SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ उच्छ्वासः] मदनरेखा-आख्यायिका इह निधेहि निधेहि विलोचने मधुकरे कलिकामभिधावति ॥१९४॥ इह हि नृत्यति वैल्गति गायति भ्रमति पौरजनः प्रमदोद्धरः । मणिगणाभरणातिदीपिका प्रकटिते विशतीह लतागृहे ॥१९५।। ततः कुमारोऽपि दूर्वाविरलप्रवालतूलिकाकलितसकलसारणीके तटवर्त्मनि चरणचक्रमणमतीवप्रमोदमन्दिरमिति मन्यमानः, प्रिये ! पुरो भूयताम् इहभव त्या, अतिरमणीयोऽयमुद्देश इति पुरस्कृतप्रियो भणितुमारब्धः । चारुचम्पकलताऽऽवृतान्तरे नातपत्रमिह माति यद्यपि । मा कृथास्तदपि पाणिपल्लवं बियेती रविकलान्निजालिके ।।१९६।। वारितो रविरसौ त्वदानने यत् क्षिपन् कमलशङ्कया करान् । बिभ्रतोपरि पटीमिमां मया पश्य पश्य मुखमुन्नतं कुरु ।।१९७।। पुरोऽवलोक्य च बकुलमलिसंकुलं दर्शयता पठितं युवराजेन । बकुलकलिकाः स्वस्थानाद् या मृगेक्षणयोच्चिता स्तदधरंदले लग्नं भृङ्ग रुषेव तदुत्थितैः । १. सप्तम्यन्तं पदमेतत् । मधुकरे कलिकां प्रति अभिधावति सति 'रमस्व रमस्व' इत्यादि योज्यम् । २. वल्गति गच्छति वेगपूर्वकं कूदते 'कूदे छे' इति भाषागाए । ३. यथा 'अत्रभवती 'पदम् आदरसूचक तथा 'इहभवती' पदमपि आदरसूचकम् । ४. विभ्यती 'भी' धातोः वर्तमानकृदन्तरूपम् , भयं कुर्वाणा सती । रविकलात् रविकरात् रविकिरणाद् विभ्यती । निजालिके निजे अलिके ललाटे । अत्र 'रविकलान्निजालिके' इत्येवम् अनुप्रासार्थ 'रविकरात्' स्थाने 'रविकलात्' इति लकारोच्चारणम् । र-लयोरैक्यं तु प्रसिद्धमेव । ५. इमां पटीं तव उपरि बिभ्रता मया कमलशङ्कया त्वदानने करान् किरणान् क्षिपन् असौ रविः वारितः इति पश्य पश्य । 1 काः स्वस्थानं या ल । 2 °रतले डे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy