SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ९३ विलासिनीनां दर्शनार्थमिव समासीदता जनितपरैभोगाऽङ्गरागसन्नाहसन्नद्धानामुत्कुण्ठोत्कण्ठावण्ठपुरस्कारख्यापाराणां प्रत्यासीददनङ्गकेलिमहासमरसंरम्भाणां संभोगरङ्गवीराणां कौतुकं वीक्षितुमिवाऽऽगतवता भुवनसंतापविलोकनसंजातकरुणेनेव गलहस्तितोऽपराह्णेन गतोऽपरसमुद्रतटीमुष्णकरः । श्रीजिनभद्रसूरिरचिता 'अपराङ्गनानुरागसंपादनार्थमिवानुरक्तीकृतश्च सन्ध्या सैरन्ध्रिकया ' ज्ञापयितुमिव व्यति- . करममुं पूर्वाङ्गनायास्तदभिमुखाः प्रधावितलब्धप्रसराः सर्वतोऽपि च्छायाः । आबालकालमहमेव परं प्रियाऽस्य मत्संगतोऽगमदसौ प्रबलप्रतापम् मत्त्यागतः किमधुना न हतप्रभावो मामप्यहो ! त्यजति तामपरामुपैति ॥ २०३॥ इति स्वहृदये व्यलीकमवधारयन्ती प्रसरता तमसा मलिनमाननमकार्षीत् पूर्वाङ्गना । श्रीरस्माकमितोऽत एव मिलिताः कोक्यो वराक्यः प्रियैः [ तृतीयः संवृत्तः किमतोऽपि कोऽपि किमतः कश्चित् प्रतापेश्वरः । वारुण्यां रविरप्यसौ रुचिमधा दिक्संध्यया रञ्जितो हा संसारमितीव तन्निजमुखं संकोचितं पङ्कजैः ॥२०४॥ अहो ! बन्धुवर्गानुरूपताच्छील्यमेषाम्, अहो ! परगुणग्रहणस्मरणमेतेषाम्, अहो ! सर्वथाऽपराधासहिष्णुत्वममीषाम्, केवलमसावेव नभोमणिर्मणिरथकल्पः कुशीलचक्रवर्तीति चेतसि स्थितं मदनरेखायाः । अत्रान्तरे विज्ञप्तं वैतालिकेन Jain Education International वारुण्या महमप्यरज्यैममुया व्यामोहितः सन्ध्यया पश्चात्तापकदर्थितो ध्रुवमदात् झम्पां समुद्रे रविः । १. प्रत्यासीदन् चासौ अनङ्गश्व इति प्रत्यासीददनङ्गः इति समासो बोध्यः । २. सैरन्ध्री या अन्यवेश्मस्था परवेश्मोपजीविनी [अभि० चिं० कां० ३, श्लो० १८५] ३. [ अत्र वृत्ते सद्वृत्तः सुशीलः । अथ च वर्तुलः । ] ४. [ वारुणी मदिरा । अथ च पश्चिमा दिक् । शेषं सुगमम् । ] ५. अरज्यम् 'रञ्जीं रागे' दैवादिकस्योभयपदिनः 'रअ' धातोः ह्यस्तन्यां प्रथमपुरुषे एकवचनम् । 1°रभागोऽङ्गरागसमूहेन सन्नद्धा डे । 2 करणे डे । 3 वाक्ती ख । 4 पूर्वानयोस्त ख । 5 'द् विस्संध्यया ख, द् धिग् संध्यया डे | 6 'ल्यमम्बुजानाम् अहो डे । 7 रज ( ज्य) मिति भो व्याख । For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy