SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ ४३८ अमरकोषः । हिंसा चौर्यादिकर्म च । हिंसनम् । ‘हिसि हिंसायाम्' (रु० प० से० ) । 'गुरोश्च – ' (३।३।१०३) इत्यः । 'हिंसा चौर्यादिघातयो:' ( इति मेदिनी) चोरस्य कर्म । ब्राह्मणादित्वात् ष्यञ् (५।१।१२४ ) आदिना बन्धनत्रासनताडनादि । चाद्वधोऽपि ॥ । प्रसूरश्वापि प्रसूते । 'घूड् प्रसवे' (अ० आ० से०) । 'सत्सू - ' (३१२६०) इति क्विप् । 'प्रसूरश्वाजनन्योश्च कदलीवीरुधोरपि' इति विश्वः ॥ भूद्यावौ रोदस्यो रोदसी च ते ॥ २२९ ॥ रोदिति सर्वमस्मिन् । 'रुदिर् अश्रुविमोचने' ( अ० प० से० ) । असुन् (उ० ४।१८९) । पक्षे गौरादित्वात् ( ४।१।४१) ङीष् । ‘रोदसी’ इत्यव्ययमप्यस्ति । ' द्यावापृथिव्यौ रोदस्यो रोदसौ रोदसीति च' । विगृहीतयोरप्येते नामनी । 'रोदव रोदसी चापि दिवि भूमौ पृथक् पृथक् । सहप्रयोगेऽप्यनयो रोदः स्यादपि रोदसी' इति विश्वः ॥ ज्वालाभासोर्नपुंस्यर्चिः अर्च्यते। 'अर्च पूजायाम्' (भ्वा० प० से० ) । 'अर्चिशुचि - ' ( उ० २।१०८) इतीसि: । 'अथार्चिर्मयूखशिखयोर्न ना' ( इति मेदिनी ) ॥ ज्योतिर्भद्योतदृष्टिषु । द्योतते, द्योतनं वा, अनेन वा । 'द्युत दीप्तौ' (भ्वा० आ० से०)। ‘द्युतेरिसिन्नादेश्च जः’ (वा० २।१।१० ) । 'ज्योतिरमौ दिवाकरे । पुमान्, नपुंसकं दृष्टौ स्यान्नक्षत्रप्रकाशयोः' (इति मेदिनी ॥ पापापराधयोरागः एति । 'इण् गतौ' (अ० प० अ० ) । 'इण् आग् अपराधे च' ( उ० ४।२१२ ) इत्यसुन् । —आगच्छतीत्यागः - इति स्वाम्युक्तिस्तु चिन्त्या ॥ खगबाल्यादिनोर्वयः ॥ २३० ॥ वयते । 'वय गतौ' (भ्वा० आ० से० ) । वेति । 'वी गत्यादौ' (अ० प० अ० ) । अति वा । 'अ गयादो' (भ्वा० प० से ० ) वा असुन ( उ० ४।१८९ ) ॥ - वातिइति स्वामि- मुकुटोक्तिस्तु चिन्त्या । असुन्युक्तरूपासिद्धेः 'वयः पक्षिणि बाल्यादौ यौवने च नपुंसकम् ' ( इति मेदिनी ) ॥ तेजः पुरीषयोर्वर्चः [ तृतीय काण्डम् हस्तूत्सवतेजसोः । महनम् । मह्यते वा । 'मह पूजायाम् ' ( भ्वा० प० से० ) असुन् ( उ० ४।१८९ ) ॥ रजो गुणे च स्त्रीपुष्पे वर्चते । ‘वर्च दीप्तौ' (भ्वा० आ० से० ) । असुन ( उ० ४।१८९)। 'वर्चो नपुंसकं रूपे विष्ठायामपि तेजसि । चन्द्रस्य तनये' (इति मेदिनी ) ॥ पुंसि जनम् । रज्यतेऽनेन वा । 'रज रागे' (भ्वा० प० अ० ) । असुन ( उ० ४।१८९) । 'असि अके - ' ( वा० ६।४।२४ ) इति नलोपः । 'रजः क्लीबं गुणान्तरे । आर्तवे च परागे च रेणु मात्रेऽपि दृश्यते ' ( इति मेदिनी ) ॥*॥ अदन्तोऽपि । 'रजोऽयं रजसा सार्धं स्त्रीपुष्पगुणधूलिषु' इत्यजयः ॥ राहौ ध्वान्ते गुणे तमः ॥ २३९ ॥ तम्यतेऽनेन । 'तमु ग्लानो ( दि० प० से० ) । असुन् ( उ० ४।१८९) । 'तमो ध्वान्ते गुणे शोके क्लीबं वा ना विधुंतुदे' ( इति मेदिनी ) ॥ छन्दः पद्येऽभिलाषे च चन्दनम् । चन्यतेऽनेन वा । ' चदि आह्रादने दीप्तौ च (भ्वा० प० से ० ) । ' चन्देरादेश्व छः ' ( उ० ४।२१९ ) इत्यसुन् ॥——छन्दति — इति स्वामि- मुकुटोक्तो विग्रहचिन्त्यः । 'छन्दः पये च वेदे च खैराचाराभिलाषयोः’ (इति मेदिनी ) । पद्ये=अनुष्टुवादौ ॥ तपैः कृच्छ्रादिकर्म च । तपनम् । तप्यते अनेन वा । ' तप संतापे' ( भ्वा०प० से०)। असुन् (उ० ४।१८९ ) । ' तपो लोकान्तरेऽपि च । चान्द्रायणादौ घने च पुमाशिशिरमाघयोः' ( इति मेदिनी ) ॥ सहो बलं सहा मार्गः सहते, सह्यते, अनेन, अत्र वा । ' षह मषेणे' (भ्वा० आ० अ०) । असुन् (उ० ४।१८९ ) । 'सहो बले ज्योतिषि च पुंसि हेमन्तमार्गयोः' (इति मेदिनी ) । लिङ्गभेदार्थो द्विः पाठः । एवमग्रेऽपि ॥ नभः खं श्रावणो नभाः ॥ २३२ ॥ नभनम् । नभ्यते अनेन, अत्र वा । 'णभ हिंसायाम् ' (भ्वा० आ० से० ) । असुन (उ० ४।१८९) । ' नभो व्योनि नभा मेघे श्रावणे च पतद्रहे । घ्राणे मृणालसूत्रे वर्षा च नभाः स्मृतः' इति विश्वः ॥ १ - 'महः अदन्तोऽपि ' - इति मुकुटः । 'मही नद्यन्तरे भूमौ मह उत्सवतेजसोः' इति मेदिनी । २ - इत्थं पाठस्तु जनकानु रोधेन । भाष्ये तु 'रजकरजनरजः सु-' इति पाठ उपलभ्यते । ३ - अदन्तोऽपि ग्रीष्मार्थः । यथा – 'तपेन वर्षा: शरदा हिमाग मः - इति स्वामी । ४ – एवं सति पयः क्षीरं पयोऽम्बु च' इत्यये समानलिङ्गस्य द्विपाठो व्यर्थ एव स्यात् । छन्दोऽनुरोधादेवान्यकोशेष्विव बोध्यः ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy