Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 464
________________ अमरकोषः । ४५६ । । 'कुणपः' इति पाठः । 'कुणपः पूतिगन्धौ शवेऽपि च ' ( इति मेदिनी) ॥ (१) ॥*॥ क्षुरति । 'क्षुर विलेखने' ( तु० प० से० ) । ' इगुपध - ' ( ३।१।१३५ ) इति कः । ' क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे' ( इति मेदिनी ) ॥ (१) ॥* ॥ के दृणाति । 'दृ विदारणे' ( क्या० प० से० ) । पचाद्यच् ( ३।१।१३४) । यद्वा, के दीर्यते । 'ऋदोरम्' ( ३।३।५७) केकरः । संव्यवहारपदार्थश्च । 'तरुभेद:' इत्यन्ये ॥ (१) ॥*॥ पूरयति। ‘पूर पूरणे’ (चु० उ० से० ) । पचाद्यच् ( ३।१1१३४) 'पूरो जलप्रवाहे स्याद्वणसंशुद्धिखाययोः' (इति मेदिनी ) ॥ (१) ॥*॥ क्षुरं प्राति । क्षुरं इव प्राति वा । 'प्रा पूर्ती' (अ० प० अ० ) 'आतोऽनुप -' ( ३।२।३) इति 'सुपि -' ( ३।२।४ ) इति योगविभागाद्वा कः । मुकुटस्तु 'खुरप्रः' इति कवर्गद्वितीयादि पेठति । बाणभेदः ॥ (१) ॥*॥ चक्यतेऽनेन । ‘चक तृप्तौ प्रतिघाते च ' ( भ्वा० प० से० ) ‘चकिचम्योरुच्चोपधायाः' (उ० २।१४ ) इति रक् । 'चुक्रं वृक्षाम्ले, चाङ्गेर्या स्त्री, पुंस्यम्लेऽम्लवेतसे' ( इति मेदिनी ) ॥ (१) ॥*॥ गुड्यते । 'गुड रक्षायाम् ' ( तु० प० से० ) । घञ् ( ३।३।१९) । रलयोरेकत्वम् । 'गोला गोदावरीसख्योः कुनटी दुर्गयोः स्त्रियाम्। पत्राञ्जने मण्डले चालिञ्जरे बालखेलने । द्वैयोलक्ष्म्यां पुमान् कम्पे कम्पयुक्तेऽभिधेयवत् ( इति मेदिनी ) ॥ (१) ॥*॥ हिङ्गुलाति । 'आतोऽनुप - २ (३।२।३) इति कः । 'हिङ्गुलो वर्णकद्रव्ये ना भण्टाक्यां तु हिङ्गुली' ( इति मेदिनी ) ॥ ॥ ('हिङ्गुलु' इति) उदन्तपाठे तु मितद्वादित्वात् ( वा० ३।२।१८०) डुः। मुकुटस्तु 'हिङ्गुलु स्यात्तु हिङ्गुलम्' इति पठति ॥ (१) ॥*॥ ‘पुत्' इति कुत्सायामव्ययम् । पुद्विलति गीर्यते वा । ‘गॄ निगरणे' ( तु० प० से० ) पचाद्यच् ( ३।१।१३४) ‘ऋदोरप्’ (३।३।५७) वा । 'अचि विभाषा' ( ८|२| २१ ) इति वा लः । पुद् गलति वा । 'गल अदने ' ( स्वा० प० से० ) ‘स्रावे’ (चु० आ० से० ) वा । अच् ( ३।१।१३४ ) । ‘पुद्गलः सुन्दराकारे त्रिषु पुंस्यात्मदेहयो:' ( इति मेदिनी ) ॥ । [ तृतीयं काण्डम् वेतालमल्लभल्लाश्च पुरोडाशोऽपि पट्टिशः । कुल्माषो रभसश्चैव सकटाहः पतङ्ग्रहः ॥ २१ ॥ वो वायुरितो गतो यस्मात् स वेतः । वेतमलति । 'अल भूषणादौ ' ( वा० प० से० ) । 'कर्मण्यण्' ( ३।२।१) यद्वा-वे वायौ तालः प्रतिष्ठा यस्य । भूताविष्टः शवः ॥ (१) ॥*॥ महते । 'मह धारणे' ( वा० आ० से ० ) । पचायच् ( ३।१११३४) । मल्यते । घञ् ( ३।३।१९ ) ' मल्लः । च मत्स्यभेदे बलीयसि ' ( इति मेदिनी ) ॥ (१) ॥ ॥ भलते, भव्यते, वा । 'भल परिभाषण हिंसादानेषु' ( भ्वा० आ० से० ) । पचाद्यच् ( ३।१।१३४ ) । घञ् ( ३।३।१९ ) वा । 'भल्लः स्यात्पुंसि भल के, शस्त्रभेदे पुनर्द्वयोः । भल्लातक्यां स्त्रियां भल्ली' (इति मेदिनी ॥ (१) ॥*॥ पुरः प्रथमं दाशन्त्येनम्। 'दाट दाने' ( भ्वा० उ० से० ) । कर्मणि घञ् ( ३।३।१९) । पृषोदरादित्वात् ( ६।३।१०९ ) । ‘व्रीहेश्च पुरोडाशे' (४|३|१४८) इति निर्देशाद्वा दस्य डः । 'पुरोडाशो हविर्भेदे चमस्यां पिष्टकस्य च । रसे सोमलतायाश्च हुतशेषे च कीर्तितः' इति विश्वः ॥ (१) ॥*॥ ' पट्टीः स्त्री पट्टभेदे स्याललाटे कुम्भिकाद्रुमे ' ( इति मेदिनी ) । पट्टि श्यति । 'शो तनूकरणे' (दि० प० अ० ) । ' आतोऽनुप - ' ( ३।२ ३ ) इति कः ॥*॥ ( 'पट्टिसः' इति ) देन्त्यसान्त इति मुकुटः । अत्र 'पोतकर्मणि' (दि ० प० अ० ) धातुर्बोध्यः । शस्त्रभेदः ॥ ( १ ) ॥*॥ कोलनम् । 'कुल संस्त्याने बन्धुषु च ' ( वा०प० से० ) | संपदादिक्विप् ( वा० ३।३।१०८ ) । कुलं मषति । 'भष हिंसायाम् ' ( भ्वा० प० से० ) । 'कर्मण्यण्' ( ३1२1१ ) | 'कुल्माषो यावके प्रोक्तः कुल्माषं काञ्जिकेऽपि च' इति (मूर्धन्यान्ते) विश्वः । ' कुल्माषं काञ्जिके यावके पुमान्' (इति मूर्धन्यान्ते मेदिनी ॥*॥ — धातुपारायणे (‘कुल्मासः' इति ) दन्त्यान्तः । तत्र मसेः ( दैवादिकात् ) घञ् ( ३।३।१९) । कुल्मासो माषादिमिश्रमर्धखिन्नमोदनं 'खिचुडम्' इति ख्यातम् — इति मुकुटः ॥ (१) ॥*॥ रभणम् । रभते अनेन वा। 'रभ राभस्ये' (भ्वा० आ० अ० ) । 'अत्यविचमितमि - ' ( उ० ३।१७७ ) इत्यसच् । 'रभसो वेगहर्षयोः" इति विश्वः ॥ (१) ॥*॥ कटेनातिशयेनाहन्ते गम्यते । 'हन हिंसागत्योः' (अ०प०अ०) 'अन्येभ्योऽपि - ' ( वा० ३।२।१०१) इति ङः । 'कटाहो घृततैलादिपाकपात्रेऽपि कर्परे । स्तूपे कटाहः कूर्मपृष्ठे च महिषीशिशौ' इति विश्वः । 'कटाहः कूर्मकर्परे । द्वीपस्य च प्रभेदे च तथा स्यान्महिषीशिशौ । तैलादिपाकपात्रे च ॥ (१) ॥ ॥ गृह्णाति । 'ग्रह उपादाने ' ( क्या० प० से० ) । पचाद्यच् ( ३।१।१३४) । पततस्ताम्बूलादेर्ग्रहः । 'पीकदान' इति ख्यातः ॥ (१) ॥ * ॥ इति पुंलिङ्गसंग्रहः ॥ १—यथा ‘दशाननक्षिप्तखुरप्रखण्डितः कचिद्भतार्थो हिमदीधितिर्यथा' इति हरविलासः - इति च लिखति ॥ २– 'चल: कम्पे चला श्रियि' इति विश्वसंवादात् मेदिनीपुस्तकेऽपि 'चला लक्ष्म्यां पुमान् कम्पे' इति पाठस्यैवोपलभ्यमानत्वाच्च हैम-विश्वयोरपि गोलशब्दस्य कम्पार्थर्थकताया अनुपलम्भेनात्र 'द्वयोः ' इति पाठकल्पनं स्वोत्प्रेक्षितत्वेन हेयमेव । तस्मात् 'गोलः स्यात्सर्ववर्तुले' - इति हैम एव प्रकृतोपयोगी ॥ ३ – ' वैश्यवर्गे की लिङ्गमुदन्तमदन्तं च पठ्यते' इत्यादिकम् । हेमचन्द्रोऽपि स्वोपज्ञनाममालाव्याख्यायाम् - वाचस्पतिस्तु 'हिङ्गुलस्त्वस्त्रियाम्' इति कीनेऽप्याह -- इत्यभिहितवान् ॥ १ - ' असितोमर कुन्तमहापट्टिस-' इति भट्टिभाषासमावेशात्इति च ॥

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548