________________
उच्छ्वासः ] __ मदनरेखा-आख्यायिका
जलधरमालायामिव निस्सीमधारासारेण वसुधोपचयं पुण्योपचयं देहोपचयं युवराजानन्दोपचयं च निजदोहँदं पूरयन्त्यां तस्यां क्रमेण रसानामिव मधुररसः भरतखण्डानामिव आर्यावर्तः जीवनिकायानामिव त्रसकायः बाह्यतपसामिव संलीनभावः षण्णामपि ऋतूनां मूर्धाभिषिक्तोऽवतीर्णो जगदानन्दकन्दो वसन्तसमयः ।
हैतपरमहिमोल्लासः खरकरसंतप्तसकलभूवलयः ।
ऋतुरेष शुचेज्येष्ठादिह राजति दुष्कुमारवत् प्रथमम् ॥१९२॥ इति वदन्तः समागत्य संभूय वयस्याः कुमारं विज्ञापयन्ति स्म
स्मरमते ! रमतेऽत्र न को नृणां
__ कुसुमतः सुमतः खलु नापरः । व्रतिनस्तु सत्यस्य सूनृतस्य उदयाः त एवामृतानि तैः पूर्णाः । नार्याः स्त्रियः वर्जनं त्यागस्तत्पराःस्त्रीपरिहारनिष्ठाः । शेषं पाठसिद्धम् । ]
दयारूयः अमृतेः पूर्णाः सतीरूपाः पतिव्रतपरायणाः स्त्रियः अपूज्यन्त । नार्याः वर्जनतत्पराः ब्रह्मवतिनः ब्रह्मचर्यपरायणाः “नारीणां श्राविकादिस्त्रीणां धर्मोपदेशद्वारेण आवर्जनतत्पराः तपस्विन्यः" अनेन विशेषणेन टिप्पणकारः साध्वीनामपि उपदेशकयोग्यतां व्याख्यात्रीरूपतां सूचितवान् ।
१. आसारेण वेगवता वर्षेण वेगवत्या मेघवृष्टया । “आसारो वेगवान् वर्षः" [ अभिधा० कां० २, श्लो० ७९ ]
२. [ अग्रे हतपरमेत्याद्यार्या गीतिः । एषः वसन्तऋतुः, हतः नाशितः, हिमस्य शीतस्य उल्लासो येन स तथा । खाकरेण आदित्येन संतप्तं [ सकलं ] भूवलयं यत्र धर्मोद्रेकस्यात्र भावात् स तथा । शुचेः आषाढाद् ज्येष्ठाच्च [ इह ] प्रथमादौ वसन्तो राजति शोभते । दुष्कुमारस्तु हतः परस्य ज्येष्ठभात्रादेमहिमोलासः महत्त्वप्रकषों येन स तथा । खरेण ककेशेन करेण राजदेयभागेन संतप्तं [ सकलं ] भूवलयं यस्य स तथा । शुचेर्येष्ठात् पवित्रात् गरीयसो भ्रात्रादेः सकाशात प्रथमम आदित एव राजति ज्येष्ठमल्लुङध्य स्वयं राज्यमिच्छतीत्यर्थः ।।
__ शोचन्ति पान्था यत्र स शुचिः वर्षाप्रारम्भे प्रवासिनां प्रियावियोगेन शोकमग्नताविधायित्वाद आषाढो हि मासः शुचिः कथ्यते । शुचेः आषाढाद् ज्येष्ठाच्च, प्रथमम् अ एषः ऋतुः वसन्तसमयः राजति, दुष् कुमारवत् दुष्टराजकुमारवत् । 'हतपरमहिमोल्लास:' 'खरकरसंतप्तसकलभूवलयः' इमे द्वे विशेषणे वसन्तस्य दुष्कुमारस्य च । वसन्तपक्षे-हतः परमः हिमोल्लास: शीतकालोलासः येन सः हतपरमहिमोल्लासः । दुष्टकुमारपक्षे-हतः परस्य ज्येष्ठभ्रात्रादेः महिमोल्लासः येन स हतपरमहिमोलासः । ब० पक्षे खरकरैः प्रचण्डतापकारककिरणैः संतप्त संतापं प्राप्त सकलं भूवलयं येन स खरकरसंतप्तसकलभूवलयः । दु०पक्षे खरकरैः महादुःखकरतीवरा संतप्तं संतापितं सकलं भूवलयं येन स खरकरसंतप्तसकलभूवलयः ।
३. [स्मरमते इत्यादौ स्मरमते कामाभिप्राये, कुसुमतः पुष्पेभ्यः अपरः न सुमतः न प्रतिभात इत्यर्थः । मदन एव तोदनं प्रवयणम् आरा तेन तोदितमानसः प्रेरितचित्तः । शेष गतार्थम् ।]
1 हदपूरणेन पूर' डे । 2 'तस्यां' पदं नास्ति खल आदर्शयोः। 3 वदन्तं स खल।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org