Book Title: Madanrekha Akhyayika
Author(s): Jinbhadrasuri, Bechardas Doshi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 167
________________ श्रीजिनभद्रसूरिरचिता [ तृतीयः मदनतोदनतोदितमानसो निजगृहे जगृहे न जनो रतिम् ॥१९३॥ ___ ततो युवराजेन राजमानाः सप्रमदाः प्रमदवने विहर्तुमिच्छाम इति तत्र गमनाय प्रसीदतु कुमारो येन मन्मथेनेव सरतिना रममाणेन सरमणीकेन भवता साद्धं वसन्त इव वयमपि सनाथाः स्मः । ___ततस्तेषां प्रणयभङ्गभीरुणाऽभिहितं कुमारेण-भवतु, भवतामभीष्टम् , को विरोधः ? प्रिये ! त्वमपि सहिता भयवागच्छेति वदता मदनरेखाऽपि प्रोत्साहयांचक्रे । विजने मणिरथागमनशक्कयाऽपि तत्रासितुमात्मनैवानीहया तया । तया च मित्रमालया निजेन च परीवारेण पौरसुन्दरीलोचनपुटपीयमानसुधायमानमानातिरिक्तरूपलावण्यः कुमारः क्रमेण प्रमदवनं गन्तुमारब्धः । प्रविशन्तं च तमुद्दिश्य पठितं वैतालिकेन मदकलकोकिलकुलकलरवेण कर्णामृतायमानेन त्वामिह कुमारं माराकारं व्याहरति सहकारः । प्रविष्टमात्रे एव च युवराजे ब्याहृतमुद्यानपालेन-कुमार ! स्मराधारसहकारवीथिकेयम् , क्षोभितमहायतिश्चम्पकलताततिरियम् , अलिकुला मन्दामोदचन्द्रशालासमारोहणनिःश्रेणिर्बकुलश्रेणिरियं, निरस्तनिदाघातपो द्राक्षामण्डपोऽयम् , जनितसतीमनोव्य लीकं बहुकदलीकं लतागृहमिदम् , शेषलतागुल्मादिकमपरमपि निजनयनतामरसनिवेशेन द्विगुणितकुसुमशोभाभिरामं क्रियताम् । किञ्च, इह रैमस्व रम-स्ववनान्तरे कुरु कुरु क्रमचङ्क्रमणं त्विह । हे स्मरमते ! मदनमते ! सुमतः सुष्ठु मतः सुमतः । तोदनस्य भावः तोदनता । मदनद्वारा जाताया तोदनता मदनतोदनता, तया उदितं मानसं यस्य स मदनतोदनतोदितमानसः अथवा मदनस्य तोदनं तेन तोदित व्यथित मानसं यस्य स मदनतोदनतोदितमानसः । १. यद्यपि मदनरेखा गर्भिणी अतः सा क्रीडां कर्तुं वने गन्तुं न प्रोत्साहवती तथापि यदि कुमारः एकाकी वनकीडायै वने गच्छेत् तदा तत्र प्रासादे बिजने एकान्ते एव मदनरेखायाः निवासः स्यात् । अतः एकान्तं दृष्ट्वा यः पूर्व समागतः कामुको राजा मणिरथः स पुनरपि विजने प्रासादे समागच्छेद इति आशङ्कया प्रासादे कुमारं विना आसितुम् अनीहया अनिच्छया सा मदनरेखाऽपि कुमारेण सह वसन्ते वनक्रीडायै प्रस्थातुम् ऐच्छद् इति आशयः । २. 'रम ! स्ववनान्तरे' इत्यपि विभागः । 'हे रम ! हे कान्त ! स्ववनान्तरे स्वकीये. वनान्तरे रमत्व-क्रीड़' इति आशयः ।। ३. ' क्रमेण परिपाट्या चक्रमणं कुरु' इति अथवा 'क्रमाभ्यां पादाभ्यां चक्रमणं कुरु' इति अर्थद्वयमपि संघटते । 1 ममैवा डे। 2 °रः प्रमदवनक्रमेण ग° ख, प्रमदवने क्रमेण गल। 3 च समुख । 4 'च' नास्ति डे आदर्श । 5 दिकं पर डे । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304