Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 452
________________ ४४४ अमरकोषः । पृथग्विनान्तरेणर्ते हिरुङ् नाना च वर्जने ॥ पर्थयति । 'पृथ प्रक्षेपे' ( चु० प० से० ) । बाहुलेकात् कक् ॥ ॥*॥ 'विनञ्भ्यां नानावौ न सह ' ( ५।२।२७ ) इति निषेधार्थाद्विशब्दान्ना ॥ ( २ ) ॥ ॥ अन्तरेति । इणो णः ॥ (२) ॥*॥ ऋतीयते । 'ऋतिः' सौत्रः । ततः केप्रत्ययः ॥ (४) ॥ * ॥ हिनोति । 'हि गतौ' ( खा० प० अ० । रुकक् प्रत्ययः ॥ (५) ॥*॥ नञो 'विनभ्याम् (५।२।२७) इति माञ् प्रत्ययः ॥ (६) ॥* ॥ षट् 'वर्जने' ॥ यत्तद्यतस्ततो हेती यच्छति । ‘यम उपरमे ' ( भ्वा० प० अ० ) । क्विप् ( ३२।१७८)। 'गमादीनां क्वौ' ( वा० ६।४।४० ) इत्यनुनासिक - लोपः । तुक् (६।१।७५) ॥ (१) ॥*॥ तनोति । 'तनु विस्तारे' (त० उ० से०) । क्विप् (३।२।१७८ ) । अनुनासिकलोपः ( वा० ६।४।४०)। तुक् (६।१।७५) ॥ ( २ ) ॥*॥ यस्मात् तस्मात् यत्तद्भ्याम् 'पञ्चम्यास्तसिल्' (५।३।७ ) । व्यदायत्वम् (७/२१ १०२) ॥ (३) ॥*॥ (४) ॥ *॥ चत्वारि 'हेतौ ' ॥ असाकल्ये तु चिच्चन ॥ ३ ॥ ) 1 चेतति । 'चिती संज्ञाने ' ( वा० प० से ० ) । क्विप् (३1२।१७८) ॥ (१) ॥*॥ चनति 'चन शब्दे' । ( पचाद्यच् (३।१।१३४) ॥ (२) ॥ ॥ 'असकलार्थस्य' ॥ कदाचिज्जातु कदा च चिश्व, अनयोः समाहारः ॥ (१) ॥*॥ जायति । ‘जै क्षये’ ( भ्वा० प० अ० ) । बाहुलकान्तुन् ॥ ( २ ) ॥*॥ द्वे 'कस्मिंश्चित्काले ' ॥ सार्धं तु साकं सत्रा समं सह । ऋध्यति । ‘ऋधु वृद्धौ’ ( दि० प० से० ) । बाहुलकारकम् । सह ऋधं वर्धनम् । 'सहस्य स:' ( ६ |३|१८ ) इति सः ॥ (१) ॥ ॥ सह अकनम् । अम् प्रत्ययः । 'सहस्य - ' ( ६ |३|७८) इति सादेशः । ‘आभीक्ष्ण्ये णमुल् - ' ( ३।४।२२ ) वा ( २ ) ॥*॥ सह त्रायते । क्विप् ( ३।२।७६ ) ॥ ( ३ ) समति । ‘षम वैक्लव्ये’ (भ्वा० प० से ० ) । अम् ॥ (४) ॥ * ॥ सहते। पचाद्यच् (३।१।१३४) ॥ ( ५ ) ॥*॥ 'सर्जेषु'शब्दोऽप्यत्र ॥ * ॥ पञ्च 'सहेत्यर्थे' ॥ ॥ ॥*॥ | १ - इदं च ' प्रथेः कित्संप्रसारणं च' (उ० १ ११७ ) इति सूत्राज्ञानमूलकम् । तत्राप्ययं विशेष: 'उक्तसूत्रमते जान्तत्वम् । भवन्मते कान्तत्वम्' इति ॥ २ - येनतेनादि च । यथा 'वितर गिरमुदारां येन मूकाः पिकाः स्युः - इति स्वामी ॥ ३ - क्रम्प्रत्ययस्य कित्वेन 'ऋधम्' इति प्रयोगस्यैवापाद्यमानत्वेन 'सार्धम्' इति प्रयोगानिष्पत्त्या चिन्त्यमेतत् । तस्मात् 'आभीक्ष्ण्ये णमुल' इति वक्ष्यमाणस्योभयशेषत्वमेव बोध्यम् ॥ ४- तथा च 'सजूः सहार्थे' इति त्रिकाण्डशेषः । आनुकूल्यार्थकं प्राध्वम् प्राध्वनति । 'ध्वन शब्दे' ( भ्वा० प० से० ) डम्प्रत्ययः । 'प्राध्वं तु प्रणते चातिदूरे वर्त्मनि बन्धने ' ॥ (१) ॥*॥ व्यर्थ के तु वृथा मुधा ॥ ४ ॥ [ तृतीयं काण्डम् व्रियते । 'वृङ्' (क्र्या० आ० से० ) । 'वृञ्' ( स्वा० उ० से० ) । थाक् 'वृथा वन्ध्ये निष्कारणे' ( इति मेदिनी ) ॥ (१) ॥*॥ मुह्यति । काप्रत्ययः । पृषोदरादित्वात् ( ६ १३/१०९) हस्य घः ॥ (२) ॥*॥ द्वे 'व्यर्थके' ॥ हो उताहो किमुत विकल्पे किं किमूत च । आहन्ति । डोप्रत्ययः ॥ (१) ॥*॥ उत च आहो च अनयोः समाहारः ॥ ( २ ) ॥*॥ किम् च उत च, अनयोः समाहारः । ( ' किमुतातिशये प्रश्ने विकल्पे च प्रयुज्यते' इति विश्वः) ॥ (३) ॥*॥ कानम् । 'कै शब्दे' ( भ्वा०प० अ० ) । 'कायते डिंमि:' ( उ० ४। २५८ ) ॥ (४) ॥*॥ किम् च उ च । 'किमु संभावनायां स्याद्विम चापि दृश्यते' इति मेदिनी ) ॥ ( ५ ) ॥*॥ ( 'उत प्रश्ने वितर्के च उताप्यर्थविकल्पयोः' इति विश्वः) ॥ ( ६ ) ॥*॥ पदं वितर्कनस्य' ॥ ( तु हि च स्म ह वै पादपूरणे तुदति । डुः (वा० ३।२।१८० ) ॥ (१) ॥*॥ हिनोति । fafe तुगभावः ॥ ( २ ) ॥ * ॥ चनति, चिनोति वा । 'अन्येभ्योऽपि-' (वा० ३।२।१०२ ) इति ड: ॥ (३) ॥*॥ स्मयते। 'स्मिक् ईषद्धसने' ( भ्वा० आ० से० ) । डः ( वा० ३।२।१०१) ॥ (४) ॥*॥ हन्ति । डः ( वा० ३।२।१०१) । ( 'ह स्यात्संबोधने पादपूरणे च विनिग्रहे । नियोगे च क्षिपायां स्यात्कुत्सायामपि दृश्यते' इति मेदिनी ) ॥ ( ५ ) ॥*॥ वाति । डैः ॥ (६) ॥*॥ षट् 'श्लोकचरणपूर्णतायाम्' ॥ पूजने स्वती ॥ ५ ॥ सवति । 'षु गतौ ( प्रसवैश्वर्ययोः ' भ्वा० प० अ० ) । डुः ( वा० ३।२।१८०) । ( 'सु पूजायां भृशार्थेऽनुमति कृच्छ्रसमृद्धिषु इति मेदिनी ) ॥ (१) ॥*॥ अतति । इन् ( उ० ४|११८ ) ॥ (२) ॥*॥ द्वे 'पूजने' ॥ दिवाहीति दीव्यन्त्यत्र । काप्रत्ययः ॥ (१) ॥ * ॥ अहि = दिवसे । इतिना अधिकरणार्थप्रधानतां दर्शयति ॥ अथ दोषा च नक्तं चं रजनाविति । दुष्यन्त्यत्र । 'दुष वैकृत्ये' ( दि० प० अ० ) । आ प्रत्ययः । १ - अहो हस्वादिरपि । 'विकल्पे विस्मयेऽप्यहो' इति रुद्रवचनात् - इति मुकुटः ॥ २ - चकारादुषापि - इति स्वामि-मुकुटौ । 'उषा रात्रौ तदन्ते च' इति मेदिनी ॥

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548