह उपादाने' (क्या ० प० से०) । 'ग्रहवृदृ-' ( ३।३।५८) इत्यप् । 'विभाषा ग्रहः ' ( ३।१।१४३ ) इति पक्षे अच् । 'ग्रहोऽनुग्रहनिर्बन्धग्रहणेषु रणोद्यमे । सूर्यादौ पूतनादौ च सैंहिकेयोपरागयोः' इति विश्वः ॥
द्वार्यापीडे क्वाथर से निर्यूहो नागदन्तके ॥ २३६ ॥
आपीडे = शिरोभूषणे । क्वाथरसे=क्कथितद्रव्यरसे । नागदन्तके= भित्तिस्थकीलके । निर्यूहति 'यूहि' लौकिको साधुः । ' इगुपध- ' ( ३।१।१३५ ) इति कः । निरूहति वा । पृषोदरादित्वात् ६।३।१०९ ) धातोर्यडागमः । 'निर्यूहः शेखरे द्वारे निर्यासे नागदन्तके' इति विश्वः ॥
(
तुलासूत्रे ऽश्वादिरइमौ प्रग्राहः प्रग्रहोऽपि च ।
इति वा घञ् । ( 'प्रग्राहः स्यात्तुलासूत्रे वृषादीनां च बन्धने' प्रगृह्यते । ‘प्रे वणिजाम्” (३।३।५२) 'रश्मौ च' (३।३।५३) इति हैमः ) । पक्षे 'प्रहवृह - ( ३।३।५८) इत्यप् । 'प्रग्रहस्तु तुलासूत्रे वन्द्यां नियमने भुजे । हयादिरश्मौ रश्मौ च सुवर्णहलिपादपे ' इति विश्वः ॥
अतिशयेण वृद्धः प्रशस्यो वा। 'द्विवचन - ' ( ५।३।५७ ) पत्नीपरिजनादानमूलशापाः परिग्रहाः ॥ २३७ ॥
परिगृह्यते । परिग्रहणम्, परिगृह्णाति वा । 'ग्रह - ' ( ३।३।५८ ) इत्यप् । 'विभाषा ग्रहः' ( ३|१|१४३ ) इत्यप्

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548