Book Title: Manibhadrakavyam Author(s): Prashamrativijay Publisher: Pravachan Prakashan Puna View full book textPage 9
________________ शुभाशंसनम् नरत्वं दुर्लभं लोके, विद्या तत्र च दुर्लभा । कवित्वं दुर्लभं तत्र, शक्तिस्तत्र सुदुर्लभा ॥ विद्यासु प्रधाना साहित्यविद्या विदुषामपि दुर्लभा । यतो हि न सर्वोऽपि विद्वान् कविः, न च सर्वोऽपि कविः कविः । कवित्वं न नाम छन्दोबद्ध-व्याकरणादुष्ट-शब्दरचनाकरणकौशलम्, किं तर्हि ? श्रवणसमनन्तरमेव श्रोतृहृदये रसविशेषजनकानां शब्दावलीनामारचनम् । एवं च रसाभिव्यञ्जकं वाक्यमेव काव्यत्वेनामनन्ति तज्ज्ञाः । वाक्यं रसात्मकं काव्यम् इत्यभियुक्तोक्तेः काव्ये रस एव प्रधानः । काव्यप्रकाशकारेण मम्मटेन अपि अयमेव भावः स्फुटशब्देषु उक्त:-'शब्दार्थयोर्गुणभावेन रसाङ्गभूतव्यापारप्रवणतया विलक्षणं यत् काव्यम् ।' रसो हि काव्यस्यात्मा प्रगीयते, शब्दाः शरीरम्, अर्थाः करणानि, अलङ्काराश्च भूषणानि इति रसस्य माहात्म्यमपि मम्मटः स्तौति-यथा-प्रमात्रा सकलहृदय संवादभाजा साधारण्येन स्वाकार इवाभिन्नोऽपि गोचरीकृतः, चळमाणतैकप्राणो विभावादिजीवितावधिः पानकरसन्यायेन चळमाणः, पुर इव परिस्फुरन्, हृदयमिव प्रविशन्, सर्वाङ्गीणमिवालिङ्गन्, अन्यत् सर्वमिव तिरोदधत्, ब्रह्मास्वादमिवानुभावयन्, अलौकिकचमत्कारकारी शृङ्गारादिको रसः' । ... विभावानुभावव्यभिचारिभावसंयोगाद्धि रसनिष्पत्तिर्भवति । विभावादयश्च मनोभूमिका (States of mind) रूपाः । व्यक्ति-वस्तु-वातावरणेषु वर्तमानानां तत्तद्भावानाम् आकलनार्थं बुद्धिरपेक्षिता, तेषाम् आस्वादनार्थं संवेदनशीलता अपेक्षिता । परबुद्धौ (प्रतिबिम्बस्येव) तद्भावसंवेदनजननार्थं च विशिष्टा शक्तिरपेक्षिता । तद् एव कवेः कविकर्म यत्परस्य भावजननम्, 'रसो वै सः' । कवित्वशक्तेमहिमानमुपवर्णयत्सु सुभाषितेषु तस्या एव शक्तेर्दुर्लभत्वमावेदितं या रसजनिका । मम्मटोऽप्याह-शक्तिः कवित्वबीजरूपः संस्कारविशेषः, यां विना काव्यं न प्रसरेत्, प्रसृतं वा उपहसनीयं स्यात् ॥ एवं तावत् रससम्पन्नता काव्यस्य प्रधानो गुण इति स्थितम् । तस्याः परिपोषकं हि तत्त्वद्वयम्, कल्पनानां मौलिकता, प्रस्तुतौ मधुरता च । मौलिकतां विना काव्यं पुरातनकविकृतकल्पनायाः पुनरुक्तिमात्रविधानाद् लिप्यन्तरसदृशमेव आभासते । मधुरतां विना च घृतशर्कराऽमिश्रितमिष्टमिव शुष्कं रसरहितं च नास्वाद्यं भवति । 'माणिभद्रमहाकाव्याभिधानमिदं शान्तवीररसप्रधानं गुणीभावेनेनानेकरसाभिव्यक्तिसंपन्नं च महाकाव्यम् अतितरां श्रोतृजनमनःप्रसादसम्पादनसमर्थमिति मे मतिः । जागृतोऽयं कविबन्धुः स्वकीये प्रथम एव काव्ये मौलिक तायाः मधुरतायाश्चोपबृंहणार्थं वर्षमेकं यावत् पुरातनकाव्यानां पर्यवेक्षणास्वादनादिभ्यो विरराम, निरन्तरम् एकाग्रतानुसन्धानैकान्तानुसेवनपूर्वकं मन:मस्तिष्कयोःPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 209