________________
१४६
श्रीजिनभद्रसूरिरचिता राज्यं वृद्धिमुपैति येन दधते येन प्रजास्ताः श्रियो धर्मो येन न हीयते न विरमत्यन्ते च मुक्तिस्पृहा । कीर्तिर्येन दिगङ्गनाश्रियमलङ्कतु समुज्जृम्भते
श्रद्धेयं तदवश्यमेव भवताऽनुष्ठेयमप्यादरात् ॥३४९॥ इत्यादिशिक्षा वितीर्य शुभनिमित्त-मुहूर्ते स्वयं समुत्थाय स्वमिव तमेव तत्रैव सिंहासने निवेश्य सकलसामन्तमन्त्रिसार्थवाहसहितो गृहीतसुवर्णकलशः सानन्दमभिपिच्य सतिलक भालस्थलं चकार । नमिकुमारयशसेव धवलम् तद्विनयेनेव सन्निहितम् तद्भयेनेव प्रतिपन्नदण्डम् मुक्तावचूलतारकपरिकरित नभस्तलमिव तस्य मूनि धारितमात्रपत्रं चश्चञ्चन्द्ररश्मिनिकरेणेव दिवापि सश्रीकतां धारयतो नित्यमखण्डप्रवृत्तस्याभिनवस्य राज्ञः सेवागतेन रुचिरचामरयुगलेन 'वीजन चक्रे। दिशोऽपि प्रसन्नाः, प्रतिशब्दनिभेन सुमुहूर्तानुमोदनामिव कारयितुं दध्वने दुन्दुभिना, निखिलकौशलिकसम्पादनपूर्व प्रणेमे सकलेनापि राजचक्रेण ।
तदित्थं विनिवेश्यैनं राज्ये जातः स दीक्षितः । राज्ञामुत्तीर्णभाराणां किमन्यत् समयोचितम् ॥३५०॥ भूधरत्वं परित्यज्य रत्नत्रयधरोऽभवत् । मित्रीकृत्य बहिःशत्रून् दलयामास चान्तरान् ॥३५१॥ आत्मानं परमात्मानमिव ध्यायन्नहर्निशम् । स प्राप परमानन्द केवलज्ञानभास्करः ॥३५२॥ नमिः पुनरसौ राजा वशीकृतमहीतलः । कुंवारौ न भयं चक्रे महानन्दमिवाद्विषि ।।३५३॥ सममधिगततत्त्वैर्धर्मचर्या मुनीन्द्रैः पुरजनपदचिन्तां मन्त्रिभिः सावधानः । विषयसुखसमृद्धिं ताभिरन्तःपुरीभिः
कलयति स तदानीं सिद्धधर्मार्थकामः ॥३५४॥ कतिपयेषु च वत्सरेषु परमामस्खलितामुप ञानस्य राज्यसम्पदं कश्चिद् वैतालिका समागतां शरदं वर्णयामास
१. 'वीजण वीजने' धातोः 'वीजनम्' इति रूपं साधु ।
'वीजण वीजने' इति चौरादिकः अदन्तो धातुः ‘क्रियारत्नसमुच्चये' (पृ० २८६) दृश्यते । भाषायां 'वींजवु-चामर वींज्या ।।
1 °कलितं ख । 2 कस्यारेन भय डे । 3 भुञ्जमान डे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org