Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
लिङ्गादिसंग्रह वर्ग: ५ ]
आ० से० ) वा । 'बाहुलकादारन गुणश्च ।' 'कोट्टारो नागरे कूपे पुष्करिण्याश्च पाटके' इति रभसः ॥ (१) ॥*॥ घट्टयतेऽस्मिन् । 'घट्ट चलने' (भ्वा० आ० से० ) । 'हल' (३|३|१२१ ) इति घञ् । 'घाट' इति प्रसिद्धः ॥ (१) ॥*॥ केचित्तु 'कोट' 'अरघट्ट' इति छित्त्वा 'कोट्टो दुर्गपुरम् । अरघट्टः कूपभेदः' इति व्याचख्युः । तत्र कुट्टधातोर्घे बाहुलका - गुणः । अरैथकावयवसदृशैः काष्ठविशेषैर्घयते रच्यते - अरघट्टः । कूपाजलनिःसारणार्थं घटीयन्त्रमित्यन्ये ॥ (१) ॥ *॥ हटन्त्यत्र । 'हट दीप्तौ ' ( भ्वा० प० से० ) । बाहुलकात्तः । हट्टः=आपणः ॥ (१) ॥*॥ पिण्ड्यते, पिण्डते वा । 'पिडि संघाते' | ( भ्वा० आ० से० ) । पचाद्यच् ( ३।१।१३४ ) । घञ् | ( ३।३।१९ ) वा । ' पिण्डो वोले बले सान्द्रे देहागारै कदेशयोः । देहमात्रे निवापे च गोलसिहकयोरपि । ओण्डपुष्पे च पुंसि स्याक्लीबमाजीवनायसोः । पिण्डी तु पिण्डतगरेऽलाबूखर्जूरभेदयोः' ( इति मेदिनी ) ॥ (१) ॥*॥ गोरण्ड इव । ‘गोण्डः पामरजातौ च वृद्धनाभौ च तद्वति' (इति मेदिनी) ॥ (१)॥*॥ अपि चण्डते, अनेन, अत्र वा । 'चडि कोपे' (भ्वा० प० से० ) । ‘हलव' ( ३।३।१२१ ) इति घञ् ‘वष्टि भागुरि—’ इत्यपेरल्लोपः । ‘शस्ते, पिचण्ड उदरे पशो. रवयवे पुमान्' (इति मेदिनी)। शैस्ते = देहे ॥ (१) ॥*॥ ' - पिच ण्डवत् कोट्टारादयः पुंसि' इत्यन्वयः ॥*॥ गति, गड्यते वा | ‘गड सेचने' (भ्वा० प० से० ) । बाहुलकादुः । 'गडुः पृष्ठगुडे कुब्जे' इति विश्वः ॥ (१) ॥*॥ क्रियते । 'डुकृञ्' (त० उ० अ०) ‘अण्डन् कृसृभृवृञः' (उ० १।१२९) 'करण्डो मधुकोषा सिकारण्डवदलाढके' ( इति मेदिनी ) ॥ (१) ॥*॥ लगति । ‘लगे सङ्गे' (भ्वा० प० से० ) । बाहुलकादुडच् लगुडः=यष्टिः ॥ (१) ॥*॥ वृणोति, व्रियते वा । 'वृज् वरणे' ( खा० उ० से ० ) । अण्डन् ( उ० १।१२९) । ' वरण्डोऽप्यन्तरावेदौ समूहमुखरोगयोः' ( इति मेदिनी ) ॥ (१) ॥*॥ कणति। ‘कण गतौ' (भ्वा० प० से० ) । पचाद्यच् (३।१।१३४ ) । पृषोदरादित्वात् (६।३।१०९ ) अत इ: । किणः = मांसग्रन्थिः,
।
।
व्याख्यासुधाख्यव्याख्यासमेतः ।
चिह्नं च ॥ (१) ॥*॥ घोणते । 'घुण भ्रमणे' । ( भ्वा० आ० से० ) । ‘इगुपध-' ( ३।१।१३५ ) इति कः । 'घुणः स्यात्काष्ठवेधके' इति रत्नकोषः ॥
१- कोट्टः पुंक्कीबलिङ्ग:-' इत्यभिधानचिन्तामणौ हैमः । २ - 'प्रकाण्डो विटपे शस्ते मूलस्कन्धान्तरे तरोः' 'पिच षडमुदरे विद्यात्पशोरवयवेऽपि च' इति विश्वस्य, 'प्रकाण्डः स्तम्बशस्तयोः । स्कन्धमूलान्तरे तरोः ' ' पिचण्डोऽवयवे पशोः । उदरे च' इति हैमस्य च संवादात् 'नानार्थः प्रथमान्तोऽत्र, सर्वश्रादौ प्रकीर्तितः' इति मेदिनीकारप्रतिज्ञाभङ्गभयाच्च 'शस्ते' इत्यस्य प्रकाण्डशब्दार्थत्वेनात्र तस्य व्याख्यानमशानमूलम् ॥
४५५
हतिसीमन्तहरितो रोमन्थोद्गीथबुद्बुदाः । कासमर्दोऽर्बुदः कुन्दः फेनस्तूपौ सपूपकौ ॥ १९ ॥ द्रियते । 'दृव् आदरे' ( तु० आ० अ० ) । क्तिच् ( ३।३११७४) 'दृतिश्चर्मपुटे मत्स्ये ना' ( इति मेदिनी ) ॥ (१) ॥*॥ सीनोऽन्तः । शकन्ध्वादिः ( वा० ६।१।९४) । केशविन्यासः ॥ (१) ॥*॥ हरति, ह्रियते वा । 'हृञ् हरणे' (भ्वा० उ० अ० ) । 'हस्ररुहि - ' ( उ० १।९७ ) इतीतिः । 'हरिद्दिशि स्त्रियां पुंसि हयवर्णविशेषयोः । अस्त्रियां स्यात्तृणे च' ( इति मेदिनी ) ॥ (१) ॥*॥ रोमस्य मन्थो रोमन्थः । पृषोदरादिः । ( ६ |३|१०९ ) । पशूनां चर्वितस्य चर्वणम् ॥ (१) ॥*॥ उद्गीयते । 'गै शब्दे' (स्वा० प० अ० ) । 'गचोदि - ' ( उ० २।१० ) इति थक् । यत्तु - 'न्युदोः शीङ्गाभ्याम्' इति सूत्रं मुकुटेनोपन्यस्तम् । तदुज्वलदत्ताद्युणादिवृत्तिषु न पश्यामः । 'उद्गीथः प्रणवः सामवेदध्वनिः' इत्यरुणः ॥ (१) ॥*॥ 'वुद्' इत्यव्यक्तध्वनिं बुन्दति करोति । 'उबुन्दिर् निशामने' (भ्वा० उ० से० ) । मूलविभुजादित्वात् ( वा० ३।२।५ ) कः । बुद्बुदः =जलविकारः ॥ (१) ॥*॥ कासं मृहाति । 'मृद क्षोदे' ( क्या० प० से० ) । 'कर्मण्यण्' (३।२।१) । वेसवारभेदः ॥ (१) ॥*॥ अरं बुन्दति । 'उबुन्दिर्' (भ्वा० प० से० ) मूलविभुजादिः ( वा० ३।२२५) । पृषोदरादिः (६।३।१०९) पुरुषे दशकोटिषु । महीधरविशेषे ना' ( इति मेदिनी ) ॥*॥ 'अर्बुदो मांसकीलेsस्त्री 'अर्दनिः' इति पठित्वा 'अग्निः' इति व्याख्यत् मुकुटः । तत्र 'अर्द गतौ' ( भ्वा० प० से० ) । अनिप्रत्ययः ॥ ( ॥*॥ स्कुन्दते । 'स्कुदि आप्रवणे' (भ्वा० आ० से० ) पचाद्यच् (३।१।१३४ ) । पृषोदरादिः (६।३।१०९) । 'कुन्दो माध्येऽस्त्री, मुकुन्दभ्रमिनिध्यन्तरेषु ना' ( इति मेदिनी ) ॥ (१) ॥*॥ स्फायते । 'स्फायी वृद्धौ' ( वा० आ० से० ) । 'फेनमीनौ' (उ० ३।३ ) इति साधुः ॥ (१) ॥*॥ स्तूयते । 'टुञ् स्तुतौ' (अ० उ० अ० ) । 'स्तुवो दीर्घश्च' ( उ० ३।२५ ) इति पः । स्तूप्यते वा । 'प समुच्छ्राये' ( चु० प० से० ) । घञ् ॥ — घृतादिकृतकूटः - इति मुकुटः ॥ (१) ॥*॥ पुनाति, पूयते वा । बाहुलकात्पक् ॥*॥ स्वामी तु - 'यूप' - शब्दं पठति । यौति, यूयते वा । 'यु मिश्रणेऽमिश्रणे च (अ० प० से० ) 'कुयुभ्यां च' (उ० ३।२७) इति दीर्घः किन्छ। स्वार्थे कन् ( ज्ञा० ५/४१५ ) ॥
आतपः क्षत्रिये नाभिः कणपक्षुरकेदराः । पूरक्षुरप्रचुक्राश्च गोलहिङ्गुलपुद्गलाः ॥ २० ॥
आतपति । 'तप संतापे' ( भ्वा० प० अ० ) । पचाद्यच् (३।१।१३४) ॥ (१) ॥ ॥ कणं पाति, पिबति वा । 'आत ऽनुप - ' ( ३ |२| ३ ) इति कः । ( प्रासविशेषः) ॥*॥ क्वचित्
१ - ' अर्बुदो मांसपरुषि दशकोटिषु न स्त्रियाम् । इति बहुत्र पाठ आसीत् ॥ २ - धातुपाठादिषु तु हस्वोपध एवोपलभ्यते ॥

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548