________________
१५०
श्रीजिनभद्रसूरिरचिता
सिन्दूरारुणकुम्भयुग्मसुभगः पादप्रपातादितां मूर्च्छार्तामिव मेदिनीं मदजलैः सिञ्चन्नसौ गच्छति ॥ युग्मम्॥ ३६५॥
राज्ञा पुनरनेकाश्ववारवृन्दैरनेकहस्तिपकैश्च सहसा एव तं वारणराजं व्यावर्तयितुमादिश्यते । केवलं पश्यतामेव तेषां जगाम लोचनानामगोचरं तथापि निजजनपदसीमानं यावत् तत्पदानुसारेण गत्वा दुष्प्रवेशतया परमण्डलस्य व्यावृत्य समागता मिथिलामेव, विज्ञप्तं च राज्ञः ।
कालान्तरेण सुदर्शनपुरागतैः कैश्विद्विज्ञप्तो मिथिलेश्वरः । तद्यथा— यस्तवावनिपुरन्दरद्विपः कुन्दसुन्दरतनुर्यशःप्रभः ।
सोऽस्ति चन्द्रयशसः पुरेऽधुना दानवेशितुरिवाभ्रुमुप्रियः ॥३६६॥ यतः, स तेन स्वविषये प्रविष्टो निजपुरुषेभ्यो विज्ञाय गृहीत्वाऽऽनीयत निजपुरम् । ततो नमिनरेन्द्रेण चतुरमतिर्महा धैर्यधनो विसर्जितस्तस्य मार्गणाय दूतः, गतस्तत्र पुरे, प्रतीहारविज्ञापितागमनश्च समागत्य प्रणम्य च चन्द्रयशसं समुपाविशद् यथोचितप्रदेशे । तदनन्तरं च तदनुरूपं नरेन्द्रस्तवमवोचत् ।
कच्चिदप्रतिहतोदयस्तव क्ष्माधनः स मिथिलापुरीपतिः ।
तस्य पद्मरथराजरक्षिताः कच्चिदक्षतमहोदयाः प्रजाः ॥ ३६७॥ ज्ञापयाऽऽगमनहेतुमात्मनो येन भद्र! नमिना स्मृता वयम् । हानि-वृद्धिसमयेषु सज्जनैः स्मर्यते य इह सेव सज्जनः ॥३६८॥ विग्रहस्तव विभोरुपस्थितः केनचिद् बलवता द्विषा नु किम् ? | प्रास्तवीत् स दुहितुः सुतस्य वा किं विवाहमहमुच्यतां ततः ॥ ३६९॥
f
अथ नरनाथप्रीतिवचनमाकर्ण्य निजस्वामिनः परसाहाय्यापेक्षालक्षणं लाघवमाशङ्कमानो दूतो वक्तुमारभत - देव ! तस्य मिथिलाधिपतेः तस्य दिनाधिपतेश्च भुवनप्रतीतत्वेनाप्रतिहतोदयत्वम् । किमुच्यते
नमेरेवोदयो यद्वा खेवेरेव विराजते ।
अन्येषामुदयस्तेषां येषामेतौ प्रसीदतः ॥ ३७० ॥
१. पुरन्दरद्विपः - पुरन्दरः - इन्द्रः, द्विपः - हस्ती | २. अभ्रमुप्रियः - ऐरावणः ।
[ पञ्चमः
Jain Education International
8
1 प्रतापादितां डे विना । 2 श्यत । तेषां ज ल । 3 रद्विपः कुन्दरद्विपः कुन्दसुन्दर ल | 4 'गमश्च डे । 5 मिथिलपुरी ख । 6 दक्षितम ख । 7 प्रतीतेन डे ।
For Private & Personal Use Only
www.jainelibrary.org