________________
अमरकोषः ।
४५६
।
।
'कुणपः' इति पाठः । 'कुणपः पूतिगन्धौ शवेऽपि च ' ( इति मेदिनी) ॥ (१) ॥*॥ क्षुरति । 'क्षुर विलेखने' ( तु० प० से० ) । ' इगुपध - ' ( ३।१।१३५ ) इति कः । ' क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे' ( इति मेदिनी ) ॥ (१) ॥* ॥ के दृणाति । 'दृ विदारणे' ( क्या० प० से० ) । पचाद्यच् ( ३।१।१३४) । यद्वा, के दीर्यते । 'ऋदोरम्' ( ३।३।५७) केकरः । संव्यवहारपदार्थश्च । 'तरुभेद:' इत्यन्ये ॥ (१) ॥*॥ पूरयति। ‘पूर पूरणे’ (चु० उ० से० ) । पचाद्यच् ( ३।१1१३४) 'पूरो जलप्रवाहे स्याद्वणसंशुद्धिखाययोः' (इति मेदिनी ) ॥ (१) ॥*॥ क्षुरं प्राति । क्षुरं इव प्राति वा । 'प्रा पूर्ती' (अ० प० अ० ) 'आतोऽनुप -' ( ३।२।३) इति 'सुपि -' ( ३।२।४ ) इति योगविभागाद्वा कः । मुकुटस्तु 'खुरप्रः' इति कवर्गद्वितीयादि पेठति । बाणभेदः ॥ (१) ॥*॥ चक्यतेऽनेन । ‘चक तृप्तौ प्रतिघाते च ' ( भ्वा० प० से० ) ‘चकिचम्योरुच्चोपधायाः' (उ० २।१४ ) इति रक् । 'चुक्रं वृक्षाम्ले, चाङ्गेर्या स्त्री, पुंस्यम्लेऽम्लवेतसे' ( इति मेदिनी ) ॥ (१) ॥*॥ गुड्यते । 'गुड रक्षायाम् ' ( तु० प० से० ) । घञ् ( ३।३।१९) । रलयोरेकत्वम् । 'गोला गोदावरीसख्योः कुनटी दुर्गयोः स्त्रियाम्। पत्राञ्जने मण्डले चालिञ्जरे बालखेलने । द्वैयोलक्ष्म्यां पुमान् कम्पे कम्पयुक्तेऽभिधेयवत् ( इति मेदिनी ) ॥ (१) ॥*॥ हिङ्गुलाति । 'आतोऽनुप - २ (३।२।३) इति कः । 'हिङ्गुलो वर्णकद्रव्ये ना भण्टाक्यां तु हिङ्गुली' ( इति मेदिनी ) ॥ ॥ ('हिङ्गुलु' इति) उदन्तपाठे तु मितद्वादित्वात् ( वा० ३।२।१८०) डुः। मुकुटस्तु 'हिङ्गुलु स्यात्तु हिङ्गुलम्' इति पठति ॥ (१) ॥*॥ ‘पुत्' इति कुत्सायामव्ययम् । पुद्विलति गीर्यते वा । ‘गॄ निगरणे' ( तु० प० से० ) पचाद्यच् ( ३।१।१३४) ‘ऋदोरप्’ (३।३।५७) वा । 'अचि विभाषा' ( ८|२| २१ ) इति वा लः । पुद् गलति वा । 'गल अदने ' ( स्वा० प० से० ) ‘स्रावे’ (चु० आ० से० ) वा । अच् ( ३।१।१३४ ) । ‘पुद्गलः सुन्दराकारे त्रिषु पुंस्यात्मदेहयो:' ( इति मेदिनी ) ॥
।
[ तृतीयं काण्डम्
वेतालमल्लभल्लाश्च पुरोडाशोऽपि पट्टिशः । कुल्माषो रभसश्चैव सकटाहः पतङ्ग्रहः ॥ २१ ॥ वो वायुरितो गतो यस्मात् स वेतः । वेतमलति । 'अल भूषणादौ ' ( वा० प० से० ) । 'कर्मण्यण्' ( ३।२।१) यद्वा-वे वायौ तालः प्रतिष्ठा यस्य । भूताविष्टः शवः ॥ (१) ॥*॥ महते । 'मह धारणे' ( वा० आ० से ० ) । पचायच् ( ३।१११३४) । मल्यते । घञ् ( ३।३।१९ ) ' मल्लः । च मत्स्यभेदे बलीयसि ' ( इति मेदिनी ) ॥ (१) ॥ ॥ भलते, भव्यते, वा । 'भल परिभाषण हिंसादानेषु' ( भ्वा० आ० से० ) । पचाद्यच् ( ३।१।१३४ ) । घञ् ( ३।३।१९ ) वा । 'भल्लः स्यात्पुंसि भल के, शस्त्रभेदे पुनर्द्वयोः । भल्लातक्यां स्त्रियां भल्ली' (इति मेदिनी ॥ (१) ॥*॥ पुरः प्रथमं दाशन्त्येनम्। 'दाट दाने' ( भ्वा० उ० से० ) । कर्मणि घञ् ( ३।३।१९) । पृषोदरादित्वात् ( ६।३।१०९ ) । ‘व्रीहेश्च पुरोडाशे' (४|३|१४८) इति निर्देशाद्वा दस्य डः । 'पुरोडाशो हविर्भेदे चमस्यां पिष्टकस्य च । रसे सोमलतायाश्च हुतशेषे च कीर्तितः' इति विश्वः ॥ (१) ॥*॥ ' पट्टीः स्त्री पट्टभेदे स्याललाटे कुम्भिकाद्रुमे ' ( इति मेदिनी ) । पट्टि श्यति । 'शो तनूकरणे' (दि० प० अ० ) । ' आतोऽनुप - ' ( ३।२ ३ ) इति कः ॥*॥ ( 'पट्टिसः' इति ) देन्त्यसान्त इति मुकुटः । अत्र 'पोतकर्मणि' (दि ० प० अ० ) धातुर्बोध्यः । शस्त्रभेदः ॥ ( १ ) ॥*॥ कोलनम् । 'कुल संस्त्याने बन्धुषु च ' ( वा०प० से० ) | संपदादिक्विप् ( वा० ३।३।१०८ ) । कुलं मषति । 'भष हिंसायाम् ' ( भ्वा० प० से० ) । 'कर्मण्यण्' ( ३1२1१ ) | 'कुल्माषो यावके प्रोक्तः कुल्माषं काञ्जिकेऽपि च' इति (मूर्धन्यान्ते) विश्वः । ' कुल्माषं काञ्जिके यावके पुमान्' (इति मूर्धन्यान्ते मेदिनी ॥*॥ — धातुपारायणे (‘कुल्मासः' इति ) दन्त्यान्तः । तत्र मसेः ( दैवादिकात् ) घञ् ( ३।३।१९) । कुल्मासो माषादिमिश्रमर्धखिन्नमोदनं 'खिचुडम्' इति ख्यातम् — इति मुकुटः ॥ (१) ॥*॥ रभणम् । रभते अनेन वा। 'रभ राभस्ये' (भ्वा० आ० अ० ) । 'अत्यविचमितमि - ' ( उ० ३।१७७ ) इत्यसच् । 'रभसो वेगहर्षयोः" इति विश्वः ॥ (१) ॥*॥ कटेनातिशयेनाहन्ते गम्यते । 'हन हिंसागत्योः' (अ०प०अ०) 'अन्येभ्योऽपि - ' ( वा० ३।२।१०१) इति ङः । 'कटाहो घृततैलादिपाकपात्रेऽपि कर्परे । स्तूपे कटाहः कूर्मपृष्ठे च महिषीशिशौ' इति विश्वः । 'कटाहः कूर्मकर्परे । द्वीपस्य च प्रभेदे च तथा स्यान्महिषीशिशौ । तैलादिपाकपात्रे च ॥ (१) ॥ ॥ गृह्णाति । 'ग्रह उपादाने ' ( क्या० प० से० ) । पचाद्यच् ( ३।१।१३४) । पततस्ताम्बूलादेर्ग्रहः । 'पीकदान' इति ख्यातः ॥ (१) ॥ * ॥
इति पुंलिङ्गसंग्रहः ॥
१—यथा ‘दशाननक्षिप्तखुरप्रखण्डितः कचिद्भतार्थो हिमदीधितिर्यथा' इति हरविलासः - इति च लिखति ॥ २– 'चल: कम्पे चला श्रियि' इति विश्वसंवादात् मेदिनीपुस्तकेऽपि 'चला लक्ष्म्यां पुमान् कम्पे' इति पाठस्यैवोपलभ्यमानत्वाच्च हैम-विश्वयोरपि गोलशब्दस्य कम्पार्थर्थकताया अनुपलम्भेनात्र 'द्वयोः ' इति पाठकल्पनं स्वोत्प्रेक्षितत्वेन हेयमेव । तस्मात् 'गोलः स्यात्सर्ववर्तुले' - इति हैम एव प्रकृतोपयोगी ॥ ३ – ' वैश्यवर्गे की लिङ्गमुदन्तमदन्तं च पठ्यते' इत्यादिकम् । हेमचन्द्रोऽपि स्वोपज्ञनाममालाव्याख्यायाम् - वाचस्पतिस्तु 'हिङ्गुलस्त्वस्त्रियाम्' इति कीनेऽप्याह -- इत्यभिहितवान् ॥
१ - ' असितोमर कुन्तमहापट्टिस-' इति भट्टिभाषासमावेशात्इति च ॥