________________
श्रीजिनभद्रसूरिरचिता
[ पश्चमः विप्रा यत्र पवित्रसूत्रकलिता विस्तारितर्कक्रमा मीमांसोद्यतमानसाः कुशलताङ्गीकारसारक्रियाः । स्वीकुर्वन्ति धनंजय प्रकटितश्रद्धानयज्ञोदया नापि वापि च वेद-ना-द-र-हिता राज्ञः पुनमन्त्रिणः ।।३७५।। स्फुरत्यसौ-भाग्यभरेऽपि योऽद्भुते पुष्णाति नारीषु मनोरथक्रमम् । • अनङ्गवत् किन्तु सर्दैङ्गसङ्गतः ..
स यत्र राजन्यगणः पदे पदे ॥३७६॥ लक्ष्मीकुलगृहे इव चैत्ये अगरुकप्रद हनोत्थिता धूमावलिः अम्भोजसरणी उड्डीना मधुपाली इव स्फुरति इति अन्वयः ।
अत्र 'राज्ञोऽपि' पदेन 'चन्द्रस्य अपि' इत्यपि भावो बोध्यः । राजपक्षे कोमलकराः अल्पपीडाकारका राजदेयभागाः, चन्द्रपक्षे कराः किरणाः। लक्ष्मीकुलगृहं हि कमलं तच्च सदा आमोदेन युक्तं भवति, धूम-भ्रमरयोः वर्णसादृश्येन धूमः 'मधुपाली'पदेन उपमितः । मधुपाः भमराः, तेषाम् आली मधुपाली । भ्रमरा हि अग्भोजसरणौ कमलश्रेण्यां रफरन्ति एव । प्रमदों हर्षः । असमः असाधारणः ।
१. यत्र वसन्तो विप्राः पवित्रसूत्रकलिताः-पवित्रयज्ञोपवीतयुक्ताः, अथवा पवित्राणि श्रौतसूत्रगृह्यसूत्रादीनि सूत्राणि वा ब्रह्मसूत्रादीनि सूत्राणि तैः कलिता:-तत्सूत्रज्ञानधारकाः । विस्तारितर्कक्रमा:-तर्कविद्याविशारदाः। मीमांसोद्यतमानसाः-मीमांसाशास्त्रविचारणायाम् उद्यतमानसाः।कुशलताकुशस्य-दभस्य या लता तस्याः अङ्गीकारेण सारक्रियाणां कर्तारः, अथवा कुशलतायाः-कौशलस्य अङ्गीकारेण सारक्रियाकारिण:-कर्मकाण्डकुशलाः, धनञ्जयं-हतवहं-वैश्वानरम्-अग्निम् । अथवा धनं जयम् इति पदविभागे धनं-ट्रव्यम् , जय-विजयं रवीकुर्वन्ति, इत्यपि भावः ।
२. प्रकटित -प्रकन्तिश्रान पूर्वकं यज्ञविधायिनः कापि स्थाने ते विप्राः, वेदनादरहिता न-वेदस्य नादेन युक्ता एव-सततं वेदपाटिनः । पुनः राज्ञः मन्त्रिणः वेदनायाः-पीडायाः, दरः-भयम, तस्मै हिता न-वेदना-दर-हिता अर्थात् वेदनाभयरहिता एव इति भावः । अथवा वेदना-पीडा, दरः-भयम्-वेदना-दरौ हितौ-धृतौ वेदना-दरौ यैः ते वेदनादरहिताः तादृशा न, अर्थात् येषां राज्ञः मन्त्रिणश्च सकाशाद् न वेदना, नापि भयम् इति, इत्यपि आशयः सुगमः । 'वेद+नाद+ रहिताः', तथा वेदना + दर+ हिताः इति उभयथा विभागः ।
३. यो नृपः भाग्यभरेऽपि असौ करवाले अदभुते रफुर ति सति नारीषु मनोरथमं पुष्णाति, अर्थात् संग्रामशूरोऽपि नारीषु मनोरथपोषकः । तथा असौ करवाले रफुरति न+अरीषु-नारीषु मनोरथक्रमं पुष्णाति-अरीणां इ:-कामना, अरी:-अरिकामः-अरिकामता; तेषु मनोरथक्रमं न पुष्णाति-अरिकामनाक्रमं न पुष्णाति । स्फुरति असौ करवाले एतत्-प्रवृत्तिद्वयम् अद्भुतम् इत्येवं असेः अद्भुतता।
४. तथा यत्र- अस्मिन् नृपे राज्य शासति, राजन्यगणः अनङ्गवत् रूपेण अनङ्ग इव स्फुरति-विकासं प्राप्नोति तथापि स राजन्यगणः, सदङ्गरंगत:- र ताम् रम् रङ्गम् - र देह:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org