________________
उच्छ्वासः ] मदनरेखा-आख्यायिका तेनैवोत्प्रसरन्ति पारदलवाकारास्ततः शीकराः
साक्षात् पश्यत पश्यतोडुनिकरव्याजान्नभोमण्डले ॥२०५॥ किञ्च, निरवधिमहिमानः कुर्वते दुनयं यं
सकृदपि हि से दोषोल्लासहेतुः पृथिव्याम् । क्षणमपि दिनराजे वारुणीसङ्गमात्रं
विहितवति तमोभिः प्रस्तुतो मार्गलोपः ॥२०६॥ अहो ! चाटुकार[क]व्यापारप्रकृतिनापि सकलवैतालिकतिलकायमानेनामुना वराकेणानुभवाभरणभूषितं भाषितमित्यर्हत्यसावद्भुतं किमपि भूषणमिति भाषितवत्यामेव मदनरेखायां कुमारेण सर्वमपि स्वकीयमङ्गलग्नमाभरणं गुणिने निजपाणिना व्यतीर्यत ।
___ ततस्तत्रैव क्रीडासरस्तीरे विधाय सान्ध्य विधिमवन्ध्य समुत्थाय च सहैव प्रेमामृततरङ्गिण्या मदनरेखया युवराजः पारापतविरुतविवृतमणिमेखलारणितमणितसूत्रे विचित्रप्रसूनाभिरामप्रलम्बदामजनितचित्रे कर्पूरपूरवासिते पूगीफलकोप्रलदलैचूर्णपूर्णविचित्रनागवल्लीपत्रपात्रे स्फुरदमन्दामोददह्यमानागुरुधूपपवित्रे नवपल्लवकुसुमसज्जितशय्यास्पर्शविसूत्रिततूलिकास्तोत्रे, प्रस्तुतसमस्तेन्द्रियमहामहे कदलीलतागृहे प्रविवेश । क्षणेन च स्वयमेव विरचिताङ्गरागया समास्वादितपञ्चसौगन्धिकताम्बूलसंपादिताधरपरभागया प्रमोदमानमानसया विहिततत्कालोचितमिथःसंकथया स्थित्वा
मुदमेका भूर्यद् यदतुलफलं यौवनतरो--
यंदैश्वर्य श्लाघ्यं विषयसुखभाजां यदचितम् । न संसारे सारं गणयति यतोऽन्यद् भुवि जन[:]
सिषेवे तत् सौख्य स किल युवराजः सह तया ॥२०७॥ इति श्रीजिनभद्रसरिरचितायां मदनरेखाख्यायिकायां 'श्रीमन्नेमिचरित्रापराभिधायां मुदङ्कायां तृतीयोच्छ्वासः
समाप्तः ॥ १. यः दुर्नयः कृतः स दोषोल्लासहेतुः इति अन्वयः । दोषस्य उल्लासहेतुः । दिनराजपक्षे दोषायाः रजन्या उल्लासहेतुः इति द्वयमपि बोध्यम् ।
२. विरुतेन विवृतम् अर्थात् मणिमेखलारणितस्य पारापतविरुतेन विवरणं कृतं तादृशं तद् रणितम् ।
॥ इति तृतीय उच्छ्वासः समाप्तः ॥
1 कारे व्यापारे प्रडे | 2 सर्वमप्यङ्ग डे । 3 वासितपू डे । 4 खल । 5'पत्रसत्रपात्रे डे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org