________________
चतुर्थ उच्छ्वासः। तदनन्तरमनुदिते च चन्द्रमसि, समुदिते' परितोऽपि तमसि, समुल्लसिते तौरकामहंसि, प्रदीपप्रकाशिते रहसि, साक्रन्दे रैथानवयसि, विलासभवनं प्रति प्रविशति प्रेयसि, प्रस्तुते मुनिजनैरावश्यकश्रेयसि,
रौद्र रूप धत्ते सुनिश्चित यद्यपीक्ष्यते सोमः ।
कलयति संत्रासकरं यः कूट कालकूटमिव ॥२०८॥ अतः प्रबलतया मकरकेतोर्विकारस्य तेनैव गलितबलतया विशुद्धविवेकस्य, दुर्निग्रहतया चटुलवृत्तेरिन्द्रियग्रामस्य, संनि हेततया महापापकर्मादयस्य तदानीं मेदिनीपतिरिदमचिन्तयत् , अहो ! चिरेणापि चिन्तयता विरञ्चिना भगवता मदीयं कार्यम् अनुगृहीतोऽस्मि, यदद्य तस्यास्त्रिभुवनललामरेखाया मदनरेखायाः सङ्गमोपायवटनालता कुसुमितेव दृश्यते, कथमन्यथा सामग्रिकेयमचिन्तिताऽप्युपनता । एकं तावन्नगरस्य बहिराराम कुमारोऽयमुषितः, द्वितीय पुनरतीवस्तोकपरीवारः, तृतीयमीदृशस्य प्रयोजनस्य जननी रजनी, चतुर्थ रुद्धदृष्टिप्रचारः समुल्लसितो महान्धकारः । ततः फलित एव प्रभूतकालादपि मया चिन्तितो मनोरथसहकारः । इति विहितदुरध्यवसायो निजसोदरद्रोहबुद्धिमात्रसहायो गृहीतकरालकरवालश्चचाल निजालयाद् व्यालसंकुलायामचलायामेकाकी ।
१. तारकातेजसि । २. चक्रवाकपक्षिणि, सप्तम्यन्तमेतत् ।
३. [ इतश्च स मणिरथो राजा यद्यपि सोमः-शान्त ईश्यते, तथापि चित्तं रौद्र-भीषणं रूपं धत्ते; अत एव यः संत्रासकर--भयंजनक, कूट-कपट, कलयति-धारयति । किमिव ? कालकूटमिव नि जसोदरदुरितार्थित्वात् । अथ च रुद्रस्य-हरस्येदं रौद्रं रूपं सह उमया-गौर्या वर्तते सोमः स हरः संत्रासकरं कालकूट धत्ते । अग्रेतनं तावद् निगदसिद्धं यावत् 'स्वस्थः' ।]
अत्र प्राचीनटिप्पणीकारेण यः 'स्वस्थः' इति पदं सूचितं तन् (पृ० ९६, पं०६) स्वः + स्थ इत्यस्यापि 'स्वस्थ' इति बोध्यम् , तेन च 'स्वर्गस्थः' इत्यपि अर्थों बोध्यः ।।
यद्यपि सोमः-चन्द्रः सौम्यतया बहिर्भावेन शीतलः सोमः दृश्यते परन्तु कामोत्तेजकतया स संत्रासंकरोऽपि विद्यते । अतः 'संत्रासकरम्' इत्यस्य अयमपि अर्थ एवं भावनीयः-संत्रासयन्ति इति संत्रासाः, संत्रासाः करा:-किरणाः यस्य तत तादृशं संत्रासकर कूट विषं-कालकूटम् इव सद्यः प्राणहारि कलयति । 'सोम'शब्दस्य चन्द्रार्थकल्पनापक्षे एषोऽर्थः संघटते । राजा मणिरथः सोम इव बाह्यभावेन सौम्यताधारी दृश्यते तथापि आभ्यन्तरभावेन स स्वसहोदरघातकवृत्त्या कालकूट विष कलयति इति भावः ।
1 °दितेऽपि प डे । 2 °पि समु डे । 3 °मुल्लासिते ख । 4 कासितर° ख। 5
खल। 6 सत्रास डे । 7 तदानीं पतिरचि ख । 8 तकरवालकरालश्च ख । ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org