SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ उच्छ्वासः] मदनरेखा-आख्यायिका बहुविध-बो-धः-कृतः सकलविषयचिन्तो-ऽवनैकधीर्यस्य । सचिवोऽरिवधूगण इव कृशो-दरीहृदयमधिवसति ॥३७१॥ राज्ये पद्मरथस्यापि समृद्धा मिथिला परम् । राज्ये श्रीमन्नमेरेषा स्वर्गलक्ष्मी जिगीषति ॥३७२॥ तथाहि सौराज्यातिशयोदितोदितधनप्राग्भारसुस्थप्रजारत्न-स्वर्णविचित्रभूषणगणध्वंस्तान्धकारोदये । सूर्याचन्द्रमसावह निशमधो यस्यां दधाते कैरान् भूपाल्लब्धुमिव प्रतापमसमं सौभाग्यमेणीदृशः ॥३७३॥ सदामोदे लक्ष्मीकुलगृह इवाम्भोजसरणौ दधत्यां राज्ञोऽपि प्रमदमसमं कोमलकरैः । स्फुटा चैत्ये धूमावलिरगुरुकर्पूरदहनोस्थिता यत्रोड्डीना स्फुरति मधुपालीव गगने ॥३७४।। किञ्च, १. अत्र श्लोके सचिवः उपमेयम् , अरिवधूगणश्च उपमानम् । तयोः विशेषणानि एवम्बहुविधबोधः कृतः, सकलविषयचिन्तः, अवनैकधीः एतादृशः सचिवः कृशोदरी हृदयम् अधिवसति । अरिवधूगणः कीदृशः ? अरिवधूगणः बहुविधवः, अधःकृतः, सकल विषयचिन्तः, वनैकधीः । सचिवः बहुविधबोधयुक्तः-विविधशानयुक्तः, अरिवधूगणः बहुविधवः अरिंगणस्त्रीषु नैकाः स्त्रियः विधवाः-गतभर्तृकाः सन्ति । अतः स बहवः विधवाः यस्मिन् स बहुविधवः । अत्र व-वयोरैक्य ज्ञेयम् । सचिवः कृतः-कृतकृत्यः-परिपूर्णकार्यकृत् । अरिवधूगणः अधःकृतः तिरस्कारं नीतः । सचिवः सकलविषयचिन्तः-समग्रदेशचिन्ताकारी । अरिवधूगणः सकला ये विषयाः शब्दरूप-रस-गन्ध-स्पर्शाख्यास्तेषाम् अलाभात् तत्संबन्धे चिन्ताविधायकः । सचिवः अवनैकधी:अवनम्-पालनम् , प्रजापालनकमतिः । अरिवधूगणः वनैकधी:-बने एव एका धीर्यस्य, तासां वनवासित्वात् । सचिवः कृशोदरीहृदयम् अधिवसति-कृशोदरीणां-श्यामानां हृदयम् अधिवसति । सचिवस्य स्वस्त्रीवल्लभत्वात् । अरिवधूगण:-यथासमयं भोजनादिसामग्रीणाम् अलाभात् कृशः विशेषतो दुर्वलत्वेन क्षीणः दरीहृदयं-गुहाहृदयम्-गुहामध्ये अधिवसति । सचिवपक्षे 'कृशोदरी , इति अखण्डम् । अरिवधूगणपक्षे 'कृशः दरी' इत्येवं भिन्नपद त्वम् । २. जिगीषति-जेतुम् इच्छति । ३. किरणान् । ४. 'लक्ष्मीकुलगृहे' इत्यस्य सदामोदे विशेषणम् । सदा आमोदः हर्षः परिमलो वा यस्मिन् तादृशि लक्ष्मीकुलगृहे । राज्ञोऽपि कोमलकरैः असमं प्रमदं दधत्यां मिथिलापुर्या सदामोदे 1 कृतः शकल डे। 2 °ला पुरी ला। 3 ध्वस्तेऽन्ध ख । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy