SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १ श्रीजिनभद्रसूरिरचिता [ पश्चमः वितरण पयसोऽपि समुज्झितं समधिकं स्तनितं तु पुरस्कृतम् । इह घनैः कलिकाल इवेश्वरैः परममी प्रतिभान्ति जडाशयाः ॥३५९।। कैमपरः पतितो निजमार्गतो न कतमः किल कर्दमतोयतः ? । इह तदीयमपि प्रविदीर्यते हृदयमब्दपितुर्विरहादिव ॥३६०॥ संततमेव विधाय महामुदं शरदतौ गमनाय समुद्यते ।। गुणगणानिव तस्य जनः कणान् स्वमनसीव दधाति निजे गृहे ॥३६१॥ १. कलिकाले ईश्वरैः इव धनैः । कलिकाले ईश्वराः पयसः क्षीरस्य वितरण-दानं न कुर्वन्ति । शरदि च घनाः पयसः-जलस्य दानं न कुर्वन्ति । ईश्वराः घनाश्च द्वावपि जडाशयौ, ईश्वराः लोभाविष्टा अत एव जडाशयाः-मूढाशयाः, घनाः जडाशया:-जलाशयाः-जलभृतः । . ईश्वरा दान न कुर्वन्ति, घनाश्च जलदानं कुर्वन्ति, तथापि तयोईयोरपि स्तनितं-गर्जनं तु पुरस्कृतमेव, ईश्वरा वयं दानिनः इति येन केन प्रकारेण गर्जनं कृत्वा प्रख्यापयन्ति, घनाश्च मेघाः स्वयमेव गर्जन्ति । २. क्रमपर:-गतिपरः कतमो जनः कर्दमतोयतः चिक्कणस्य कर्दमस्य पानीयतः निजमार्गतो न पतितः ? सर्व एव पिच्छलात् कर्दमात् पतित एव, अथवा कर्दमतः-कर्दमवशात् कतमो जनो न पतितः? यतः एवंविधजनपातेन-अब्दपितु:-अब्दो मेघः तद्रपः पिता, तस्य अब्द पितुः विरहात्-मेघरूपजनकविरहात्-कदमस्य प्रचण्डमार्तण्डतापेन हृदयं विदीर्यते। कर्दमो हि अब्दपुत्रःअब्दस्थितौ एव कर्दमो जायते । अधुना अब्दो नास्ति अतः सूर्यतापेन शोषणात् कर्दमस्य हृदय विदीर्यत एव इति प्रसिद्धम् । पूर्व मेघवर्षणेन भूरिः कर्दमो जातः, तेन च चिक्कणकर्दमतोयस्य संभावना कृता । अधुना तु मेघरूपजनकविरहात् सूर्यस्य प्रचण्डतापेन कर्दमस्य शोषणेन मध्ये भेदनेन च एवंविधजनपातेन इव कर्दमहृदयं विदीयते इति कल्पना । ३. पूर्व मेघवर्षणेन तदनन्तरं च शरत्समये समागते भूरि भूरि धान्यपाकः संजातः, ततः सततमेव महामुदं विधाय शरत्समये गमनाय समुद्यते-शरत्समयसमाप्तौ लोकः स्वमनसि गुणगणान् इव धान्यकणान् निजे गृहे दधाति-धारयति । 1 प्रतिदी डे । 2 निजगृहे ख । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy