________________
उच्छवांसः ] मदनरखा-आख्यायिका ___ मदनरेखा पुनरनेन प्रियतमोदितेनापि वचनेन होता वदनमधश्चकार । कुमारण तु तदाननोन्नमनाय स्पृहयालुना भूयोऽभ्यधीयत-प्रिये ! पश्य पश्य, दमयति बालबकुलकलिकामपि चुम्वति राजचम्पकम् , माधविकामपास्य खलु घटयति मल्ली वपुषि कम्पकम् , सह नवमालिकाभिरपि विलसति ललितसरोरुहेः समम् , मलिनप्रकृतिरेष मधुपः खलु गणयति किमपि न क्रमम् ।
चिन्तित मदनरेखया, नूनमयमपि मणिरथ इव चपलस्वभावः कोऽपि । अत्रान्तरे विज्ञप्तं कालनिवेदकेनया प्रातः प्रससार दूरमधुना सूर्य ललाटंतपे
छाया पादतले स्थिता स्ववपुषः संकुच्य संकुच्य सा । यद्वा पश्यत सोढुमक्षमतमो धर्म दिनेशोऽप्यसौ
नो चेत् किं प्रतिबिम्बकैतववशाद् मग्नः सरोमध्यतः ॥२०१॥ अपि च, स्निग्धच्छायापरयुवतये जाततीव्राभिलाषो
ऽस्मिन्नारामे कथमपि विशन्नातपो नूनमासीत् । खण्डं खण्डं कथमपरथा सर्वथाऽप्येष कृत्वा
स्थाने स्थाने वरतरुंभटैश्चिक्षिपे पत्रखड्गैः ॥२०२॥ इतश्च प्रतिहतैयदृच्छाप्रचारः प्रमदवनविहारपरिश्रमजनितपीडाभिः अशङ्कमज्जनोन्मज्जनविहितविलासिनीजनबीडाभिः अहमहमिकाप्रस्तूयमानाभिरनवच्छिन्नजलक्रीडाभिरिवाँ कृष्यमाणेन निजवदनतुहिनकरनिरस्यमानध्वान्तसन्तानसमानमधुकरस्थानदानापराधेनेव निजनिजमूलस्थानलतावितानादवचितैरतुलपरिमलविशालदलरामणीयकगुणेनेव विचित्रविरचनाप्रतिपत्तिपुरस्कृतैः पुनरुचितज्ञताज्ञापनारसिकतयेव स्वशरीरतास्वस्थाननिवेशितः कुसुमभरैरलंकृतानां
१. स्निग्धच्छाया एव परयुवतिः स्निग्धछायापरयुवतिः तस्यै जाता तीब्राभिलाषः आतपः इत्येषम् अन्धयः । एतादृशं परयुवतितीव्राभिलाषिणम् अत एव व्यभिचारिणम् आतपं ज्ञात्वा तस्य वृक्षपत्रः खण्ड खण्डं कृत्वा विनाशः कृत इति कल्पना। वृक्षपत्रः आरामे आतपः खण्डशो विभक्तो दरीदृश्यत एव इति इदं वर्णनम् ।
२. 'प्रतिहतयदृच्छाप्रचारः' इत्येतद् 'उष्णकर'स्य विशेषणम् ।
३. 'आकृष्यमाणेन' इत्येतद् ‘समासीदता' इत्येतद् 'आगतवता' इत्येतत् च विशेषणत्रयम् 'अपराह्णन' इत्यस्य संबन्धितम् ।
1 नायातः क खल । 2 °पकथा ख । 3 रुतश्चि° डे । 4 निजनिर्जव डे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org