________________
४४४
अमरकोषः ।
पृथग्विनान्तरेणर्ते हिरुङ् नाना च वर्जने ॥
पर्थयति । 'पृथ प्रक्षेपे' ( चु० प० से० ) । बाहुलेकात् कक् ॥ ॥*॥ 'विनञ्भ्यां नानावौ न सह ' ( ५।२।२७ ) इति निषेधार्थाद्विशब्दान्ना ॥ ( २ ) ॥ ॥ अन्तरेति । इणो णः ॥ (२) ॥*॥ ऋतीयते । 'ऋतिः' सौत्रः । ततः केप्रत्ययः ॥ (४) ॥ * ॥ हिनोति । 'हि गतौ' ( खा० प० अ० । रुकक् प्रत्ययः ॥ (५) ॥*॥ नञो 'विनभ्याम् (५।२।२७) इति माञ् प्रत्ययः ॥ (६) ॥* ॥ षट् 'वर्जने' ॥ यत्तद्यतस्ततो हेती
यच्छति । ‘यम उपरमे ' ( भ्वा० प० अ० ) । क्विप् ( ३२।१७८)। 'गमादीनां क्वौ' ( वा० ६।४।४० ) इत्यनुनासिक - लोपः । तुक् (६।१।७५) ॥ (१) ॥*॥ तनोति । 'तनु विस्तारे' (त० उ० से०) । क्विप् (३।२।१७८ ) । अनुनासिकलोपः ( वा० ६।४।४०)। तुक् (६।१।७५) ॥ ( २ ) ॥*॥ यस्मात् तस्मात् यत्तद्भ्याम् 'पञ्चम्यास्तसिल्' (५।३।७ ) । व्यदायत्वम् (७/२१ १०२) ॥ (३) ॥*॥ (४) ॥ *॥ चत्वारि 'हेतौ ' ॥
असाकल्ये तु चिच्चन ॥ ३ ॥
) 1
चेतति । 'चिती संज्ञाने ' ( वा० प० से ० ) । क्विप् (३1२।१७८) ॥ (१) ॥*॥ चनति 'चन शब्दे' । ( पचाद्यच् (३।१।१३४) ॥ (२) ॥ ॥ 'असकलार्थस्य' ॥ कदाचिज्जातु
कदा च चिश्व, अनयोः समाहारः ॥ (१) ॥*॥ जायति । ‘जै क्षये’ ( भ्वा० प० अ० ) । बाहुलकान्तुन् ॥ ( २ ) ॥*॥ द्वे 'कस्मिंश्चित्काले ' ॥
सार्धं तु साकं सत्रा समं सह । ऋध्यति । ‘ऋधु वृद्धौ’ ( दि० प० से० ) । बाहुलकारकम् । सह ऋधं वर्धनम् । 'सहस्य स:' ( ६ |३|१८ ) इति सः ॥ (१) ॥ ॥ सह अकनम् । अम् प्रत्ययः । 'सहस्य - ' ( ६ |३|७८) इति सादेशः । ‘आभीक्ष्ण्ये णमुल् - ' ( ३।४।२२ ) वा ( २ ) ॥*॥ सह त्रायते । क्विप् ( ३।२।७६ ) ॥ ( ३ ) समति । ‘षम वैक्लव्ये’ (भ्वा० प० से ० ) । अम् ॥ (४) ॥ * ॥ सहते। पचाद्यच् (३।१।१३४) ॥ ( ५ ) ॥*॥ 'सर्जेषु'शब्दोऽप्यत्र ॥ * ॥ पञ्च 'सहेत्यर्थे' ॥
॥
॥*॥
|
१ - इदं च ' प्रथेः कित्संप्रसारणं च' (उ० १ ११७ ) इति सूत्राज्ञानमूलकम् । तत्राप्ययं विशेष: 'उक्तसूत्रमते जान्तत्वम् । भवन्मते कान्तत्वम्' इति ॥ २ - येनतेनादि च । यथा 'वितर गिरमुदारां येन मूकाः पिकाः स्युः - इति स्वामी ॥ ३ - क्रम्प्रत्ययस्य कित्वेन 'ऋधम्' इति प्रयोगस्यैवापाद्यमानत्वेन 'सार्धम्' इति प्रयोगानिष्पत्त्या चिन्त्यमेतत् । तस्मात् 'आभीक्ष्ण्ये णमुल' इति वक्ष्यमाणस्योभयशेषत्वमेव बोध्यम् ॥ ४- तथा च 'सजूः सहार्थे' इति त्रिकाण्डशेषः ।
आनुकूल्यार्थकं प्राध्वम्
प्राध्वनति । 'ध्वन शब्दे' ( भ्वा० प० से० ) डम्प्रत्ययः । 'प्राध्वं तु प्रणते चातिदूरे वर्त्मनि बन्धने ' ॥ (१) ॥*॥ व्यर्थ के तु वृथा मुधा ॥ ४ ॥
[ तृतीयं काण्डम्
व्रियते । 'वृङ्' (क्र्या० आ० से० ) । 'वृञ्' ( स्वा० उ० से० ) । थाक् 'वृथा वन्ध्ये निष्कारणे' ( इति मेदिनी ) ॥ (१) ॥*॥ मुह्यति । काप्रत्ययः । पृषोदरादित्वात् ( ६ १३/१०९) हस्य घः ॥ (२) ॥*॥ द्वे 'व्यर्थके' ॥ हो उताहो किमुत विकल्पे किं किमूत च । आहन्ति । डोप्रत्ययः ॥ (१) ॥*॥ उत च आहो च अनयोः समाहारः ॥ ( २ ) ॥*॥ किम् च उत च, अनयोः समाहारः । ( ' किमुतातिशये प्रश्ने विकल्पे च प्रयुज्यते' इति विश्वः) ॥ (३) ॥*॥ कानम् । 'कै शब्दे' ( भ्वा०प० अ० ) । 'कायते डिंमि:' ( उ० ४। २५८ ) ॥ (४) ॥*॥ किम् च उ च । 'किमु संभावनायां स्याद्विम चापि दृश्यते' इति मेदिनी ) ॥ ( ५ ) ॥*॥ ( 'उत प्रश्ने वितर्के च उताप्यर्थविकल्पयोः' इति विश्वः) ॥ ( ६ ) ॥*॥ पदं वितर्कनस्य' ॥
(
तु
हि च स्म ह वै पादपूरणे
तुदति । डुः (वा० ३।२।१८० ) ॥ (१) ॥*॥ हिनोति । fafe तुगभावः ॥ ( २ ) ॥ * ॥ चनति, चिनोति वा । 'अन्येभ्योऽपि-' (वा० ३।२।१०२ ) इति ड: ॥ (३) ॥*॥ स्मयते। 'स्मिक् ईषद्धसने' ( भ्वा० आ० से० ) । डः ( वा० ३।२।१०१) ॥ (४) ॥*॥ हन्ति । डः ( वा० ३।२।१०१) । ( 'ह स्यात्संबोधने पादपूरणे च विनिग्रहे । नियोगे च क्षिपायां स्यात्कुत्सायामपि दृश्यते' इति मेदिनी ) ॥ ( ५ ) ॥*॥ वाति । डैः ॥ (६) ॥*॥ षट् 'श्लोकचरणपूर्णतायाम्' ॥ पूजने स्वती ॥ ५ ॥
सवति । 'षु गतौ ( प्रसवैश्वर्ययोः ' भ्वा० प० अ० ) । डुः ( वा० ३।२।१८०) । ( 'सु पूजायां भृशार्थेऽनुमति कृच्छ्रसमृद्धिषु इति मेदिनी ) ॥ (१) ॥*॥ अतति । इन् ( उ० ४|११८ ) ॥ (२) ॥*॥ द्वे 'पूजने' ॥ दिवाहीति
दीव्यन्त्यत्र । काप्रत्ययः ॥ (१) ॥ * ॥ अहि = दिवसे । इतिना अधिकरणार्थप्रधानतां दर्शयति ॥
अथ दोषा च नक्तं चं रजनाविति । दुष्यन्त्यत्र । 'दुष वैकृत्ये' ( दि० प० अ० ) । आ प्रत्ययः ।
१ - अहो हस्वादिरपि । 'विकल्पे विस्मयेऽप्यहो' इति रुद्रवचनात् - इति मुकुटः ॥ २ - चकारादुषापि - इति स्वामि-मुकुटौ । 'उषा रात्रौ तदन्ते च' इति मेदिनी ॥