Book Title: Madanrekha Akhyayika
Author(s): Jinbhadrasuri, Bechardas Doshi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 231
________________ श्रीजिनभद्रसूरिरचिता [ पश्चमः विप्रा यत्र पवित्रसूत्रकलिता विस्तारितर्कक्रमा मीमांसोद्यतमानसाः कुशलताङ्गीकारसारक्रियाः । स्वीकुर्वन्ति धनंजय प्रकटितश्रद्धानयज्ञोदया नापि वापि च वेद-ना-द-र-हिता राज्ञः पुनमन्त्रिणः ।।३७५।। स्फुरत्यसौ-भाग्यभरेऽपि योऽद्भुते पुष्णाति नारीषु मनोरथक्रमम् । • अनङ्गवत् किन्तु सर्दैङ्गसङ्गतः .. स यत्र राजन्यगणः पदे पदे ॥३७६॥ लक्ष्मीकुलगृहे इव चैत्ये अगरुकप्रद हनोत्थिता धूमावलिः अम्भोजसरणी उड्डीना मधुपाली इव स्फुरति इति अन्वयः । अत्र 'राज्ञोऽपि' पदेन 'चन्द्रस्य अपि' इत्यपि भावो बोध्यः । राजपक्षे कोमलकराः अल्पपीडाकारका राजदेयभागाः, चन्द्रपक्षे कराः किरणाः। लक्ष्मीकुलगृहं हि कमलं तच्च सदा आमोदेन युक्तं भवति, धूम-भ्रमरयोः वर्णसादृश्येन धूमः 'मधुपाली'पदेन उपमितः । मधुपाः भमराः, तेषाम् आली मधुपाली । भ्रमरा हि अग्भोजसरणौ कमलश्रेण्यां रफरन्ति एव । प्रमदों हर्षः । असमः असाधारणः । १. यत्र वसन्तो विप्राः पवित्रसूत्रकलिताः-पवित्रयज्ञोपवीतयुक्ताः, अथवा पवित्राणि श्रौतसूत्रगृह्यसूत्रादीनि सूत्राणि वा ब्रह्मसूत्रादीनि सूत्राणि तैः कलिता:-तत्सूत्रज्ञानधारकाः । विस्तारितर्कक्रमा:-तर्कविद्याविशारदाः। मीमांसोद्यतमानसाः-मीमांसाशास्त्रविचारणायाम् उद्यतमानसाः।कुशलताकुशस्य-दभस्य या लता तस्याः अङ्गीकारेण सारक्रियाणां कर्तारः, अथवा कुशलतायाः-कौशलस्य अङ्गीकारेण सारक्रियाकारिण:-कर्मकाण्डकुशलाः, धनञ्जयं-हतवहं-वैश्वानरम्-अग्निम् । अथवा धनं जयम् इति पदविभागे धनं-ट्रव्यम् , जय-विजयं रवीकुर्वन्ति, इत्यपि भावः । २. प्रकटित -प्रकन्तिश्रान पूर्वकं यज्ञविधायिनः कापि स्थाने ते विप्राः, वेदनादरहिता न-वेदस्य नादेन युक्ता एव-सततं वेदपाटिनः । पुनः राज्ञः मन्त्रिणः वेदनायाः-पीडायाः, दरः-भयम, तस्मै हिता न-वेदना-दर-हिता अर्थात् वेदनाभयरहिता एव इति भावः । अथवा वेदना-पीडा, दरः-भयम्-वेदना-दरौ हितौ-धृतौ वेदना-दरौ यैः ते वेदनादरहिताः तादृशा न, अर्थात् येषां राज्ञः मन्त्रिणश्च सकाशाद् न वेदना, नापि भयम् इति, इत्यपि आशयः सुगमः । 'वेद+नाद+ रहिताः', तथा वेदना + दर+ हिताः इति उभयथा विभागः । ३. यो नृपः भाग्यभरेऽपि असौ करवाले अदभुते रफुर ति सति नारीषु मनोरथमं पुष्णाति, अर्थात् संग्रामशूरोऽपि नारीषु मनोरथपोषकः । तथा असौ करवाले रफुरति न+अरीषु-नारीषु मनोरथक्रमं पुष्णाति-अरीणां इ:-कामना, अरी:-अरिकामः-अरिकामता; तेषु मनोरथक्रमं न पुष्णाति-अरिकामनाक्रमं न पुष्णाति । स्फुरति असौ करवाले एतत्-प्रवृत्तिद्वयम् अद्भुतम् इत्येवं असेः अद्भुतता। ४. तथा यत्र- अस्मिन् नृपे राज्य शासति, राजन्यगणः अनङ्गवत् रूपेण अनङ्ग इव स्फुरति-विकासं प्राप्नोति तथापि स राजन्यगणः, सदङ्गरंगत:- र ताम् रम् रङ्गम् - र देह: Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304