SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ नानार्थवर्ग : ३ ] ओकः सद्माश्रयचौकाः । उच्यति समवैत्यत्र। ‘उच समवाये' ( दि० प० से० ) असुन् ( उ० ४।१८९)। न्यङ्कादिः ( ७|३|५३ ) । 'ओक उचः के' (७|३|६४ ) इति निपातनाददन्तोऽपि । 'ओका आश्रयमात्रे च मन्दिरे च नपुंसकम् ' ( इति मेदिनी ) ॥ पयः क्षीरं पयोऽम्बु च । पीयते । 'पीड् पाने' ( दि० आ० अ० ) । पयते वा ‘पय गतौ’ (भ्वा० आ० से०) । वा असुन् ( उ० ४।१८९ ) ॥ ओजो दीप्तौ बले । अतिशयित ऊरुर्वरो वा । 'द्विवचन - ' ( ५।३।५७ ) इतीयउब्जति, अनेन वा । 'उब्ज आर्जवे' ( तु० प० से० ) । सुनि 'प्रियस्थिर - ' ( ६।४।१५७ ) इत्यूरोर्वरादेशः 'वरीयान् ‘उब्जेर्जले बलोपश्च’ (उ० ४।१९२ ) इत्यसुन् । 'ओजोनोजः | योगभिच्छ्रेष्ठवरिष्ठेष्वतियूनि च' (इति मेदिनी ) ॥ समः पादो - ' ' ओजो दीप्ताच्वष्टम्भे प्रकाशबलयोरपि' ( इति मेदिनी ) । पृषोदरादित्वं मुकुटोक्तं चिन्त्यम् ॥ स्रोत इन्द्रिये निम्नगारये ॥२३३॥ स्रवति । 'स्रु गतौ' (भ्वा० प० अ० ) । (खुरीभ्यां तुद च' (उ० ४।२०२) इत्यसुन् । 'स्रोतोऽम्बुवेग इन्द्रिये' (इति मेदिनी ) ॥ तेजः प्रभावे दीप्तौ च बले शुक्रेऽपि तेजयति, तेज्यतेऽनेन वा । 'तिज निशाने' ( भ्वा० आ० से० ) । असुन ( उ० ४।१८९ ) । 'तेजो धानि पराक्रमे । ( ' प्रभावरेतसोश्च' ) इति विश्वः । 'तेजो दीप्तौ प्रभावे च स्यात्पराक्रमरेतसोः' ( इति मेदिनी ) । चादसहने । 'अधिक्षेपावमानादेः प्रत्युक्तस्य परेण यत् । प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतम्' इति भरतः ॥ अतस्त्रिषु । व्याख्यासुधाख्यव्याख्यासमेतः । वक्ष्यमाणाः सान्तास्त्रिलिङ्गाः ॥ विद्वान् विश्व वेत्ति । 'विद ज्ञाने' ( अ० प० से० ) । 'विदेः शतुर्वसुः " (७।१।३६) वा। 'विद्वानात्मविदि प्राज्ञे पण्डिते चाभिधेय - वत्' इति विश्वः । विदन् = पण्डितः ॥ बभत्सो हिंस्रोऽपि बीभत्सते, बीभत्स्यते, अनेन वा । 'बध बन्धने' (भ्वा० आ० से० ) । ‘मान्वध-' ( ३।१।६ ) इति सन्नभ्यासदीर्घश्व । पचाद्यच् (३।१।१३४) । घञ् ( ३।३।१९ ) । घः ( ३।३।११८) वा। ‘बीभत्सो विकृते पार्थे क्रूरे पापघृणात्मनोः' इत्यजयः ॥ अतिशये त्वमी ॥२३४॥ वक्ष्यमाणाश्चत्वारः ॥ वृद्धप्रशस्ययोर्ज्यायान् ४३९ १ - विषमसंख्यावाची स्वोजोऽदन्तोऽपि - इति स्वामि-मुकुटपीयूषेषु व्यक्तम् । तत्रोदाहरणमिदम् । इतीयसुनि 'ज्य च' (५।३।६१ ) इति 'वृद्धस्य च' (५।३।६२) इति वृद्धप्रशस्ययोर्थ्यादेशः । ' ज्यादादीयसः' ( ६।४।१६० ) इत्यात्त्वम् । 'ज्यायान्वृद्धे प्रशस्ये च' ( इति हैमः ) ॥ कनीयांस्तु युवाल्पयोः । अतिशयितो युवाऽल्पो वा । 'युवापयोः कनन्यतरस्याम्' ( ५|३|६४ ) इतीयसुनि कन्नादेशः । ' कनीयानतियूनि स्यादत्यल्पानुजयोस्त्रिषु' ( इति मेदिनी ) ॥ वरीयांस्तूरुवरयोः साधीयान् साधुवाढयोः ॥ २३५॥ अतिशयितः साधुर्बाडो वा । ईयसुनि 'अन्तिकबाढ्योः -' इति बाढशब्दस्य साधादेशः ॥ इति सान्ताः ॥ दलेsपि बर्हम् दले= पत्रे । बर्हति । 'बृह वृद्धी' (भ्वा० प० से ० ) । पचाद्यच् ( ३।१।१३४) । वर्त्यते वा । 'वर्ह हिंसायाम् (भ्वा० आ० से० ) । घञ् ( ३।३।१९ ) । 'बर्ह पिच्छे दलेऽस्त्रियाम्' ( इति मेदिनी ) ॥ निर्बन्धोपरागादयो ग्रहाः । ग्रहणम् । गृह्णाति वा । 'ग्रह उपादाने' (क्या ० प० से०) । 'ग्रहवृदृ-' ( ३।३।५८) इत्यप् । 'विभाषा ग्रहः ' ( ३।१।१४३ ) इति पक्षे अच् । 'ग्रहोऽनुग्रहनिर्बन्धग्रहणेषु रणोद्यमे । सूर्यादौ पूतनादौ च सैंहिकेयोपरागयोः' इति विश्वः ॥ द्वार्यापीडे क्वाथर से निर्यूहो नागदन्तके ॥ २३६ ॥ आपीडे = शिरोभूषणे । क्वाथरसे=क्कथितद्रव्यरसे । नागदन्तके= भित्तिस्थकीलके । निर्यूहति 'यूहि' लौकिको साधुः । ' इगुपध- ' ( ३।१।१३५ ) इति कः । निरूहति वा । पृषोदरादित्वात् ६।३।१०९ ) धातोर्यडागमः । 'निर्यूहः शेखरे द्वारे निर्यासे नागदन्तके' इति विश्वः ॥ ( तुलासूत्रे ऽश्वादिरइमौ प्रग्राहः प्रग्रहोऽपि च । इति वा घञ् । ( 'प्रग्राहः स्यात्तुलासूत्रे वृषादीनां च बन्धने' प्रगृह्यते । ‘प्रे वणिजाम्” (३।३।५२) 'रश्मौ च' (३।३।५३) इति हैमः ) । पक्षे 'प्रहवृह - ( ३।३।५८) इत्यप् । 'प्रग्रहस्तु तुलासूत्रे वन्द्यां नियमने भुजे । हयादिरश्मौ रश्मौ च सुवर्णहलिपादपे ' इति विश्वः ॥ अतिशयेण वृद्धः प्रशस्यो वा। 'द्विवचन - ' ( ५।३।५७ ) पत्नीपरिजनादानमूलशापाः परिग्रहाः ॥ २३७ ॥ परिगृह्यते । परिग्रहणम्, परिगृह्णाति वा । 'ग्रह - ' ( ३।३।५८ ) इत्यप् । 'विभाषा ग्रहः' ( ३|१|१४३ ) इत्यप्
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy