SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ४० श्रीजिनभद्रसूरिरचिता [ तृतीयः वलयरणितं तत्त्रासार्थ कृतं करधूननै रेनुकृतिरिवोड्डीनैरेभिः कृता कृतकूजनैः ॥१९८॥ तदेव मदनरेखया पुनरेवमकर्ण्यते । नै बकुलमकुलाली पद्मकिञ्जल्कपिङ्ग भ्रमरपरिवृतेयं किन्तु पुष्पायुधेन । घटयितुमिह जैनध्यानवज्राङ्गिकातो दलित इषुसमूहश्चिक्षिपेऽङ्गारमध्ये ॥१.९९।। ततोऽस्य श्रवणतः सञ्जातामितपरितोषैरेकहेलयैवाखिलंमपि युवराजादिभिरित्थमुदितम्अहो ! रमणीयम् , अहो ! वितर्कितम् , अहो ! निरुपमा भणितिः, अहो ! सुललिता वर्णविच्छित्तिः, अहो ! निर्जितद्राक्षारसा मधुरता । तदनन्तरमेवम् उदितमुद्यानपालिकया--युवराज ! पश्य पुरतो द्राक्षामण्डपमपीमम्', कुमारोऽपि तदानीमेव सपरीवारः प्रविश्य तत्र व्याजहार इह द्राक्षारामे सततमभिरामे कृतरति ध्रुवं नैषा च्छाया बहलबहला किन्तु रजनी । न चेदं ते वक्त्रं तरलतरतारं प्रियतमे ! प्नियां द्रष्टुं स्वीयामयमिह समागाच्छशधरः ॥२०॥ । मृगेक्षणया रमण्या वलयरणितं करधूननैः कृत तथैव तस्य वलयरणितस्य अनुकृतिरूप तैः भ्रमरैः उड्डीनैः कूजन गुञ्जास्वरूपं कृतम् इति आशयः । २. अवकर्ण्यते श्राव्यते इति भावः । ३. बकुलस्य मकुलाली, मुकुलाली मुकुलं कुइमलं कलिका । "कुड्मलो मुकुलो न ना ।। मुकुले" [-कल्पद्रुको. पृ० २५२, श्लो० ३१, ३२] __ अस्य पद्यस्यायम् आशयः-पद्यकिञ्जल्कपिङ्गा ये भ्रमराः तैः परिवृता इयं बकुलमकुलाली न, किन्तु कुसुमायुधेन स्वीयः इषुसमूहः घटयितुम् इव (भाषायाम्-'जाणे के घडाववा माटे') अकारमध्ये निक्षिप्त इति प्रतिभासते । कामदेवेन इषुसमूहस्य घटनं किमथे क्रियते ? तदुत्तरदानाय पद्यकारेण एवं सूचितम्-जैनध्यानव जाङ्गिका नाम विशिष्टा सुभटरूपा योध्दी तया कामदेवस्य इषुसमूहो दलितः भञ्जितः खण्डखण्डीकृतः, अतः तम् इषुसमूहं पुनरपि तादृशे युद्धे व्यापारयितुं स स्वीयम् इषुसमूहम् अङ्गारमध्ये निक्षिप्य घटयति इव इति रूपकम् । खलु लोहमयं त्रस्तिं वस्तु पुनर्घटयितुं लोकेऽपि अङ्गारेषु क्षिप्यते एव इति प्रसिद्धम् । पिङ्गो नाम पीतरक्तो वर्णः। ४. द्राक्षारामे या बहलबहला छाया सा छाया न, किन्तु रजनी, तथा तत्र द्राक्षाराममण्डपे मदनरेखाया यद् वक्त्रं न, किन्तु शशधरः चन्द्रः, अतः चन्द्रः स्वीयां प्रियां द्रष्टुं तत्र समागतः इत्येवं रूपकम् । ___ 1 रवकृ डे। 2 वर्णत डे, वर्ण्यते ल। 3 न च कु° ख। 4 °मिव जैडे । 5 ततस्तस्य डे । 6 रेव हे ख। 7 णीय बि ख। 8 अहो महोनि खल । 9 रमलमु डे । 10 °पसमम् ख । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy