________________
उन्यासः ]
मदनरेखा-आख्यायिका कर्तुमीशर्तुऋद्धीनां काननं मधुरोचितम् । शरलक्ष्मी विना पद्मकाननं मधु-रोचितम् ॥३५५॥ धवलिता नु किमेष्यति कौमुदीमहसि वृद्धतया पलिता नु किम् । अमृतदानयशश्छुरिता नु कि शुशुभिरे नभसीह घनाघनाः ॥३५६॥ कलुषताममुचन्निजवृष्टिभि-- भुवनतापमपास्य पयोमुचः । विशदता जसङ्गविवर्जनाद् यदि बभूव किमत्र कुतूहलम् ? ॥३५७॥ विषमपर्णसुमैरधिवासिते भृशमगस्त्युदयाद्विमले जले । स्वमदगन्धिनि च प्रतिबिम्बित
स्वमितमन्यम(द)मन्यत हास्तिकम् !।३५८॥ १. ईश ! मधुरोचितं पद्मकाननं विना शरलक्ष्मीम् ऋतुऋद्धीनां मधुरोचितं काननं कर्तुं 'कौमुदी एष्यति' इति अतोऽनन्तरम् आगते श्लोके स्थितेन वाक्येन संबन्धः । मधुरं च तद् उचितं च इति मधुरोचितम् इति काननस्य विशेषणम् । पद्मकाननस्य विशेषणे मधुना रोचितं मधुरोचितं इति तृतीयातत्पुरुषः । शरदि पद्मानि न जायन्ते इति 'पद्मकाननं विना' इति सूचितम् ।
२. शरदि एष्यति आगामिनि कौमुदीमहोत्सवे मेघाः श्वेता भवन्ति, अतः 'धवलिसाः' इति 'पलिताः' इति मेघविशेषणम् ।
३. अमृतं-जलं तस्य दानं तेन छुरिताः-चकचकिताः घनाघना:-मेघाः ।
४. मेघा हि शरत्समये जलसंगविवर्जनाद् जलरहितत्वेन विशदा:-अकलुषाः जायन्ते, अत उक्तम्-जडसंगविवर्जनाद् अन्योऽपि कश्चिद् जडसंगविवर्जनाद् विशदो जायत एव । अन ड-लयोरैक्यं बोध्यम् ।
५. हस्तिमदसमानगन्धा हि सप्तपर्ण-विषमपर्णनामका वृक्षाः इति प्रसिद्धिः, तेषां विषमपर्णानां सुमैः-कुसुमैः, भृशं-भूरि अधिवासिते सुगन्धिते तथा अगस्तिनक्षत्रस्य उदयेन विमले जाते जले ते विषमपर्णवृक्षाः प्रतिविम्बिताः, अतः तत्रस्थं हास्तिकं तेषां प्रतिबिम्बितं स्वमितं स्वप्रमाणम् अन्यद हास्तिकं तत्र आगतम् इति अमन्यत इति अस्य पद्यस्य आशयः । हस्तिनां समूहः हास्तिकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org