________________
उच्छ्वासः ]
मदनरेखा - आख्यायिका
क्षमनीयत पककथापि यत् यदखिलोत्कलिकापि निराकृता । विकटकोपशमोऽपि यदादृतो
बभुरतः सरितश्चरणोचिताः ॥ ३६२ ॥
मोंसलोलुपरुचि मधूद्ध तां
बिभ्रताऽपि शरर्तुनाऽमुना ।
पापिनेव परमार्थवेदिना
मार्ग एव सुतरां पुरस्कृतः ॥ ३६३ ॥
तदेतत् पठ्यमानमाकर्णयतः कर्णविवरमविशद् अवनिपतेर्महान् कलकलः । 'किमेतत् ' इति यावत् कमपि समादिशति तावदागत्य स्वयमेव विज्ञप्तं हस्तिसाधनिकेनस्मृत्वा विन्ध्याचलक्रीडां मदान्धो गन्धसिन्धुरः । बलादालानमुन्मूल्य हत्वा हस्तिपकानपि ॥ ३६४ ॥ सूर्याचन्द्रमसौ समौ समरुची कृत्वा निवेश्याग्रतयामुदयक्षमाघर इवास्थाद् यस्तव प्रीतये ।
C
१. अधुना शरत् समय समाप्तौ पङ्कस्य कथा अपि क्षयं प्राप्ता न कापि कर्दमस्य नामापि श्रूयते - कर्दमाभावो जातः । अखिला उत्कलिका जलतरङ्गावली अपि निराकृता-अस्मिन् समये विरलजलत्वेन जलस्य उत्कलिका वापि न दृश्यते, अत एव विकास विशालस्य कस्य जलस्य उपशम आहतः, तथा विकटस्य कोपस्य पित्तप्रकोपस्य उपशम आहतः । निर्मलजलस्य अल्पतया सरितश्च चरणोचिताः पादप्रमाणा वभुः - शोभिता जाताः । अथवा सरितः अल्पजलत्वेन चलनयोग्या इति । अत्र र लयोः ऐक्यं ज्ञेयम् ।
२. मांसल+उलुप+रुचिम् । उलुपाः - वीरुधः - गुल्मिन्यो लताः । कोशेषु सर्वत्र लतावाची ८ उलप 'शब्द एवं परन्तु अत्र ग्रन्थकर्त्रा ' उप 'शब्दः व्यवहृतः । एकः उलूपिन् ' शब्दः विशिष्टरूपं मत्स्यं सूचयति परन्तु नात्र स संगच्छते, तथा नौवाचकोऽपि ' उप ' शब्दो विद्यते सोऽपि नात्र घटते । शरत्समये उलपाः - लताः मांसलाः भवन्ति इति हेतो:, अत्र ' उप ' शब्दो गृहीतः । मांसलानाम् उलपानां रुचि - कान्ति, विभ्रता - दधता ।
तथा मधुना - पुष्पमधुना उद्धतां तां रुचि विभ्रता शरदर्तुना इति अन्वयः । शरदा+ऋतुनाशरदर्तुना । पापिनेव पापिपक्षे मांसे लोलुपा या रुचिः, तां बिभ्रता, तथा मधुना मद्येन उद्धतां रुचि विभ्रता पापिना । मार्ग एव शरत्पक्षे मार्गः - मार्गशीर्षमासः एव पुरस्कृतः । पापिपक्षे मार्गः - मृगः, मृग एव मार्गः हरिणः एव पुरस्कृतः । परमार्थवेदिना अत्र ' अर्थ 'शब्दः निवृत्तिं सूचयति ' शरत्समयो निवृत्त इति ज्ञेयम् । पापपक्षे ' अर्थ 'शब्दः प्रयोजनं सूचयति । " अर्थो हेतौ प्रयोजने निवृत्तौ " इत्यादि हैम- अनेकार्थे ।
३. चूडायाम् - हस्तिचूडायाम् सूर्याचन्द्रमसौ चित्रितौ इति आशयः ।
Jain Education International
१४९
For Private & Personal Use Only
www.jainelibrary.org