________________
श्रीजिनभद्रसूरिरचिता
[ तृतीयः मदनतोदनतोदितमानसो
निजगृहे जगृहे न जनो रतिम् ॥१९३॥ ___ ततो युवराजेन राजमानाः सप्रमदाः प्रमदवने विहर्तुमिच्छाम इति तत्र गमनाय प्रसीदतु कुमारो येन मन्मथेनेव सरतिना रममाणेन सरमणीकेन भवता साद्धं वसन्त इव वयमपि सनाथाः स्मः । ___ततस्तेषां प्रणयभङ्गभीरुणाऽभिहितं कुमारेण-भवतु, भवतामभीष्टम् , को विरोधः ? प्रिये ! त्वमपि सहिता भयवागच्छेति वदता मदनरेखाऽपि प्रोत्साहयांचक्रे । विजने मणिरथागमनशक्कयाऽपि तत्रासितुमात्मनैवानीहया तया । तया च मित्रमालया निजेन च परीवारेण पौरसुन्दरीलोचनपुटपीयमानसुधायमानमानातिरिक्तरूपलावण्यः कुमारः क्रमेण प्रमदवनं
गन्तुमारब्धः ।
प्रविशन्तं च तमुद्दिश्य पठितं वैतालिकेन मदकलकोकिलकुलकलरवेण कर्णामृतायमानेन त्वामिह कुमारं माराकारं व्याहरति सहकारः । प्रविष्टमात्रे एव च युवराजे ब्याहृतमुद्यानपालेन-कुमार ! स्मराधारसहकारवीथिकेयम् , क्षोभितमहायतिश्चम्पकलताततिरियम् , अलिकुला
मन्दामोदचन्द्रशालासमारोहणनिःश्रेणिर्बकुलश्रेणिरियं, निरस्तनिदाघातपो द्राक्षामण्डपोऽयम् , जनितसतीमनोव्य लीकं बहुकदलीकं लतागृहमिदम् , शेषलतागुल्मादिकमपरमपि निजनयनतामरसनिवेशेन द्विगुणितकुसुमशोभाभिरामं क्रियताम् । किञ्च,
इह रैमस्व रम-स्ववनान्तरे
कुरु कुरु क्रमचङ्क्रमणं त्विह । हे स्मरमते ! मदनमते ! सुमतः सुष्ठु मतः सुमतः । तोदनस्य भावः तोदनता । मदनद्वारा जाताया तोदनता मदनतोदनता, तया उदितं मानसं यस्य स मदनतोदनतोदितमानसः अथवा मदनस्य तोदनं तेन तोदित व्यथित मानसं यस्य स मदनतोदनतोदितमानसः ।
१. यद्यपि मदनरेखा गर्भिणी अतः सा क्रीडां कर्तुं वने गन्तुं न प्रोत्साहवती तथापि यदि कुमारः एकाकी वनकीडायै वने गच्छेत् तदा तत्र प्रासादे बिजने एकान्ते एव मदनरेखायाः निवासः स्यात् । अतः एकान्तं दृष्ट्वा यः पूर्व समागतः कामुको राजा मणिरथः स पुनरपि विजने प्रासादे समागच्छेद इति आशङ्कया प्रासादे कुमारं विना आसितुम् अनीहया अनिच्छया सा मदनरेखाऽपि कुमारेण सह वसन्ते वनक्रीडायै प्रस्थातुम् ऐच्छद् इति आशयः ।
२. 'रम ! स्ववनान्तरे' इत्यपि विभागः । 'हे रम ! हे कान्त ! स्ववनान्तरे स्वकीये. वनान्तरे रमत्व-क्रीड़' इति आशयः ।।
३. ' क्रमेण परिपाट्या चक्रमणं कुरु' इति अथवा 'क्रमाभ्यां पादाभ्यां चक्रमणं कुरु' इति अर्थद्वयमपि संघटते ।
1 ममैवा डे। 2 °रः प्रमदवनक्रमेण ग° ख, प्रमदवने क्रमेण गल। 3 च समुख । 4 'च' नास्ति डे आदर्श । 5 दिकं पर डे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org