SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ लिङ्गादिसंग्रह वर्ग: ५ ] आ० से० ) वा । 'बाहुलकादारन गुणश्च ।' 'कोट्टारो नागरे कूपे पुष्करिण्याश्च पाटके' इति रभसः ॥ (१) ॥*॥ घट्टयतेऽस्मिन् । 'घट्ट चलने' (भ्वा० आ० से० ) । 'हल' (३|३|१२१ ) इति घञ् । 'घाट' इति प्रसिद्धः ॥ (१) ॥*॥ केचित्तु 'कोट' 'अरघट्ट' इति छित्त्वा 'कोट्टो दुर्गपुरम् । अरघट्टः कूपभेदः' इति व्याचख्युः । तत्र कुट्टधातोर्घे बाहुलका - गुणः । अरैथकावयवसदृशैः काष्ठविशेषैर्घयते रच्यते - अरघट्टः । कूपाजलनिःसारणार्थं घटीयन्त्रमित्यन्ये ॥ (१) ॥ *॥ हटन्त्यत्र । 'हट दीप्तौ ' ( भ्वा० प० से० ) । बाहुलकात्तः । हट्टः=आपणः ॥ (१) ॥*॥ पिण्ड्यते, पिण्डते वा । 'पिडि संघाते' | ( भ्वा० आ० से० ) । पचाद्यच् ( ३।१।१३४ ) । घञ् | ( ३।३।१९ ) वा । ' पिण्डो वोले बले सान्द्रे देहागारै कदेशयोः । देहमात्रे निवापे च गोलसिहकयोरपि । ओण्डपुष्पे च पुंसि स्याक्लीबमाजीवनायसोः । पिण्डी तु पिण्डतगरेऽलाबूखर्जूरभेदयोः' ( इति मेदिनी ) ॥ (१) ॥*॥ गोरण्ड इव । ‘गोण्डः पामरजातौ च वृद्धनाभौ च तद्वति' (इति मेदिनी) ॥ (१)॥*॥ अपि चण्डते, अनेन, अत्र वा । 'चडि कोपे' (भ्वा० प० से० ) । ‘हलव' ( ३।३।१२१ ) इति घञ् ‘वष्टि भागुरि—’ इत्यपेरल्लोपः । ‘शस्ते, पिचण्ड उदरे पशो. रवयवे पुमान्' (इति मेदिनी)। शैस्ते = देहे ॥ (१) ॥*॥ ' - पिच ण्डवत् कोट्टारादयः पुंसि' इत्यन्वयः ॥*॥ गति, गड्यते वा | ‘गड सेचने' (भ्वा० प० से० ) । बाहुलकादुः । 'गडुः पृष्ठगुडे कुब्जे' इति विश्वः ॥ (१) ॥*॥ क्रियते । 'डुकृञ्' (त० उ० अ०) ‘अण्डन् कृसृभृवृञः' (उ० १।१२९) 'करण्डो मधुकोषा सिकारण्डवदलाढके' ( इति मेदिनी ) ॥ (१) ॥*॥ लगति । ‘लगे सङ्गे' (भ्वा० प० से० ) । बाहुलकादुडच् लगुडः=यष्टिः ॥ (१) ॥*॥ वृणोति, व्रियते वा । 'वृज् वरणे' ( खा० उ० से ० ) । अण्डन् ( उ० १।१२९) । ' वरण्डोऽप्यन्तरावेदौ समूहमुखरोगयोः' ( इति मेदिनी ) ॥ (१) ॥*॥ कणति। ‘कण गतौ' (भ्वा० प० से० ) । पचाद्यच् (३।१।१३४ ) । पृषोदरादित्वात् (६।३।१०९ ) अत इ: । किणः = मांसग्रन्थिः, । । व्याख्यासुधाख्यव्याख्यासमेतः । चिह्नं च ॥ (१) ॥*॥ घोणते । 'घुण भ्रमणे' । ( भ्वा० आ० से० ) । ‘इगुपध-' ( ३।१।१३५ ) इति कः । 'घुणः स्यात्काष्ठवेधके' इति रत्नकोषः ॥ १- कोट्टः पुंक्कीबलिङ्ग:-' इत्यभिधानचिन्तामणौ हैमः । २ - 'प्रकाण्डो विटपे शस्ते मूलस्कन्धान्तरे तरोः' 'पिच षडमुदरे विद्यात्पशोरवयवेऽपि च' इति विश्वस्य, 'प्रकाण्डः स्तम्बशस्तयोः । स्कन्धमूलान्तरे तरोः ' ' पिचण्डोऽवयवे पशोः । उदरे च' इति हैमस्य च संवादात् 'नानार्थः प्रथमान्तोऽत्र, सर्वश्रादौ प्रकीर्तितः' इति मेदिनीकारप्रतिज्ञाभङ्गभयाच्च 'शस्ते' इत्यस्य प्रकाण्डशब्दार्थत्वेनात्र तस्य व्याख्यानमशानमूलम् ॥ ४५५ हतिसीमन्तहरितो रोमन्थोद्गीथबुद्बुदाः । कासमर्दोऽर्बुदः कुन्दः फेनस्तूपौ सपूपकौ ॥ १९ ॥ द्रियते । 'दृव् आदरे' ( तु० आ० अ० ) । क्तिच् ( ३।३११७४) 'दृतिश्चर्मपुटे मत्स्ये ना' ( इति मेदिनी ) ॥ (१) ॥*॥ सीनोऽन्तः । शकन्ध्वादिः ( वा० ६।१।९४) । केशविन्यासः ॥ (१) ॥*॥ हरति, ह्रियते वा । 'हृञ् हरणे' (भ्वा० उ० अ० ) । 'हस्ररुहि - ' ( उ० १।९७ ) इतीतिः । 'हरिद्दिशि स्त्रियां पुंसि हयवर्णविशेषयोः । अस्त्रियां स्यात्तृणे च' ( इति मेदिनी ) ॥ (१) ॥*॥ रोमस्य मन्थो रोमन्थः । पृषोदरादिः । ( ६ |३|१०९ ) । पशूनां चर्वितस्य चर्वणम् ॥ (१) ॥*॥ उद्गीयते । 'गै शब्दे' (स्वा० प० अ० ) । 'गचोदि - ' ( उ० २।१० ) इति थक् । यत्तु - 'न्युदोः शीङ्गाभ्याम्' इति सूत्रं मुकुटेनोपन्यस्तम् । तदुज्वलदत्ताद्युणादिवृत्तिषु न पश्यामः । 'उद्गीथः प्रणवः सामवेदध्वनिः' इत्यरुणः ॥ (१) ॥*॥ 'वुद्' इत्यव्यक्तध्वनिं बुन्दति करोति । 'उबुन्दिर् निशामने' (भ्वा० उ० से० ) । मूलविभुजादित्वात् ( वा० ३।२।५ ) कः । बुद्बुदः =जलविकारः ॥ (१) ॥*॥ कासं मृहाति । 'मृद क्षोदे' ( क्या० प० से० ) । 'कर्मण्यण्' (३।२।१) । वेसवारभेदः ॥ (१) ॥*॥ अरं बुन्दति । 'उबुन्दिर्' (भ्वा० प० से० ) मूलविभुजादिः ( वा० ३।२२५) । पृषोदरादिः (६।३।१०९) पुरुषे दशकोटिषु । महीधरविशेषे ना' ( इति मेदिनी ) ॥*॥ 'अर्बुदो मांसकीलेsस्त्री 'अर्दनिः' इति पठित्वा 'अग्निः' इति व्याख्यत् मुकुटः । तत्र 'अर्द गतौ' ( भ्वा० प० से० ) । अनिप्रत्ययः ॥ ( ॥*॥ स्कुन्दते । 'स्कुदि आप्रवणे' (भ्वा० आ० से० ) पचाद्यच् (३।१।१३४ ) । पृषोदरादिः (६।३।१०९) । 'कुन्दो माध्येऽस्त्री, मुकुन्दभ्रमिनिध्यन्तरेषु ना' ( इति मेदिनी ) ॥ (१) ॥*॥ स्फायते । 'स्फायी वृद्धौ' ( वा० आ० से० ) । 'फेनमीनौ' (उ० ३।३ ) इति साधुः ॥ (१) ॥*॥ स्तूयते । 'टुञ् स्तुतौ' (अ० उ० अ० ) । 'स्तुवो दीर्घश्च' ( उ० ३।२५ ) इति पः । स्तूप्यते वा । 'प समुच्छ्राये' ( चु० प० से० ) । घञ् ॥ — घृतादिकृतकूटः - इति मुकुटः ॥ (१) ॥*॥ पुनाति, पूयते वा । बाहुलकात्पक् ॥*॥ स्वामी तु - 'यूप' - शब्दं पठति । यौति, यूयते वा । 'यु मिश्रणेऽमिश्रणे च (अ० प० से० ) 'कुयुभ्यां च' (उ० ३।२७) इति दीर्घः किन्छ। स्वार्थे कन् ( ज्ञा० ५/४१५ ) ॥ आतपः क्षत्रिये नाभिः कणपक्षुरकेदराः । पूरक्षुरप्रचुक्राश्च गोलहिङ्गुलपुद्गलाः ॥ २० ॥ आतपति । 'तप संतापे' ( भ्वा० प० अ० ) । पचाद्यच् (३।१।१३४) ॥ (१) ॥ ॥ कणं पाति, पिबति वा । 'आत ऽनुप - ' ( ३ |२| ३ ) इति कः । ( प्रासविशेषः) ॥*॥ क्वचित् १ - ' अर्बुदो मांसपरुषि दशकोटिषु न स्त्रियाम् । इति बहुत्र पाठ आसीत् ॥ २ - धातुपाठादिषु तु हस्वोपध एवोपलभ्यते ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy